पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिङ्गादिसंग्रहवर्ग: ५ ] २२) इत्यादिना निपातितः । 'पूर्वेधुरिष्यते प्रातः पूर्वेयुः पूर्ववासरे’ इति रुद्रः । (क्रमेणैकैकम् ) ॥ उभयधुश्चोभयेयुः उभयस्मिन्नहनि । ‘यु॑श्चोभयाद्वक्तव्यः' (वा० ५|३|२२ ) इति साधुः ॥ (१) ॥*॥ ( सद्यः परुत् - १ ) (५|३|२२) इति निपातितः ॥ (२) ॥*॥ परे त्वह्नि परेद्यवि ॥ २१ ॥ परस्मिन्नहनि । ( ' सद्यः परत्- ' (५|३|२२) इति साधुः) ॥ (१) ॥*॥ ह्योऽतीते व्याख्यासुधाख्यव्याख्यासमेतः । यातमहः । पृष दिः (६।३।१०९) । 'एषमो ह्यःश्व- सोऽन्यतरस्याम् (४|२|१०५ ) इति निर्देशश्चात्रानुकूलः ॥ (१) ॥*॥ अनागतेऽह्नि श्वः आगामि अहः | पृषोदरादिः (६|३|१०९) ॥ (१) ॥ * ॥ परश्वश्च परेऽहनि । परं च तच् श्वश्च ॥ श्वः परं वा । राजदन्तादिः (२|२| ३१) ॥ (१) ॥*॥ तदा तदानीम् तस्मिन् काले । 'तदो दा च' (५॥३॥१९) ॥ ( १ ) ॥*॥ (चातू) दानीं च ॥ (२) ॥ * ॥ द्वे 'तस्मिन्काल इत्यर्थे ॥ युगपदेकदा युवन्त्यस्मिन्काले । ‘यु मिश्रणादी' ( अ०प० से ० ) । गँपतक् प्रत्ययः । युगं पयतेऽस्मिन् । 'पय गतौ' ( भ्वा० अ० से० ) । डत् प्रत्ययः ॥ (१) ॥ ॥ एकस्मिन् काले । 'सर्वैकान्य -' (५|३|१५) इतिदा ॥ (२) ॥ ॥ द्वे ॥ | सर्वदा सदा ॥ २२ ॥ सर्वस्मिन्काले । ‘सर्वैका–’ (५।३।१५) इतिदा ॥ (१) ॥*॥ ‘सर्वस्य सोऽन्यतरस्यां दि' (५॥३॥६) ॥ (२) ॥ ॥ द्वे 'सर्वस्मिन्काले' | पतर्हि संप्रतीदानीमधुना सांप्रतं तथा । अस्मिन्काले । ‘इदमोर्हिल्’ (५१३११६) । 'एतेतौ रथोः' (५॥३॥४) ॥ (१) ॥*॥ ‘सम्' 'प्रति' एतयोः समाहारद्वन्द्वः ४४९ ॥ (२) ॥ * ॥ तस्मात् प्रज्ञायण (५|४|३८ ) | गणे पाठान्मा न्तत्वम् ॥ (२) ॥*॥ अस्मिन्काले । 'दानीं च' (५॥३॥१८) ॥ (३) ॥*॥ ‘अधुना’ (५|३|१७) इति निपातितः ॥ (४) ॥*॥ पश्च ‘अस्मिन्काले' ॥ दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः ॥ २३ ॥ १- 'धुस्' इति केवलमध्यव्ययम् । अत एव क्षीरस्वामिना -'बुर्दिनम्' इति श्रीभोजः यथा 'सुश्चन्द्रो द्योतते कथम् - इति लिखितम् ॥ अस्याव्ययत्वं च 'युनो दिवसेऽपि स्यात्' इति विश्वा- युक्तस्य युगणद्युपिण्डादिशब्देषु भास्कराङ्गीकृतस्य प्रथमान्तस्य प्रति रूपकत्वेन ॥ २ - इंदं तु 'योगपद्य-' ( २१११६ ) निर्देशे दकार श्रवणानुपपत्त्या चिन्त्यम् । तस्मात् प्रत्यये तवर्गतृतीयो- पान्त्यत्वमङ्गीकरणीयम् । अमर० ५७ प्राच्यां दिशि, प्राच्या दिशः, प्राची दिग्, वा । प्राचि देशे काले च, प्राचो देशात् कालाच, प्राङ् देशः कालो वा । - सप्तमीपञ्चमी प्रथमाभ्यः - (५|३|२७) इत्यस्तातिः । 