पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालवर्ग: ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । स्त्रियाम् । संर्वसाधुसमानेषु समं स्यादभिधेयवत् ॥ (६) मन्वन्तरं तु दिव्यानां युगानामेकसप्ततिः । ॥ * ॥ षट् 'संवत्सरस्य' ॥ • मासेन स्याहोरात्रः पैत्रः (मासेनेति ॥) नृणां मासेन । पितॄणामयं पैत्रोऽहोरात्रः तत्र कृष्णपक्षो दिनम् । शुक्लपक्षो रात्रिः ॥ वर्षेण दैवतः । ( वर्षेणेति ॥ ) नृणां वर्षेण । देवतानामयं दैवतोऽहो- रात्रः । तत्रोत्तरायणं दिनम् | दक्षिणायनं रात्रिः || दैवे युगसहस्रे द्वे ब्राह्मः (दैव इति ॥) देवानां युगसहस्रद्वयेन ब्रह्मणोऽयम् ‘ब्राह्मो- ऽजातौ’ (६।४।१७१) ब्राह्मोऽहोरात्रः । दैवैः षष्यधिकैस्त्रिभि- होरात्रशतैर्दिव्यं वर्षम्। तैर्द्वादशभिः सहस्रैर्मानुषं चतुर्युगम् । तच्च देवानामेकं युगम् । तत्सहस्रं ब्रह्मणो दिनं भूतानां स्थिति- कालः । तावत्येव रात्रिः प्रलयकालः ॥ कल्पौ तु तौ नृणाम् ॥२१॥ | (कल्पाविति ॥) ये दैवे युगसहस्रे तौ । कल्पयतः स्थितिं प्रलयं च । ‘ऋपू सामर्थ्ये' (भ्वा० आ० से ० ) । ण्यन्तात् (३।१।१२) पचाद्यच् (३।१।१३४) | 'कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' ॥ ( १ ) ॥ ॥ एकम् 'ब्रह्मणो दिनस्य' ॥ १——'सर्वधातु' इति पाठः । २ - इच मनूक्तमपि निशी थतो दिनान्तरप्रवृत्तिमते । वस्तुतस्तु कृष्णाष्टम्यर्षे सूर्योदयः, अमान्ते मध्याहः शुक्लाष्टम्यथें सूर्यास्तः, पूर्णिमान्ते निशीथः पितॄणां भवति ॥ ३–इदमपि तथैव । देवानां सूर्योदयो मेषविषुवे, मध्याहो मिथुनान्ते, सूर्यास्तस्तुला विषुवे, निशीथो धनुरन्ते भवति ॥ ४- 'कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । प्रोच्यते तत्सहस्रं तु ब्रह्मणो दिनमुच्यते ॥ इति विष्णुपुराणतो युगानां नामानि ज्ञेया नि । तन्मानं च मनुनेत्थमभिहितम्-‘चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् | तस्य तावच्छती संख्या संध्यांशश्च तथाविधः ॥ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ एतद्वादशसाहस्रं देवानां युगमुच्यते । दैविकानां युगानां तु सहस्रं परिसंख्यया । ब्राह्ममेकमहर्ज्ञेयं तावतीं रात्रिमेव च ॥ इति । अस्य निष्कृष्टोऽर्धस्तु 'कृतयुगमानं दैववर्षैः ४८००, वर्षदिन ३६० गुणितं जातं मानुषवर्षमानम् १७२८०००। त्रेता दिव्यैर्वषैः ३६०० मानुषैः १२९६००० । द्वापरं दिव्यैः २४००, मानुषैः ८६४००० । कलिदिंग्यै: १२०० मानुषैः ४३२००० । चतुर्युगं दिव्यैः १२००० मानुषैः ४३२०००० | ब्रह्मदिनं दिव्यैः १२०००००० मानुषैः ४३२००००००० इत्थमवसेयः ॥ ५१ ( मन्वन्तरमिति ॥) 'मनोरन्तरमवकाशः' इति विग्रहः ॥॥ एकाधिका सप्ततिः । सा च किंचिदधिकेति बोध्यम् । एकम् 'मन्वन्तरस्य' ॥ संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥ ( संवर्त इति ॥) संवर्तते जगदत्र | 'हलच' (३।३।१२१ ) इति घन् । 'संवर्तः प्रलयेऽक्षुद्र' इति हैमः ॥ (१) ॥॥ प्रलीयतेऽत्र 'लीङ् श्लेषणे' (दि० आ० अ०) 'एरच्' (३३शं ५६) 'प्रलयो मृतौ । संहारे नष्टचेष्टत्वे' इति हैमः ॥ (२) ॥ * ॥ 'कृपू सामर्थ्य' (भ्वा० आ० से०) कल्प्यन्ते विरुद्ध - लक्षणया क्षीयन्तेऽत्र । 'पुंसि -' (३|३|११८ ) इति घः । 'कल्पो विकल्पे कल्पद्रौ संवर्ते ब्रह्मवासरे । शास्त्रे न्याये विधौ' इति हेमचन्द्रः ॥ ( ३ ) ॥ ॥ क्षीयन्ते प्राणिनोऽत्र । ‘क्षि क्षये' (भ्वा०प० से ० ) | ‘एर च्' (३|३|५६ ) ' पुंसि’ (३|३|११८) इति घो वा 'क्षयो गेहे च कल्पान्तेऽपचये रुजि’ इति हैमः ॥ (४) ॥ ॥ कल्पस्यान्तोऽवधिः | 'कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने' इति शाश्वतः ॥ (५) ||| पञ्च 'प्रलयस्य ॥ अस्त्री पङ्कं पुमान्पाप्मा पापं किल्बिषकल्मषम् । कलुषं वृजिनैनोघमंहोदुरितदुष्कृतम् ॥ २३ ॥ ( अस्त्रीति ॥ ) पच्यते दुःखमनेन । 'पचि व्यक्तीकरणे, विस्तारे वा' (स्वा० आ० से ० ) । करणे घञ् (३।३।१९ ) कुत्वम् (७७३१५२) । यद्वा पञ्चनं पङ्को व्यक्तीकरणम्, विस्तारो वा । तं करोति । 'तत्करोति - ' ( वा० ३ | १ |२६) इति णिच् । ततः पचाद्यच् (३|१|१३४) । 'पोऽघे कर्दमे ' इति हैमः ॥ (१) ॥ ॥ आप्नोति व्याप्नोति लोकान् । 'आफू व्याप्तौ' (स्वा०प०अ०) 'नामन्सीमन्-' ( उ० ४।१६५) इति सूत्रेण निपातितः ॥ ( २ ) ॥ ॥ पान्त्यस्मादात्मानम् | 'पा रक्षणे' (अ० प० अ०) । 'पानीविषिभ्यः पः' ( उ० ३|२३ ) | भीमादित्वात् (३१४१७४) अपादाने । यद्वा पिबति १- मनवो ब्रह्मसुताश्चतुर्दशैव । तथा च विष्णुपुराणे - 'मनुः स्वायंभुवो नाम मनुः स्वारोचिषस्तथा । औत्तमिस्तामसिश्चैव रैव तश्चाक्षुषस्तथा ॥ एते तु मनवोऽतीताः सप्तमस्तु रवेः सुतः । वैवस्व- तोऽयं यस्यैतत् सप्तमो वर्तते युगम् ॥ सावर्णिर्दक्षसावर्णो ब्रह्मसावर्ण इत्यपि । धर्मसावर्णरुद्रस्तु सावर्णो रौष्यभौत्यवत् ॥' इति मन्वन्तर मानानयनं । नामनिधाने सर्वज्ञश्रीनारायणचरणाः- 'दैविकानां युगानां तु सहस्रं ब्रह्मणो दिनम् । मन्वन्तरं तथैवैकं तस्य भागाश्चतुर्दश ||" इत्यनेन स्फुटमेवोक्तवन्तः । तथा चैकस्य मन्वन्तरस्य ३०८५७१४२८ वर्षाणि, ६ मासाः, २५ दिनानि, ४२ घटिका, साग्राण्येक पञ्चाशत् पलानि भवन्तीति-मुकुटाशयः ॥ २ 'क्षुद्रे' इति पाठः ॥