सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्ययवर्गः ४ ] ( दोषा रात्रिमुखे रात्रावत्रानव्ययमप्यसौ' इति विश्वः ॥ ) (१) ॥ ॥ नज्जति । 'ओ नस्जी ब्रीडे' ( तु० प० से ० ) | | तमु प्रत्ययः ॥ (२) ॥ * ॥ रजनौ रात्रौ इत्यर्थे ॥ तिर्यगर्थे सांचि तिरोऽपि व्याख्यासुधाख्यव्याख्यासमेतः । सचनम् । 'षच समवाये' (भ्वा०प० से ० ) । 'इजजा- दिभ्यः' (वा० ३।३।१०८) ॥ (१) ॥ * ॥ तरणम् | 'तू' ( भ्वा० प० से ० ) । असुन् ( उ० ४११८९) । 'क्वचिदपवाद- विषयेऽपि-’ इतीर् ॥ (२) ॥ * ॥ द्वे 'तिर्यगर्थे' ॥ अथ संबोधनार्थकाः ॥ ६ ॥ स्युः पाट् प्याडङ्ग हे है भोः पाटयति । 'पट गतौ' (भ्वा०प० से ० ) णिजन्तः । क्विप् (३।२।१७८) ॥ ( १ ) ॥ * ॥ प्यायते | 'प्यैङ् वृद्धौ' ( भ्वा० प० अ० ) | ट् प्रत्ययः ॥ (२) ॥ ॥ अङ्गति । 'अगि गतौ ' ( भ्वा०प० से ० ) | पचाद्यच् (३|१|१३४ ) ॥ (३) | ॥ * ॥ 'हि गतौ' (भ्वा०प० अ०) । विच् (३|३|७५ ) ॥ (४) ॥*॥ हन्ति । डै प्रत्ययः ॥ ( ५ ) ॥ ॥ भाति | 'भा | दीप्तौ' (अ० प० अ०) । बाहुलकाङ्कोस् ॥ (६) ॥ * ॥ षट् 'संबोधनार्थकाः' ॥ समया निकषा हिरुक् । समयनम् । ‘आ समिण् निकषिभ्याम् ( उ० ४११७५) । 'समयान्तिकमध्ययोः' ( इति मेदिनी) ॥ ( १ ) ॥ ॥ निकष- णम् । पूर्ववत् । 'निकषान्तिकमध्ययोः' (इति मेदिनी) ॥ (२) ॥*॥ हिनोति । रुकक् प्रत्ययः । 'हिरुक् मध्ये विनार्थे च' इति रुद्रः । 'हिरुगुक्तं च सामीप्ये' इत्यमरमाला ॥ (३) ॥॥ त्रीणि 'सामीप्ये' ॥ अतर्किते तु सहसा सहते । ‘सह मर्षणे' (भ्वा० आ० अ० ) | असा प्रत्ययः ॥ (१) ॥*॥ अतर्कितेऽविचारिते ॥ स्यास्पुरः पुरतोऽग्रतः ॥ ७॥ पूर्वस्मिन् । 'पूर्वाधरावराणामसिपुरधव चैषाम्' (५॥३॥ ३९) ॥ (१) ॥*॥ पुरति 'पुर अग्रगमने' ( तु०प० से ० ) । बाहुलकादतसुक् ॥ (२) ॥*॥ अग्रे | आयादित्वात् (वा० ५॥४॥४४) तसिः ॥ (३) ॥ * ॥ त्रयः 'अग्रार्थाः ॥ स्वाहा देवहविर्दाने श्रौषट् स्वधा । स्वादतेऽनेन । 'स्वाद आस्वादने ( स्वा. ० आ० से ० ) । आ प्रत्ययः । पृषोदरादित्वात् ( ६ | ३ | १०९ ) दस्य हः | सुष्टु आ हूयतेऽनेन वा । डा प्रत्ययः ॥ ( १ ) ॥ * ॥ श्रूयते । अ १ - साचिः स्त्रीलिङ्गापि प्रकृत्यन्तरमस्ति । 'भित्तौ साची परिणतमुखी' इति सप्तकुमारिका | 'तिर्यक साचिरपि स्त्रियाम्,' इति रनकोषः - इति मुकुटः ॥ ४४५ नेन वा 'श्रु श्रवणे' (भ्वा०प० से ० ) । बाहुलकाढौषट् ॥ ( २ ) ॥ * ॥ उद्यतेऽनेन । 'वह प्रापणे' (भ्वा० उ० अ० ) | डौषट् ॥ (३) ॥*॥ डषट् च ॥ (४) ॥ ॥ खद्यतेऽनेन । 'ध्वद आखादने' (भ्वा० प० से० ) । आ प्रत्ययः । पृषोद- रादित्वात् (६।३।१०९) दस्य धः ॥ ( ५ ) ॥ ॥ पञ्च 'देवह- विर्दाने' ॥ किंचिदीषन्मनागल्पे किम् च चित् च अनयोः समाहारः ॥ ( १ ) ॥॥ ईष- णम् | 'ईष गत्यादौ ' (भ्वा०प० से ० ) । अत् प्रत्ययः ॥ (१) ॥ ॥ मननम् । ‘मन ज्ञाने' (दि० आ० अ०) । आक् प्रत्ययः ॥ (३) ॥ * ॥ त्रीणि 'अल्पे' | प्रेत्यामुत्र भवान्तरे ॥ ८ ॥ प्रकर्षेण इत्वा । इण् ( अ० प० अ० ) । क्त्वा प्रत्ययः ( ३|४|२२ ) | 'समासे - ' ( ७११|३७) इति ल्यबादेशः । तुक् (६।१।७५) ॥ (१) ॥ ॥ अमुष्मिन् | अदसः 'सप्तम्यास्त्रल्' (५॥३॥१०) ॥ (२) ॥*॥ भवान्तरे जन्मान्तरे ॥ व वा यथा तथैवैवं साम्ये वाति । वानं वा । डः (वा० ३।२।१०१ ) | क्वचित् 'वत्' इति पाठः । स तु न युक्तः । वति (५1१1११५) प्रत्ययेन गतार्थत्वात् । न च वतिरेवात्र पठितः । सादृश्य पर्याये प्रत्य- यपाठस्यायुक्तत्वात् । अपत्यसमूहादिपर्यायेष्वण्वुजादी नाम- पाठात् । 'वं प्रचेतसि जानीयादिवार्थे तु तदव्ययम्' इति मेदिन्यादिसंमतेश्च ॥ (१) ॥ * ॥ किपि (३२२११७८) तु वा ॥ (२) ॥*॥ येन तेन प्रकारेण । 'प्रकारवचने थाल्' (५॥ ३|२३ ) विभक्तित्वात् (५१३११) यदाद्यलम् (७/२/१०२) ॥ (३) ॥*॥ (४) ॥*॥ अयनम् | 'इण्शीभ्यां वन्' ( उ० १११५२ ) | ( एवौपम्ये परिभवे ईषदर्थेऽवधारणे' इति हैमः) ॥ (५) ॥*॥ ‘इण्’ (अ० प० अ०) । बाहुलकाद्वम् ॥ (६) ॥ * ॥ षट् 'साम्ये' | अहो ही च विस्मये । अहानम् । 'ओ हाङ् गतौ' (जु० आ० अ०) । डो प्र. त्ययः ॥ (१) ॥ ॥ हननम् | बाहुलकाङ्क्षी ॥ (२) ॥॥ अद्भुते । 'विस्मये' ॥ मौने तु तूष्णीं तूष्णीकाम् तोषणम् । 'तुष तुष्टौ' ( दि० प० अ० ) । बाहुलकान्नीम् । उपधाया ऊत् ॥ (१) ॥ ॥ 'अकप्रकरणे' 'तूष्णीमः काम् वक्तव्यः' (वा० ५।३।७१ ) | 'मिदचोऽन्त्यापरः' (१।१।४६) ॥ (२) ॥ * ॥ द्वे 'मौने' ॥ १ – स्वामिमुकुटाभ्यां तु इवशब्दो गृहीतः ॥ २- 'ही' शब्दो दीर्घान्तः । 'ही विचित्रो विपाकः' इति माघः - इति स्वा- मिमुकुटौ ॥