पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालवर्ग: ४ ] नस्ति । ('वैशाखः स्थानके मासे मन्थानेsपि ) ॥ (१) ॥ * ॥ मधु मकरन्दः । सोऽस्मिन्नस्ति । 'मधोर्ज च' (४) ४।१२९) इति ञः (२) ॥*॥ राधा विशाखा | तद्वती पौर्णमासी राधी । सास्मिन्नस्ति ॥ (३) ॥ * ॥ त्रीणि 'वैशा- खस्य' | व्याख्यासुधाख्यव्याख्यासमेतः । ज्यैष्ठे शुक्र (ज्यैष्ठ इति । ) पूर्ववदण्द्वयेन ज्यैष्ठः ॥ ॥ संज्ञापूर्वकस्य विधेर नित्यत्वाद्वृद्ध्यभावे ज्येष्ठोऽपि । 'ज्येष्ठो मासि च वृद्धे च ज्येष्ठा च गृहगोधिका' इति त्रिकाण्डशेषः । ('ज्येष्ठः स्यादग्रजे श्रेष्ठे मासभेदातिवृद्धयोः । ज्येष्ठा भे गृहगोधिका- याम्’) ॥ (१) ॥ ॥ विरहिणः शोचन्त्यस्मिन् । 'शुच शोके’ (भ्वा० प० से०) 'ऋजेन्द्र - ' ( उ० २१ २८ ) इति रक्, चकारस्य ककारश्च । 'शुक्रः स्याद्भार्गवे ज्येष्ठ मासे वैश्वानरे पुमान् । रेतोऽक्षिरुग्भिदोः क्लीम् ॥ ( २ ) ॥ ॥ द्वे 'ज्येष्ठमासस्य' || शुचिस्त्वयम् । आषाढे (शुचिरिति ॥) अयमिति शुचेः पुंस्त्वाभिव्यक्तयर्थम् । शोचन्ति विरहिणोऽस्मिन् । 'इगुपधात्त्'ि ( उ० ४१२०) इतीन् किञ्च ॥ (१) ॥i अषाढया युक्ता पौर्णमास्यस्मिन् । 'आषाढो व्रतिनां दण्डे मासे मलयपर्वते । स्त्री पूर्णिमायाम्' । आषाढा भिराख्यातः, इति विग्रहे तु 'अषाढकः' अपि । आ- ख्यानण्यन्तात् (वा० ३।१।२६) 'कुनू शिल्पिसंज्ञयोः' ( उ० २|३२ ) | 'स्यादाषाढे त्वषाढकः' इति शब्दार्णवः ॥ (२) ॥ * ॥ द्वे 'आषाढस्य' ।। | र्णयोः’ इति ‘लुबविशेषे' श्रावणे तु स्यान्नभाः श्रावणिकञ्च सः ॥ १६॥ (श्रावण इति ॥) ‘स्त्रीपुंसयोर्ऋक्षभेदे श्रवणं श्रुतिक- रभसः । श्रवणेन युक्ता पौर्णमासी श्रवणा । (४|२१४) इति प्राप्तो व् यद्यपि 'पौर्णमास्यां नेष्यते’ इत्युत्सर्गः । ‘विभाषा फाल्गुनी - (४ | २ | २३) इति एव । तत्रैव (४॥ २ ॥ लिङ्गात् । तथापि श्रवणशब्दादिष्यत २३) सूत्रे 'श्रवणा' इति निर्देशात् । 'अबाधकान्यपि निपा- तनानि' इति 'श्रावणी' इत्यपि । ततः 'सास्मिन्' (४|२| २१) इत्याणि श्रावणः । 'श्रावणो मासि पाखण्डे दध्याल्यां श्रावणा मता' इति हैमैः ॥ ( १ ) ॥ ॥ विरहिणो नभ्यति नम्नाति, नभते, वा नभाः | ‘णभ हिंसायाम् ' ( भ्वा०प० से०, दि० प० से०, त्रया० आ० से०) । असुन ( उ० ४। १८९ ) । खामी तुन भासते मेघच्छन्नत्वात् - इत्याह । तन्न । नभासौ, नभासः, नभाभ्याम् नभाभिः, नभाःसु इत्यादिरूपप्रसङ्गात् । 