पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् भक्षयति कर्तारम् । 'पा पाने' (भ्वा०प०अ० ) ॥ (३) | मुत्प्रीतिः प्रमदो हर्षप्रमोदामोदसंमदाः ॥ २४ ॥ ॥*॥ केलयति क्रीडयति विषयेषु । 'किल वैल्यकीडनयोः' स्यादानन्दथुरानन्दशर्मशातसुखानि च । ( तु०प० से० ) । 'किलेबुक्च' ( उ० १९५०) इति टिषच् बुगागमश्व | ('किल्विषं पापरोगयोः | अपराधेऽपि ) ॥ (४) ॥ ॥ शुभं कर्म स्थति समाप्तं करोति । 'षोऽन्तकर्मणि' (दि० प० अ०) । 'आलोऽनुप-' (३|२|३) इति कः । पृषोदरादित्वात् (६|४|१०९) लत्वषत्वे । 'कल्मषं कि- ल्बिषे क्लीबं पुंसि स्यानरकान्तारे' ॥ ( ५ ) ॥ * ॥ कलयति वशीकरोति । ‘कल गतौ, संख्याने ' ( चु० उ० से ० ) | ‘पून- हिकलिभ्य उषच्’ (उ० ४।७५)। 'कलुषं लाविले पापे' ॥ (६) ॥*॥ वृज्यते । ‘वृजी वर्जने' (अ० आ० से ० ) । 'वृजेः किञ्च' ( उ० २९४७) इतीनच् । 'वृजिनं कल्मषे क्लीबं केशे ना कुटिले त्रिषु’ ॥ (७) ॥ यन्त्यधोऽनेन । एति गच्छति प्राय- चित्तेनेति वा । 'इणू गतौ' (अ० प० से ० ) । 'इण आगसि' ( उ० ४१९८) इत्यमुन्, नुडागमश्च । ( 'एनः पापापरा- धयोः’) ॥ (८) ॥*॥ अङ्घते गच्छति दानादिना । 'अघि गतौ ' (भ्वा० आ० अ० ) | पचाद्यच् (३।१।१३४) आगम- शास्त्रस्यानित्यत्वान्न नुम् । 'अघं दुःखे व्यसनैनसोः' इति हैमः ॥ (९) ॥ ॥ अमति गच्छति । 'अम गत्यादिषु' ( स्वा०प० से ० ) । 'अमेहुक्च' ( उ० ४१२१३) इत्यसुन्, हुगागमञ्च | यद्वा अंहति । 'अहि गतौ' ( भ्वा०प० से० ) । असुन् ( उ० ४/१८९) 'अङ्घः' इति केचित्पठन्ति । तत्र 'अघि गतौ' (भ्वा० आ० से ० ) धातुर्बोध्य: ॥ (१० ) ॥ * ॥ इणो भावे तः (३।३।११४) । दुष्टमितं गमनमनेन ॥ (११) ॥॥ दुष्टं कृतं करणमनेन । 'इदुदुपधस्य - ' (८३१४१ ) इति षः ॥ (१२) ॥ * ॥ द्वादश 'पापस्य' || स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । ( मुदिति ॥ ) मोदनम् | मुद् । 'मुद् हर्षे' (भ्वा० आ० से० ) | संपदादि ( वा ० ३१ ३११०८) ॥ (१) ॥ ॥ ‘प्रीव् तर्पणे' ( ॠया० उ० से० ) | भावे क्तिन् (३।३।९४) । ( 'प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम' ) ॥ (२) ॥ ॥ 'मदी हर्षे' (दि० प० से ० ) । 'प्रमदसंमदौ हर्षे' ( ३) ३१६८) इत्यप् । 'प्रमदः संमदे मत्ते स्त्रियामुन्मदयोषिति’ ॥ (३) ॥*॥ (७) ॥ * ॥ ' हृष तुष्टौ' (दि० प० से ०) । घञ् । (३३११८) ॥ ( ४ ) ॥ * ॥ प्रमोदामोदौ घञन्तौ । 'आमोदो गन्धहर्षयोः' ॥ ( ५ ) ॥ * ॥ ( ६ ) ॥ ॥ 'टुनदि समृद्धौ' ( भ्वा०प० से ० ) । 'द्वितोऽथुच् ' ( ३१३१८९ ) ॥ (८) ॥ ॥ आनन्दो घञन्तः ॥ (९) ॥ ॥ शृणात्यशुभम् | ' हिंसा- याम्' (त्र्या० प० से० ) । 'सर्वधातुभ्यो मनिन् ' ( उ० ४ | १४५) । भावे वा ॥ (१०) ॥ ॥ श्यति दुःखम् । 