पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कालवर्ग: ४ ] एकयोक्त्या पुष्पवन्तौ दिवाकर निशाकरौ ॥ १० ॥ (एकयेति ॥ ) ‘पुष्प विकसने ' ( दि० प० से ० ) | भावे घञ् (३।३।१८)। पुष्पो विकासः प्रकाशश्च । तद्वन्तौ । मतुप् (५/२/९४)। एकयोक्त्या साधारणवचनेन । प्रत्येकं 'पुष्पवान्' इति न प्रयोक्तव्यमिति भावः । अकारान्तोऽपि पुष्पवन्तशब्दः। ‘अव रक्षणे' ( भ्वा०प० से ० ) | 'जृवि- शिभ्यां झच्’ (उ० ३।१२६ ) इति बाहुलकादवतेरपि झच् । ‘झोऽन्तः’ (७।१।३) । पुष्पस्यावन्तौ इति विग्रहे शकन्ध्वादिः ( वा० ६।१।९४ ) । ‘रविशशिनौ पुष्पवन्ताख्यौ' इति नाम- माला | 'पुष्पैवन्ताभ्याम्, पुष्पवन्तयोः' इत्यादि । ( 'पुष्प दन्तौ पुष्पवन्तावेकोक्त्या शशिभास्करौ' | 'पुष्पदन्तौ च चन्द्रार्काचेकोक्त्या’ इति हैमतः ‘पुष्पैदन्तौ' अपि बोध्यौ ) ॥ (१) ॥ * ॥ एकम् 'समुच्चितसूर्यचन्द्रयोः' ॥ अष्टादश निमेषास्तु काष्ठा व्याख्यासुधाख्यव्याख्यासमेतः । (अष्टादशेति ॥) 'क्षणद्वयं लवः प्रोक्तो निमेषस्तु लव- द्वयम्' इत्यादिशास्त्रसिद्ध निमेषाः । तेऽष्टादश काष्ठा । काशते । ‘हनिकुषि-~-’ ( उ० २।२ ) इति क्थन् । 'काष्टा दारुहरिद्रायां कालमानप्रकर्षयोः । स्याद्दिशि स्थानमात्रे च काष्ठमाख्या- तमिन्द्रिये' इति विश्वः ॥ (१) ॥ * ॥ एकम् 'काष्ठायाः' || त्रिंशत्तु ताः कला | ( त्रिंशदिति ॥ ) ताः काष्ठाः त्रिंशत् कला || कलयति । ‘कल संख्याने' ( चु० उ० से ० ) | पचायच् (३|१|१३४) । ( 'कला स्यात्कालशिल्पयोः' ) ॥ (१) ॥॥ एकम् 'क- लायाः ॥ तास्तु त्रिंशत्क्षणः ( ता इति ॥ ) ताः कलाः । क्षणोति । 'क्षणु हिंसायाम्' ( त० उ० से ० ) । अच् (३ | १ | १३४) | 'क्षणाः पर्वो - त्सवेऽपि स्यात्तथा मानेऽप्यनेहसः ॥ ( १ ) ॥॥ एकम् 'क्षणस्य' || ते तु मुहूर्तो द्वादशास्त्रियाम् ॥ ११ ॥ ( ते विति ॥ ) ते तु क्षणा: ( द्वादश ) 'हुर्छा कौटिल्ये' ( भ्वा० प० से ० ) । बाहुलकात् 'अजिघृसि -' ( उ० ३१८९ ) १ - 'देवताद्वन्द्वे च ' (६|३|२६) इति नानङ् | तत्र 'मानवृतो द्वन्द्वे' ( ६।३।२५ ) इत्यतो द्वन्द्वग्रहणेऽनुवर्तमाने पुनर्द्वन्द्वग्रहणेन वेदलोकसह- चरितद्वन्द्वस्य ग्रहणात् । अस्य तु द्वन्द्वस्या तथात्वात् । अत एव 'रविच- न्द्रावपि नोपलक्षितौ' इति घटखर्पर:- इति मुकुटः ॥ २ – 'प्रावप्रत्यक् धरणीधरशिखरस्थितपुष्पवन्ताभ्याम्' इत्याश्चर्य मञ्जर्यामदन्तत्वदर्शनात - इति मुकुटः ॥ ३– अनेकार्थकैरवा करकौमुद्यां व्याख्यातं च पुष्पे इव पुष्पे, दन्ताविव दन्तौ, पुष्पे च ते दन्तौ च पुष्पदन्तौ । यथा च । 