पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धीवर्ग: ५] वर्णान्तरेण । 'म मुचि कल्कने' (भ्वा० आ० से ० ) । 'कृञादिभ्यः संज्ञायां वुन्' (५१३५) । 'पचिमच्योरिञ्चोप- धायाः' ( उ० ५१३७ ) इतीत्वे लघूपधगुणः ( ७७३।८६) । 'मेचकः श्यामले कृष्णे तिमिरे बर्हिचन्द्रके' इति हैमः ॥ (७) ॥ ॥ सप्त 'कृष्णस्य' । शब्दार्णवे तु 'मेचक: कृष्ण- नीलः स्यादतसीपुष्पसंनिभः' इत्युक्तम् ॥ पीतो गौरो हरिद्राभः व्याख्यासुधाख्यव्याख्यासमेतः । (पीत इति ॥) पीयते पिबति वर्णान्तरम् । औणादिकः तः ( बाहुलकात् ३१८९ ) । 'पीतं पाने हरिद्रायां स्त्रियां, गौरेऽभिधेयवत्' । यत्तु - पीयते वर्णान् । पातेबहुलकात् ‘अजिघृषिभ्यः तः' ( उ० ३१८९) 'घुमास्थागा - ' ( ६२४ ६६ ) इत्यादिना ईत्वम्-इति मुकुटेनोक्तम् । तदसंबद्धमिति स्फुटमेव ॥ ( १ ) ॥*॥ (२) ॥ * ॥ हरिद्रेवाभा दीप्तिरस्य || (३) ॥ * ॥ त्रीणि 'पीतवर्णस्य' ॥ पालाशो हरितो हरित् ॥ १४ ॥ । ( पालाश इति ॥) पलाशस्य पत्रस्यायम् । 'तस्येदम्' ( ४ | ३ | १२० ) इल्यण् ॥ * ॥ 'पत्रं पलाशं ना रक्षःशठीहरि- तर्कशुके' इति रुद्राद्धस्खादिरपि । तत्र संज्ञापूर्वकत्वाद्वृद्ध्य- भावः । यद्वा पलमश्नाति । 'अश भोजने' ( क्या० प० से ० ) । ‘कर्मण्यण्’ ( ३।२।१ ) । ततः प्रज्ञाद्यण् (५१४१३८ ) 'पैलाशः किंशुके शव्यां । हरिद्वर्णो राक्षसच पलाशं छदने स्मृतम्’ इति हैमैः ॥—‘शेषे’ ( ४ | २ | ९२ ) इत्यस्य विधित्वा जीकारादण्- इत्याहुः । तन्न । 'तस्येदम्' इति सिद्धे शेषत्वा- भावात् ॥ (१) ॥*॥ हरति । 'हृश्याभ्यामितन् ' ( उ० ३१ ९३ ) | 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' ॥ (२) ॥ * ॥ 'हृसुरुहियुषिभ्य इतिः' ( उ० ११९७ ) | हरित् । ( 'हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्या- तूणे च ) ॥ ( ३ ) ॥॥ त्रीणि 'हरितवर्णस्य' || रोहितो लोहितो रक्तः प्राचीनामलकेऽरुणे' इति हैमः ॥ ( ३ ) ॥ * ॥ त्रीणि 'रक्त- वर्णस्य' ॥ शोण: कोकनच्छविः । (शोण इति ॥ ) शोणयति । 'शोण वर्णे' (भ्वा०प० से ० ) । पचायच् (३।१।१३४ ) । 'शोषणः कृशानौ स्योनाके लोहि- तावे पुमान् | त्रिषु कोकनदच्छाये ॥ (१) ॥ * ॥ कोकनदं रक्तोत्पलमिव छविर्यस्य ॥ ( २ ) ॥ ॥ द्वे 'शोण- वर्णस्य' ॥ अव्यक्तरागस्त्वरुणः (अव्यक्तेति ॥) अव्यक्तो रागो यस्य | किंचिल्लोहितः ॥ (१) ॥ * ॥ ऋच्छति | 'ऋ गतौ' ( भ्वा०प० अ० ) ‘भर्ते- रुनन्' ( उ० ३१६० ) | 'अरुण: कृष्णलोहितः' इत्यमर- । 