पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वीवर्गः ५ ] • संविदागूः प्रतिज्ञानं नियमाश्रव-संश्रवाः । अङ्गीकाराभ्युपगम-प्रतिश्रव-समाधयः ॥ ५ ॥ (संविदिति ॥) संवेदनम् । 'विद ज्ञाने' (अ० प० से ० ) । संपदादित्वात् (वा० ३।३।१०८ ) किप् ॥ ( १ ) ॥ ॥ आ- गमनम् । आगूः । ‘गमेः’ इत्यनुवर्तमाने 'भ्रमेश्च हू:' (उ० २१६८ ) | डित्त्वाहिलोपः (६|४|१४३ ) | वधूशब्दवत् । यदा तु क्विपि (वा० ३।३।१०८) 'गमः को (६४४० ) इत्यन्तलोपे 'ऊड् च गमादीनाम्' (वा० ६|४|४० ) इत्यू- कारादेशः । तदा 'ओः सुपि (६४१८३) इति यणि अमि शसि च 'आग्वम्, आग्वः' इति विशेषः । 'गुरी उद्यमने' ( उ० आर० से ० ) । अस्मात् किपि ( वा० ३।३।१०८) तु आगूः, आगुरौ, आगुरः, इति धूर्वत् ॥ (२) ॥॥ जाना- तेर्ब्युट् (३|३|११५) ॥ (३) ॥*|| 'यमः समुपनिविषु च' (३|३|६३) इत्यप् । 'नियमो यन्त्रणायां च प्रतिज्ञानिश्चय - व्रते’ ॥ (४) ॥*॥ आङ्पूर्वाच्छृणोते: 'ऋो:- (३|३|५७) इत्यप् । 'आश्रवोsीकृतौ क्लेशे नान्यवद्वचनस्थिते ॥ (५) ॥ * ॥ एवं संचव (६) प्रतिश्रवौ (९ ) ॥ ॥ 'अङ्गी' इति व्यन्तमव्ययम् । तत्पूर्वात्कृषो भावे घञ् (३|३|१८ ) ॥ (७) ॥*॥ ‘अभ्युप’ इत्युपसर्गद्वयपूर्वाद्गमेः 'ग्रहवृह - (३१३१५८) इत्यप् । ‘अभ्युपगमस्तुपुंसि स्वीकारे निकटगमने च ॥ (८) ॥*॥ समाङ्पूर्वाद्धाको भावे किः ( ३१३१९२ ) | 'समा- चिर्ना समर्थने । ध्याने वैरस्यनियमे काव्यस्य च गुणा- न्तरे' ॥ (१०) ॥*॥ दश 'अङ्गीकारस्य' ॥ मोक्षे धीर्ज्ञानम् व्याख्यासुधाख्यव्याख्यासमेतः । (मोक्षे इति ॥) मोक्षफलिका घीर्ज्ञानम् ॥ (१) ॥*॥ एकम् 'मोक्षोपयोगिबुद्धेः' ॥ । अन्यत्र विज्ञानं शिल्पशास्त्रयोः । (अन्यत्रेति ॥) अन्यफलिका शिल्पे शास्त्रे च या धीः सा विज्ञानम् । ‘विज्ञानं कार्मणे ज्ञाने' इति हैमः | मुकुटस्तु—— 'मोक्ष इति निमित्तसप्तमी । मोक्षनिमित्तं शिल्पशास्त्रयोधर्ज्ञा- नमुच्यते । अन्यनिमित्तं या तयोर्धीः सा विज्ञानम्' इति व्याख्यत् । 'तैन । शिल्पज्ञानस्य मोक्षेऽनुपयोगात्' ॥ (१) ॥*॥ एकम् 'शिल्पादिविषयकबुद्धेः' ॥ मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम् ॥ ६ ॥ मोक्षोऽपवर्गः (मुक्तिरिति ॥) मोचनम् । ‘मुच्छ मोक्षणे' ( तु० उ० अ०) । किन् (३।३।९४)। 'मुक्तिर्मोचनमोक्षयोः' इति हैमः ॥ (१) ॥*॥ बन्धविरहात्केवलस्य भावः । 'गुणव- चन-' (५॥ १।१२४) इति ष्यञ् ॥ (२) ॥ * ॥ निर्वान्त्यत्र । भावे वा । ‘क्तोऽघिकरणे च’ (३१४१७६) इति 'नपुंसके भावे १ अयं पाठः कुत्रत्विन्नोपलभ्यते ॥ अमर ८ 4.60 तु (३।३।