'विश्वस्यास्य विलोचने निरयतो यत्पुष्पदन्तौ तमः' इति ॥ ४७ इति तो मुडागमश्च । 'रालोपः' (६४।२१) इति छलोपः । 'हलि च' (८१२१७७) इति दीर्घः | 'लिङ् चोर्ध्व मौहूर्ति के (३१३ ११६४) इति निर्देशाद्वा मुहूर्तः ॥ ( १ ) || एकम् 'मुहूर्तस्य' ॥ ते तु त्रिंशदहोरात्रः ( ते त्विति ॥ ) ते तु मुहूर्ताः । अहश्च रात्रिश्च तयोः समा- हारः । 'अहः सर्वैकदेश -' (५१४१८७) इत्यच् । 'रात्राहाहाः पुंसि' (२|४|२१) | यत्तु – 'अह्ना सहिता रात्रिः' इति वि- ग्रहं प्रदर्श्य 'अहोरात्र:-' इत्युपन्यस्तं मुकुटेन । तन्न । तथा सत्यजभावप्रसङ्गात् । अहः पूर्वाद्रा त्रिशब्दाद्वेन्द्र एवाज्विधा- नात् । 'गणरात्रवदज्' इति दृष्टान्तोऽप्यसंमतः । चकारात्सं- ख्याव्ययादेरध्यज्विधानात् । अत्र तदादित्वाभावात् । यदपि - समाहारे क्लीबमव्यहोरात्रम् इत्युक्तम् । तदपि न । समा- हारेऽपि 'रात्राह्वाहाः पुंसि' (२४१२९) इत्यनेन परत्वात्पुं- स्त्वविधानात् । यदपि - वामनलिङ्गानुशासने 'द्विगुरपि पात्रा- व्यदन्तः' इति नपुंसकत्वेन 'अहोरात्रं द्विरात्रम्' इत्युदा हृतम् इति संमतिप्रदर्शनं कृतम् । तदपि न । 'रात्रं प्रावसं- ख्ययान्वितम्' इति द्विरात्रस्य नपुंसकत्वेऽपि अहोरात्रस्य तदयोगात् ॥ (१) ॥ ॥ एकम् 'अहोरात्रस्य' |॥ पक्षस्ते दश पञ्च च । । पक्ष्यते । 'पक्ष परिग्रहे' ( पक्ष इति ॥ ) तेऽहोरात्राः ( भ्वा०, चु० प० से ० ) । कर्मणि घञ् (३|३|१९) पक्षो मासार्धके गेहे पार्श्वसाध्यविशेषयोः | केशादेः परतो वृन्दे बले सखिसहाययोः ॥ चुल्लीरन्ध्रे पतत्रे च राजकुञ्जरपा- र्श्वयोः’ ॥ (१) ॥॥ एकम् 'पक्षस्य' || पक्षौ पूर्वापरौ शुक्लकृष्णौ ( पक्षाविति ॥ ) शुक्लपक्षः पूर्वसंज्ञः ॥ (१) ॥ ॥ कृष्णप- क्षोऽपर संज्ञः ॥ (१) ॥ ॥ क्रमेणैकैकम् ‘शुक्लकृष्णपक्षयोः ॥ मासस्तु तावुभौ ॥ १२ ॥ ( मास इति ॥ ) तौ पक्षौ । मस्यते परिमीयतेऽयम्, अनेन वा । 'मसी परिमाणे' ( दि० प० से ० ) । कर्मणि घन् (३|३|१९) । 'हलच' (३|३|१२१) इति वा ॥ (१) ॥ ॥ एकम् 'मासस्य' ॥ द्वौ द्वौ मार्गादिमासौ स्याहतुः ( द्वाविति ॥) इयर्ति, ऋच्छति वा । 'अर्तेश्च - ' ( उ० १॥ | ७२ ) इति तुः । चात् कित्त्वम् | ( 'ऋतुः स्त्रीकुसुमे मासि वसन्तादीषुधारयोः' ) ॥ * ॥ मार्गादीनां युगैर्हेमन्तादीनृतून् वक्ष्यति । तदेकदेशमयनपरिच्छेदार्थमनुवदति द्वौ द्वाविति ॥ (१) ॥ * ॥ एकम् 'ऋतोः' ॥ १ - अत एव भाष्ये 'अहर्ग्रहणं द्वन्द्वार्थ द्रष्टव्यम्' इत्युक्तम् || २ ~~ तेऽहोरात्रा इत्युत्तरं दश पञ्च' इत्यपि दृश्यते ||