'अचे- र्लुक्' (५|३|३०) एवम् अवाच्यां दिशि, अवाचो देशात्, अवाङ् देशः । अवाक् | यत्तु मुकुटः– 'तस्यास्तातेः' '– लुक्' ( ५ | ३ | ३० ) इति लुक् इत्याह । तन्न । उक्तसूत्रादर्श- नात् । 'अञ्चेर्लुक्' (५|३|३० ) इति दर्शनाच | 'पूर्वादो' इत्यादिप देनोत्तरदक्षिणाधरादीनां ग्रहः । 'प्रत्यगादयः' इत्या- दिशब्देन 'उत्तरात्' 'अधरात्' 'दक्षिणात्' (इत्यत्र ) 'उत्तराधर-' (५।३।३४) इत्यातिः । 'उत्तरेण' 'अधरेण' 'दक्षिणेन' (इत्यत्र) 'एनबन्यतरस्यां-' (५|३|३५ ) इत्येनप् 'दक्षिणा' (इत्यत्र) 'दक्षिणादाच्' (५|३|३६), 'दक्षिणा- हि' (इत्यत्र) 'आहिच दूरे' (५|३|३७), 'दक्षिणतः' 'उ• त्तरतः' (इत्यत्र) 'दक्षिणोत्तराभ्यामतसुच्' (५/३/२८), इत्यादयो बोध्याः ॥ ॥ इत्यव्ययवर्गः ॥ सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासजैः । अनुक्तैः संग्रहेलिङ्गं संकीर्णव दिहोन्नयेत् ॥ १ ॥ लिङ्गविधानसहितानि यानि सूत्राणि ( शास्त्राणि ) 'स्त्रियां क्तिन्' (३।३।९४) पुंसि संज्ञायां घः प्रायेण’ (३।३।११८) 'न- पुंसके भावे 'फः (३।३।११४) 'स नपुंसकम्' (२।४।१७) 'अद- न्तोत्तरपदो द्विगुः स्त्रियाम्' (वा० २१४१३०) इत्यादीनि, सन्ना- दिर्येषां क्यजादीनां ते सन्नादयश्च कृतश्चतताव समास जायन्ते येभ्यो यैर्वा, तानि शास्त्राणि तैरिहास्मिन्वर्गे ‘संगृह्यन्ते लिङ्गान्यस्मिन् ।’ बाहुलकात् 'ग्रहबृदृस्यां -' (३१३१५८) इत्यधि- करणेऽप् । ‘तस्मिन्’ लिङ्गसंग्रहवर्गे संकीर्णवर्ग इव लिङ्गमुन्नये- दूहेत् । कीदृशैः शास्त्रैः, प्रागनुक्तैः । क्वचित् 'अनुक्ता' इति पाठः । तत्रेहानुक्तमपि सलिङ्गशास्त्रैरुह्यम् । यद्वा सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासेभ्यो जातैः शब्दैश्चेति प्रत्येकमूहे करणत्वं बोध्यम् । पक्षद्वये 'सन्नादि' इति चिन्त्यम् । कृदादिजभिन्न- सन्नादिजानामलाभात् । 'सन्नादिभ्यो विहितकृज्जैः' इति व्या १ - सूत्रै क देशलेखनेऽपि सकलसूत्रालेखनेनैव यदि प्रत्याख्ये यत्वं तर्हि भवतोऽपि 'दिक्शन्देभ्यः सप्तमीपञ्चमी प्रथमाभ्यो दि शकालेष्वस्तातिः' (५|३|२७) इति सूत्रस्थाने केवलं 'सप्तमीपञ्चम प्रथमाभ्यः' इत्येतावलेखेन प्रत्याख्येयत्वं कुतो न स्यात् । सूत्रप्रार- म्भांशत्यागोऽप्युभयोः समान एव ॥