पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८ ‘अकर्तरि च’ (३।३।१९) इति घञ् । 'स्पर्शो वैर्गाक्षरे दाने स्पर्शने स्पर्शके रुजि’ इति हैमः ॥ (१) ॥॥ विसिन्वन्ति निबध्नन्तीन्द्रियाणि । 'षिज् बन्धने' ( खा० उ० अ० ) । पंचाद्यच् (३|३|१३४) । 'परिनिवि-' (८/३/१७०) इति म् । 'विषयो यस्य यो ज्ञातस्तत्र गोचरदेशयोः । शब्दादौ जनपदे च' इति हैमः ॥ (१) ॥ ॥ गाव इन्द्रि- याणि चरन्त्येषु । 'करणाधिकरणयोः' इत्यधिकारे 'गोचर संचर-' (३।३।११९) इति निपातितः ॥ ( २ ) ॥ ॥ इन्द्रि- यैरर्थ्यन्ते । 'अर्थ याच्नायाम्' ( चु० आ० से० ) । कर्मणि घञ् (३।३।११९) ॥ (३) ॥*॥ पञ्चानामपि प्रत्येकं त्रीणि 'विषयाणाम्' || अमरकोषः । हृषीकं विषयीन्द्रियम् । 12 ( हृषीकमिति ॥) हृष्यन्त्यनेन । 'हृषु अलीके' ( भ्वा० प० से ० ) । 'अलिहृषिभ्यां कित्' ( उ० ४|१७) इति करणे ईकन् ॥ (१) ॥ * ॥ विषयोऽस्यास्ति | इनिः (५१२/११५ ) । ('विषयी विषयासक्के वाच्यवत् क्लीबमिन्द्रिये । पुंसि स्या. नृपतौ कामदेवे वैषयिकेऽपि च ) ॥ ( २ ) ॥ * ॥ इन्द्रस्या- त्मनो लिङ्गम् । ‘इन्द्रियमिन्द्रलिङ्गम् (५/२/९३) इत्या- दिना घच् निपातितः । 'इन्द्रियं तु चक्षुरादिषु रेतसि' इति हैमः ॥ (३) ॥*॥ त्रीणि 'इन्द्रियाणाम्' || कर्मेन्द्रियं तु पावादि (कर्मेति ॥) कर्मसाधकमिन्द्रियं कर्मेन्द्रियमुच्यते ॥ (१) ॥*॥ पायति शोषयति तैलमिति पायुः | ‘पै शोषणे' (भ्वा० . प० अ० ) 'कृवापाजि - ' ( उ० १११ ) इत्युण् । 'आतो युक्-' (७१३३३३) ‘पायूपस्थे पाणिपादौ वाक्चेतीन्द्रियसंग्रहः । उत्सर्गानन्दनादानगत्यालापाश्च तत्कियाः' इति कामन्द- कीये ॥ एकम् 'गुह्यादीन्द्रियस्य' ॥ (मन इति ॥) धीसाधन मिन्द्रियं धीन्द्रियम् ॥ (१) ॥॥ 'मनः कर्णौ तथा नेत्रं रसना च त्वचा सह । नासिका चेति षट् तानि धीन्द्रियाणि प्रचक्षते' ॥ एकम् 'ज्ञाने- न्द्रियस्य' || [ प्रथमं काण्डम् 'नापि कषायस्तुंवरः' इति बोपालितः । 'पुंसि कषायस्तुव रम्' इति क्लीबकाण्डे रत्नकोषः ॥ (१) ॥ ॥ कषति क ण्ठम् । 'कष हिंसायाम्' (भ्वा०प० से ० ) । बाहुलकादायः । 'कषायः सुरभौ रसे । रागवस्तुनि निर्यासे को विलेपने' इति हैमः ॥ ( २ ) ॥ ॥ अस्त्रीत्युभयान्वयिः । उक्तकोषाभ्याम् । 