११४) इति वा क्तः । 'निर्वाणोऽवाते -' (८२५०) इति निष्ठानत्वम् । यद्वा अधिकरणे भावे वा ल्युट् । बन्धान्नि- र्गमनमित्यर्थः । 'निर्वाणं मोक्षनिर्मृत्योर्विधाने करिमज्जने' इति हैमः ॥ (३) ॥ ॥ अतिशयेन प्रशस्यं श्रेयः । 'श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते तु वाध्यवत् ॥ ( ४ ) ॥*॥ नि- तरां श्रेयः निःश्रेयसम् । 'अचतुर' (५१४१७७) इति निपा- तितम् । 'निःश्रेयसं तु कल्याणमोक्षयोः शंकरे पुमान् ॥ (५) ॥ ॥ अविद्यमानं मृतं मरणमत्र । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्व- न्तरिदेवयोः' ॥ ( ६ ) ॥ ॥ 'मोक्ष अवसाने' (चु० उ० से० ) अवसानं क्षेपः | चुरादिः | ‘एरच्' ( ३ |३|५६) । घम् (३१३११८) वा । 'मोक्षो निःश्रेयसे वृक्षविशेषे मोचने मृतौ' इति हैमः ॥ (७) ॥ * ॥ अपवर्जनम् | 'बृजी' वर्जने' ( अ ० आ० से ० ) । घम् 'अपवर्गस्त्यागमोक्षयोः । क्रियावसाने साकल्ये' इति हैमः ॥ (८) ॥ * ॥ अष्टौ 'मोक्षस्य' ॥ अथाज्ञानमविद्याहंमतिः स्त्रियाम् । ( अथेति ॥ ) ज्ञानविरुद्धम् । ज्ञाननिवर्त्यत्वात् ॥ (१) ॥ * ॥ 'विद ज्ञाने' (अ० प० से० ) । वेदनम् ‘संज्ञायां समज - ' (३|३|९९ ) इति क्यप् | अविद्या विद्याविरुद्धा ॥ (२) ॥ ॥ अहमिति विभक्तिप्रतिरूपकमव्ययमहंकारार्थम् । अहंप्रधाना मतिः ॥ (३) ॥ * ॥ त्रीणि 'अज्ञानस्य' ॥ रूपं शब्दो गन्धरसस्पर्शाच विषया अमी ॥ ७ ॥ गोचरा इन्द्रियार्थाच ( रूपमिति ॥ ) रोपयति विमोहयति । 'रुपु विमोहने (दि० प० से ० ) | अच् ( ३ | ३ | १३४ ) | 'अन्येषामपि (६।३।१३७) इति दीर्घः । यद्वा 'रूप रूपकरणे' (चु० उ० से० ) इति चौरादिकस्यायमप्यर्थः । या । 'रु शब्दे' ( अ० प० अ० ) । 'खष्पशिल्प- ' ( उ० ३१२८ ) इति पप्रत्ययो दीर्घश्च निपातितः । ‘रूपं तु श्लोकशब्दयोः । पशावाकाशे सौन्दर्ये, नाणके नाटकादिके ॥ ग्रन्थावृत्तौ स्वभावे च' इति हैमः ॥ ( १ ) | | राप्यते आक्रुश्यते । 'शप आक्रोशे' (भ्वा०, दि० उ० अ० ) 'शाशपिभ्यां द- दनौ ' ( उ० ४८९७ ) इति दन् । 'शब्दोऽक्षरे यशोगीत्यो- र्वाक्ये खे श्रवणे ध्वनौ' इति हैमः ॥ ( १ ) ॥ * ॥ गन्धयति । 'गन्ध अर्दने' ( चु० आ० से ० ) | अच् (३।१।१३४) । 'गन्धः संबन्धलेशयोः । गन्धकामोदगर्वेषु' इति हैमः ॥ (१) ॥ * ॥ रस्यते । ‘रस आखादने' (चु० प० से ० ) चुरादिः । ‘एरच्’ (३१३१५६ ) | घ (३|३|१८) वा । 'रसो गन्धरसे जले। शृङ्गारादौ विषे वीर्ये तितादौ द्रव- रागयोः ॥ देहधातुप्रमेदे च पारदस्खादयोः पुमान्' इति हैमैः ॥ (१) ॥४॥ ‘स्पृश संस्पर्शने' ( तु ० प ० से ० ) । १ - मेदिन्यामेवोपलभ्यते ॥