'नभः खं श्रावणो नभाः' इत्यनुपप- तेश्च । हस्वदीर्घोपधयोः शब्दभेदात् । 'भासते इत्यर्थकथन- १ -- मेदिन्यामेवायं पाठः ॥ अमर ७ ४९ मात्रम्' इत्यभिप्रेत्य 'भस दीप्तौ ' ( जु०प० से ० ) इति जुहो- त्यादेः 'न बभस्ति' इति व्युत्पत्त्याश्रयणे तु 'अत्वसन्तस्य - ' (६१४|१४) इति दीर्घो न स्यात् । 'धनुर्धरे त्रिषु नभाः क्लीबं व्योनि पुमान्घने । प्राणश्रावणवर्षासु बिसतन्तौ पतद्भहे' ॥ (२) ॥ * ॥ 'विभाषा फाल्गुनी-' (४|२|२३) इति ठकि श्रावणिकः ॥ (३) ॥॥ त्रीणि 'श्रावणमासस्य' ॥ स्युर्नभस्यप्रौष्टपदभाद्रभाद्रपदाः समाः । ॥॥ प्रोष्टपदाभिर्युक्ता प्रौष्ठपदी । भद्रा भद्रपदा । ताभिर्युक्ता ( स्युरिति ॥) नभा अभ्रम् | तत्र साधुर्नभस्यः ॥ (१) भाद्री भाद्रपदी च पौर्णमासी । ततः 'सास्मिन् (४|२|२१) इत्यण् ॥ (२) ॥॥ (३) ॥ ॥ (४) ॥ ॥ चत्वारि ‘भाद्र- पदमासस्य ॥ स्यादाश्विन ईषोऽप्याश्वयुजोऽपि ( स्यादिति ॥) अश्विन्या युक्ता पौर्णमास्यस्मिन्नस्ति ॥ (१) ॥ ॥ ‘इष गतौ’ (दि० प० से ० ) एषणमिट् यात्रा । विप् (३|२|१७८) सास्मिन्मासे जिगीषूणामस्ति । अर्श- आद्यच् (५॥२॥१२७) ॥ (२) ॥ ॥ अश्वयुजा युक्ता पौर्णमा- स्यस्मिन् | अद्वयम् (४२३,२१) ॥ ॥ संज्ञापूर्वकत्वाद्वृद्ध्य भावे अश्वयुजोऽपि । 'आश्विनोऽश्वयुजश्चेषः' इत्यमरमाला ॥ (३) ॥ ॥ त्रीणि 'आश्विनमासस्य' || स्यात्तु कार्तिके ॥ १७ ॥ बाहुलोज कार्तिकिकः (स्यादिति ॥) कृत्तिकाभिर्युक्ता पौर्णमास्यस्मिन् ॥ (१) ॥ * ॥ ऊर्जयति उत्साहयति जिगीषून् । 'ऊर्ज बलप्राणनयो: ' ॥॥ बहुलाः कृत्तिकाः । अण्वयम् (४२३, २१) ॥ (२) (चु०प० से ० ) ण्यन्तात् | ( ३ | १९२६) पचायच् (३|१ १३४) । 'ऊर्जः कार्तिके बले' इति हैमः ॥ (३) ॥*॥ 'विभाषा फाल्गुनी-' (४२ २३) इति ठकि कार्तिकिकः ॥ (४) ॥ * ॥ चत्वारि 'कार्तिकमासस्य’ ॥ हेमन्तः (हेमन्त इति ॥ ) हन्ति । 'हन्तेर्मुद्र हि च ' ( उ० ३१ १२९) इति झच् हिरादेशो मुडागमः | गुणः ( ७७३१८४ ) ॥ ॥ 'हेमा' अपि । 'सर्वत्राण च ' ( ४ | ३ | २२) इति सूत्रे यद्भाष्यम् 'हेमन्तस्य तलोपवचनानर्थक्यं हेनः प्रकृत्यन्यत- रस्य सत्त्वात्' इति । हिनोति वर्धयति बलम् । 'हि गतौ वृद्धौ च' (खा० प० अ० ) । अन्तर्भावितण्यर्थात् 'अन्ये - भ्योऽपि (३|२|७५ ) इति मनिन् ॥ ( १ ) ॥ ॥ 'मार्गपौ- षाभ्यां निष्पन्नस्य ऋतोः' एकम् ॥ १ - मूर्धन्यान्तः 'ध्वनिमिषे निमिषे क्षणमग्रतः' इति माघ- यमकात् इति मुकुटः ॥