अमरकोषः । ४२ ( ५२२३२७ ) । पिङ्गं वर्ण लातीति वा । कः ( ३ २ ३ ) ॥ ( १ ) ॥ ॥ दण्डोऽस्यास्ति | अच् (५/२/१२७ ) दण्डय- तीति वा । (‘दण्डः सैन्ये दमे यमे । मानव्यूहप्रभेदेष्व- कचरे मथि ॥ प्रकाण्डे लगुडे कोणे चतुर्थोपायवर्गयोः ॥ ( १ ) ॥ ॥ पार्श्व इति परिपार्श्वम् । विभत्त्यर्थेऽव्ययीभावः ( २|१|६ ) | परिपार्श्व वर्तते, इत्यर्थे 'परिमुखं च ' (४|४| २९ ) इति चकाराट्रक् । सूर्यपार्श्वस्थानां 'माठरादित्रयाणां' एककम् ॥ सूर्यसूतोऽरुणोऽनूरुः काश्यपिर्गरुडाग्रजः । (सूर्येति ॥) सूर्य॑स्य सूतः ॥ ( १ ) ॥ ॥ अरुणो वर्णों- ऽस्यास्ति । अच् ( ५।२।१२७ ) | 'गुण- ( वा० ५/२/९४ ) इति मतुपो लुग्वा ॥ ( २ ) ॥ ॥ अविद्यमानावूरू यस्य ॥ ( ३ ) ॥ ॥ कश्यपस्यापत्यम् | बाड़ादित्वात् (४|११९६ ) इञ् ॥ (४) ॥॥ गरुडस्याग्रजः ॥ ( ५ ) ॥३॥ पञ्च 'सूर्यसारथेः' ॥ परिवेषस्तु परिधिरुपसूर्यकमण्डले ॥ ३२ ॥ (परिवेष इति ॥) परितो विष्यतेऽनेन । ‘विष्ऌ व्याप्तौ' ( जु० उ० अ० ) । घज् ( ३।३।१८ ) | 'परिवेष: स्यात्प- रिधौ परिवेषणे' इति मूर्धन्यान्ते रुद्रः ॥॥ 'विश प्रवेशने' ( तु० प० अ० ) अस्माद्धनि तु तालव्यान्तः । 'वेष्टने परि- वेशः स्याद्भानोः सविधमण्डले’ इति तालव्यान्ते रभसः ॥ ( १ ) ॥॥ परितो धीयतेऽनेन । 'उप' ( ३।३।९२ ) इति किः । ( 'परिधिर्यज्ञियतरोः शाखायामुपसूर्यके' ) ॥ ( २ ) ॥ ॥ उपगतं सूर्यमुपसूर्यम् । प्रादिसमासः ( २१२ | १८ ) । ततः खार्थे कन् ( ५१३३९७ ) ॥ (३) ॥ ॥ ‘मडि भूषायाम्' ( भ्वा० प० से० ) मन्दति । वृषादित्वात् ( उ० १।१०६ ) कलच् ॥ (४) ॥॥ 'मण्डलं परिवेशश्च परिधि - श्चोपसूर्यकम्’ इति भागुरिः ॥ चत्वारि 'चन्द्रसूर्ययोरुत्पा- तादिजातमण्डलस्य' ॥ किरणोस्रमयूखांशुगभस्तिघृणिघृष्णयः । भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां ॥३३॥ (किरण इति ॥) कीर्यते ।‘कृ विक्षेपे' ( तु०प० से ० ) । ‘कृपृवृजि-' ( उ० २१८१ ) इति क्युः ॥ ( १ ) ॥ ॥ वसन्ति रसा अस्मिन् । ‘वस निवासे' (भ्वा०प० अ० ) । 'स्फायि- तथि– ( उ० २।१३ ) इति रक् | यजादित्वात् । (६।१९१५) संप्रसारणम् । 'न रपर-' ( ८/३/११० ) इति न षत्वम् । ( 'उस्रो वृषे च किरणेऽद्युत्रार्जुन्युपचित्रयोः ) ॥ (२) [ प्रथमं काण्डम् ॥*॥ मिभीते । ‘माङ ऊखो मय च' ( उ०५/२५ ) इत्यू: खप्रत्ययो मयादेशश्च । एतेन मापयन् प्रमापयन् गगनमो- खति गच्छति । 'मा माने' ( अ० प० अ० ) । 'उखउखि - ' ( भ्वा०प० से ० ) इति दण्डकोक्को गत्यर्थः । अच् ( ३ | १| १३४ ) | पृषोदर दिः ( ६।३।१०९ ) इति मुकुटः पररास्तः | धातुसमुदायात्प्रत्ययानामविधानात् । पृषोदरादित्वाश्रयणस्य निर्मूलत्वाच्च । ( 'मयूखः किरणेऽपि च । ज्वाल: यामपि शोभायाम्' ) ॥ ( ३ ) ॥ * ॥ अंशयति । 'अंश विभाजने' चुरादिः । मृगथ्चादित्वात् ( उ० ११३७ ) कुः | 'अंशुर्लेशे रवौ रइमौ' इति विश्वः । 'अंशुः सूत्रादिसूक्ष्मांशे किरणे चण्डदी घितौ' ॥ ( ४ ) ॥ * ॥ गम्यते । 'अन्यत्रापि ' ( वा ० ३।२।४८ ) इति डः । गो ज्ञेयवर्गः । तं बभस्ति दीपयति ॥ गभस्तिः । 'भस भर्त्सनदीयो: ' ( जु०प० से ० ) । जुहो त्यादिः ‘क्तिच्कौ च - ' ( ३।३।१७४ ) इति क्तिच् । एवं च - गगने भसति दीप्यते । 'भस भर्त्सनदीयोः' । 'वसे स्तिः' ( उ० ४।१८० ) इति बाहुलकात्तिप्रत्ययः | पृषोदरादित्वात् ( ६।३।१०९ ) गनभागलोप:- इति मुकुटकृतं क्लिष्टकल्पनम- नुपादेयम् । भसतीति विगृह्योक्तधातोरुपन्यसनं प्रामादिकम् । ( 'गभस्तिः किरणे सूर्ये ना स्वाहायां तु योषिति' ) ॥ (५) ॥ ॥ जिघर्ति | 'घृ क्षरणदी त्योः' ( जु०प० अ० ) त्यादिः । छान्दसस्यापि भाषायां प्रयोगः इति प्राश्चः । वस्तु- तस्तु घरति । 'घृ सेचने' ( भ्वा०प० अ० ) भ्वादिः । 'घृणिपृश्नि -' (उ० ४८५२) इति निप्रत्ययो गुणाभावश्च निपा- घृष्णोति । 'जिश प्रागल्भ्ये' ( स्वा०प० से ० ) । 'दृषि - तितः । ( 'घृणिः पुनः । अंशुज्वालातरङ्गेषु' ) ॥ (६) ॥॥ घृषिभ्यां कित्' इति निः किञ्च - इति मुकुटः । तन्न । । जुहो तादृश- ॥ 11
सूत्राभावात् । अतो बाहुलकान्निः, गुणाभावश्च 'वृष्णिः' इति पाठान्तरम् | 'वृषु सेचने' (भ्वा० प० से ० ) । 'सृवृषिभ्यां कित्' ( उ० ४४९ ) इति निः पिच्च ॥॥ 'पृश्निः' इत्येके पेठुः । 'स्पृश संस्पर्शने' ( तु०प० अ० ) । अस्य सलोपो गुणाभावाश्च 'घृणिनि' ( उ० ४१५२ ) इति निपातितः । पति | 'पृशु सेचने' ( भ्वा० प० से ० ) वा ॥ (७) ॥ * ॥ भाति । भानुः ॥ (८) ॥ ॥ कीर्यते । 'कु विक्षेपे' ( तु०प० से ० ) 'ऋदोरप्' (३१३ ५७) । ('करो वर्षोपले रश्मौ पाणौ प्रत्यायशुण्डयोः ) ॥ ( ९ ) ॥ ॥ म्रियते तमोऽस्मिन् | 'मृकणिभ्यामीचिः' ( उ० ४१७० ) स्त्रीपुंसाधिकारे—'त्रुटि मसिमरीचयः' इति लिङ्गानुशासनम् । 'दूयोर्मरीचिः किरणो भानुरुस्रः करः पदम्' इति शब्दार्णवः । 'मरीचिर्मुनि- ‘दीधीङ् दीप्तिदेवनयोः' (अ० आ० से०) क्तिच् (३।३। १७४) । भेदे ना गभस्तावनपुंसकम् ॥ (१०) ॥ * ॥ दीधीते दीप्यते । 'तितुत्र-' ( ७७२१९ ) इतीनिषेधस्तु न । 'अग्रहादीनाम्' १-~~-इन्द्रादयो_ह्यष्टादश नामान्तरेणाकंपरिचारकाः । यत्सौरम् । 'तत्र शको वामपार्श्वे दण्डाख्यो दण्डनायकः । वह्निस्तु दक्षिणे पार्श्वे पिङ्गलो वामनश्च सः ॥ यमोऽपि दक्षिणे पार्श्वे भवेन्माठरसंज्ञया । एवमन्ये गुहहरराहु (केतु) स्वरादयः । तेषु प्राधान्यात्रय एवोक्ताः । इति स्वामिभुकुटौ || १ - तालव्यान्तः 'अथोडुबन्धुश्च भयंकरे करे महौषधीनष्टकरांशुभे शुभे' इति जानकी हरणे यमकादिति मुकुटः ॥