'शो तनूकरणे' (दि० प० अ०) । बाहुलकात्तन ( उ० ३१८५ ) भावे वा । यत्तु – श्यतेः सौत्रात इत्युक्तं मुकुटेन तन्न । तस्य गणपठितत्वात् । सौत्रस्य तस्यादर्शनात् ॥ * ॥ 'अनु- पसर्गालिम्प-' (३1१1१३८) इति सूत्रपठितात् 'साते:' पचायचि (३|१|१३४) 'सातम्' देन्त्यादि । यत्तु - सिनो- त्यशुभम् । सातम् । 'षै क्षये' (भ्वा०प० अ० ) इत्युक्तं मुकुटेन । तन्न । सिनोतीति विगृह्योक्तधातूपन्यासस्य विरु- द्धत्वात् । यदपि स्यति दुःखम् । सातम् । 'षोऽन्तकर्मणि' (दि० प० अ० ) इति स्वामिनोक्तम् । तदपि न । स्यतेः के 'यति-स्यति' (७७४५०) इतीत्वप्रसङ्गात् । तनस्त्ववि- धानात् । बाहुलकस्य त्वगतिकगतित्वात् । अत्र तूक्तगतेः सत्त्वात् ॥ (११) ॥ * ॥ शोभनानि खान्यनेन । 'सुख, दुःख, तत्क्रियायाम्' (चु० उ० से ० ) | भावेऽच् (३॥३॥५६) वा । ('सुखं शर्मणि नाके च सुखा पुर्या प्रचेतसः' ) ॥ (१२) ॥ ॥ द्वादश 'आनन्दस्य' || श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ २५ ॥ भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियाम् । शस्तं च ( स्यादिति ॥ ) धरति विश्वम् । 'धृञ् धारणे' (भ्वा० उ० से०) । ‘अर्तिस्तुसु-' ( उ० १११४० ) इत्यादिना मन् । 'धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ । अहिंसो- पनिषभ्याये ना धनुर्यमसोमपे’ ॥ (१) ॥॥ पुनाति | ‘पूजो यण् णुक् हस्वश्च' ( उ० ५११५) इति यत् णुक् ह्रस्वश्च । यद्वा पुणति । 'पुण कर्मणि शुभे' ( तु०प० से ० ) । 'इगु पध-' (३।१॥१३५) इति कः | पुणमर्हति । तत्र साधुर्वा । यत् (६६) (पुण्यं तुं सुन्दरे । सुकृते पावने धर्मे' ) ॥ (२) ॥*॥ अतिशयेन प्रशस्यम् । 'द्विवचन -' (५/३१५७ ) इतीयसुन् । 'प्रशस्यस्य श्रः' (५१३१६० ) | श्रेयो मुक्तौ शुभे धर्मेऽतिप्रशस्ते च वाच्यवत्' || ( ३ ) ॥ * ॥ सुष्टु कृतम् । प्रादिसमासः (२।२।१८) ('सुकृतं तु शुभे पुण्ये क्लीबं सुविहिते त्रिषु') ॥ (४) ॥*॥ वर्षति फलम् | 'वृषु सेचने' (भ्वा०प० से॰) । इगुपधलक्षणः (३।११३५) कः । 'वृषो गव्याखुधर्मयोः । पुंराशिभेदयोः शृङ्ग्यां वासके शुक्रलेऽपि च ॥ श्रेष्ठे स्यादुत्तर- इति हैमः ॥ (५) ॥ ॥ पञ्च 'धर्मस्य' ॥ ५२ ( ध्वःश्रेयसमिति ॥ ) व आगामि श्रेयोऽत्र | श्वःश्रेय- सम् । 'श्वसो वसीयः श्रेयसः' (५१४१८०) इत्यच् समा- सान्तः 'श्वःश्रेयसं तु कल्याणे परमात्मनि शर्मणि' ॥ ॥ श्वोवसीयसमपि बोध्यम् ॥ ( १ ) ॥ ॥ शेतेऽनेन । शिवम् । 'शीङ् खप्ने' (अ० आ० से ० ) | ‘खर्बनिघृष्व’ ( उ० ११५३) इति वन्, ह्रस्वश्च निपातितः । 'शिवं तु मोक्षे क्षेमे सुखे जले । शिवो योगान्तरे वेदे गुग्गुलौ १ -तथा च देवीशतके अनुलोमप्रतिलोमयमकम् 'सातं वर्मानन स्थारहसिहरिहर स्थाननर्मावतंसा' इति - मुकुटः ॥