'अरुणोऽव्यक्तरागेऽर्के संध्यारागेऽर्कसारथौ । निःशब्दे कपिले कुष्ठभेदे ना, गुणिनि त्रिषु ॥ अरुणाऽति- विषाश्यामामजिष्ठात्रिवृतासु च ॥ ( २ ) ॥ * ॥ द्वे 'अरुण- वर्णस्य' || माला श्वेतरक्तस्तु पाटलः ॥ १५ ॥ ( श्वेतेति ॥ ) श्वेतरक्तः ॥ (१) ॥ ॥ पाटयति | 'पट गतौ' ( भ्वा०प० से ० ) ण्यन्ताद्वृषादित्वात् ( उ० १९१०६ ) कलच् । पाटलाकुसुमाभः पाटलः । 'पाटलं तु कुकुमश्वेतरक्तयोः ।। पाटलः स्यादाशुत्रीहौ पाटला पाटलिद्वमे' इति हैमः ॥ (२) ॥ ॥ द्वे 'श्वेतरक्तवर्णस्य || श्यावः स्यात्कपिशः (श्याव इति ॥ ) श्यायते । 'श्यैङ् गतौ' ( भ्वा० आ अ० ) बाहुलकात् 'कृसृगृदृभ्यो वः ( उ० ११५५ ) ॥ (१) ॥*॥ कपिर्वर्णविशेषः। सोऽस्यास्ति । लोमादित्वात् (५॥ २ ॥ १०० शः । कपिर्मर्कटः । तद्वर्णत्वादिति वा । 'कपिश- स्त्रिषु श्यामे, स्त्री माधव्यां, सिहके पुमान् ॥ ( २ ) ॥ * ॥ 'कृष्णपीतस्य' द्वे ॥ धूम्रधूमलौ कृष्णलोहिते । (धूम्रेति ॥) धूमं राति । कः ( ३।२।३ ) | पृषोदरादिः ( ६।३।१०९ ) ॥ (१ ) ॥ * ॥ धूमं लाति । 'रा, ला, आ- दाने' ( अ० प० अ० ) । कः ( ३।२।३ ) ॥ (२) ॥*॥ कृष्ण- मिश्रो लोहितः ॥ (३) ॥॥ त्रीणि 'कृष्णलोहितस्य' ॥ कडारः कपिलः पिङ्गपिशङ्गौ कपिङ्गलौ ॥ १६ ॥ ( रोहित इति ॥ ) रोहति । 'रुह बीजजन्मनि प्रादुर्भावे च' ( भ्वा० प० अ० ) । 'रुहे रक्ष लो वा' ( उ० ३ १९४ ) इतीतन् ॥ (१) ॥*॥ 'लोहितो मङ्गले नदे । वर्णभेदे लोहितं तु कुंकुमे रक्तचन्दने ॥ गोशीर्षे रुधिरे युद्धे' इति हैमः ॥ (२) ॥*॥ रजति स्म । ‘रज रागे' (भ्वा० उ० अ० ) । तः ( ३|२|१०२ ) । यद्वा रच्यते स्म । 'रच प्रतियत्ने' ( चु० उ० से० ) । 'अनित्यण्यम्ताबुरादयः' इति णिजभावे क्तः ( ३।२।१०२) । ‘अतो लोपः’ ( ६।४|४८) । ‘चोः कुः’ ‘गडेः कड च' ( उ० ३१ ३२ ) इत्यारन् । यद्वा कडनम् । ( कडार इति ॥) गडति । 'गड सेचने' (भ्वा० प० से ० ) ( ८ | १२ | ३० ) । 'रक्तं नील्यादिरञ्जिते । कुङ्कुमेऽसृज्य रक् । १ - तालव्यान्तः 'राजन्कपिशताकीर्णे' इति द्विसंधानश्लेषात् 'कपि- १ - विश्वकोषस्थोऽयं पाठः ॥ २-हैमे तु नोपलभ्यते ॥ ३- शितं पिचितं मदनाझिना' इति माधात् ॥ २ -- तालव्यमध्यः । तथा मेदिन्यामुपलभ्यते ॥ ४ - हैमे तु 'पलाश: किंशुकेऽस्रपे । हरितेच माघे 'परिपाकपिशङ्गल तारजसारोधश्चकास्ति कपिशं गलता' इति - पकाशं पत्रे' इत्येव पाठः । इति मुकुटः ॥