'कुवरस्तु कषायोऽस्त्री' इत्येके पठन्ति ॥ द्वे 'कषायरसस्य' ॥ are als • (तुवर इति ॥ ) 'तुः' सौत्रो धातुः । तवीति हिनस्ति रो- गान् । 'छित्वरछत्वर-' (उ० ३११) इत्यादिना ध्वरच् । ('तुवरस्तु कषाये स्यात्काक्ष्याढक्योस्तुवर्यपि ) ॥ ॥ दी र्धादिरपि । 'नरेऽश्मश्रुणि शृङ्गाभ्यां रहिते गवि तूवरः । काले प्राप्ते कषाये च रसे पुंव्यञ्जने च्युते' इत्युत्पलिनी । १- वर्गाक्षराणि कादयो मावसानाः पञ्चविंशतिः । 'ते वर्गाः पञ्च मञ्च' इति कातन्त्रसूत्रात् ॥ मधुरो ( मधुर इति ॥) मधु माधुर्यमस्यास्ति । 'ऊषसुषि-' (५० २।१०७) इति रः । ('मधुरं विषे ) | मधुरतु प्रिये स्वाद रसे च रसवत्यपि। मधुरा मथुरापुर्या यष्टीमेदामधूलिषु । • मधुकुकुटिकायां च मिश्रेयाशतपुष्पयोः' इति हैमः ॥ (१) ॥॥ एकम् 'मधुरस्य' || ( तिक्त इति ॥) तेजयति स्म । 'तिज निशाने' (चु०प० से०)। सामान्यापेक्षज्ञापकाञ्चुरादीनां णिजभावे 'गत्यर्था- मनोनेत्रादि धीन्द्रियम् ॥ ८॥ | कर्मक- ( ३ ॥४॥७२ ) इति तः । पक्षान्तरे तु संज्ञापूर्वक लागुणाभावः । 'तितस्तु सुरभौ रसे । तिक्ता तु कटुरो- हिण्यां तिक्तं पर्पटकौषधे' इति हैमः ॥ ( १ ) ॥॥ एकम् 'तिक्तस्य' ॥ "लवणः ( लवण इति ॥) लुनाति जाज्यम् । 'लूव् छेदने' (क्या० उ० से० ) । नन्द्या दिल्युः (३|१|१३४ ) | लवणाल्लुक् (४। ४२४) इति लिङ्गणत्वम्। 'लवणो राक्षसे रसे। अस्थि- भेदे लवणा विट्' इति हैमः || ( १ ) ॥ ॥ एकम् 'लवणस्य' ॥ ( कटुरिति ॥) कटल्यावृणोति तीक्ष्णतया मुखम् । 'कटे वर्षावरणयोः' (भ्वा०प० से० ) । 'कटिवटिभ्यां च ( उ० ११८) इत्युः | 'कवकार्ये मत्सरे च दूषणे च कटू रसे | तिक्ते प्रियङ्गुसुरभौ कटुका राजिकास्वपि' इति हैमः ॥ (१) ॥ ॥ एकम् 'कटोः' ॥ तिक्तः अम्ब्लश्च ( अम्ल इति ॥) अम्ब्यते शब्यते भोक्तृभिः । 'अबि शब्दे' ( भ्वा० प० से ० ) । 'मूशक्यविभ्यः क्लः' ( उ० ४। १०८ ) | अम्लः ॥॥ 'अम रोगे' ( चु० उ० से ० ) | अमति रुजत्यरुचिम् | बाहुलकाले अम्लोऽपि । 'अम्लो रसेऽम्ल- चेतसे । ( अम्ली चाङ्गेर्याम् ) " इति हैमः ॥ (१) ॥*॥ एकम् 'अम्लस्य' || १ - अत्र दीर्घे त्वार्या भङ्गः स्यात् इति मुकुटः ॥ २ – अस्थि भेदो भालकर्णान्तरास्थि । तत्र यथा प्रयोगः । 'शृणाति लवणाघातः' इत्यने- कार्थकैरवाकरकौमुदी ॥