सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अव्ययवर्गः ४ ] व्याख्यासुधाख्यव्याख्यासमेतः । मिथोऽन्योन्यं रहस्यपि । मेथति । ‘मेथू संगमे’ ( भ्वा०प० से ० ) । असुन् ( उ० ४४१८९ ) | पृषोदरादित्वात् (६|३|१०९) हवः | बाहुल- कादोः । तन्त्रेणोभयमिह निर्दिष्टम् | अन्योन्यार्थे ॥ तिरोऽन्त तिर्यगर्थे तरति । ‘तॄ’ ( भ्वा० प० से ० ) । असुन (F० ४) १८९) । 'क्वचिदपवादविषयेऽप्युत्सर्गोऽभिनिविशते' इति गुणविषये इर् ॥ हा विषादशुगर्तिषु ॥ २५६ ॥ जहाति । ‘ओहाक् त्यागे’ ( जु० प० अ० ) | क्विप् (३ । २।१७८ ) । 'हा विषादे च शोके च कुत्सादुःखार्थयोरपि' ( इति मेदिनी ) ॥ अहहेत्यद्भुते खेदे अहं जहाति, जिहीते वा । ‘हाक्' ( जु० प० अ० ) । ‘हाङ्’ ( जु॰ आ॰ अ॰ ) । ‘अन्येभ्योऽपि-' (बा० ३१२ १०१ ) इति डः । पृषोदरादित्वात् (६|४|१०९) मलोपः । ‘— अहहा दीर्घान्तमपि’—इति मुकुटः । तत्र किप् (३) २।७६) बोध्यः । 'अहहेत्यद्भुते खेदे परिक्लेशप्रहर्षयोः । संबोधनेऽपि' (इति मेदिनी ) ॥ हि हेताववधारणे ॥ २५७ ॥ हिनोति । ‘हि’ गतौ’ ( खा०प० अ० ) | विच् ( ३ १ २ ७५) संज्ञापूर्वकत्वाद्गुणाभावः । विपि (३|२|७८) तुगभावो वा। ‘हि पादपूरणे हेतौ विशेषेऽप्यवधारणे । प्रश्ने हेलपदेशे च संभ्रमासूययोरपि । ही दुःखहेतावाख्यातो विषादे विस्म- येऽपि च’ (इति मेदिनी)। तत्र पृषोदरादित्वात् (६ | ३ | १०९) दीर्घः । एषु सर्वत्र भावे वा प्रत्यया बोध्याः || इत्यनेकार्थवर्गविवरणम् ॥ चिरायचिररात्रायचिरस्याद्याश्चिरार्थकाः । चिरमयते । ‘अय गतौ’ (भ्वा० आ० से ० ) । 'कर्मण्यण् (३॥२॥१) ॥ (१) ॥*॥ चिरा रात्रयः । 'अचप्रत्यन्वव ) (५।४।७५) इत्यत्र ‘अच्’ इति योगविभागादच् । चिररात्रा- नयते । ‘कर्मण्यण्’ (३।२।१) ॥ (२) ॥ ॥ चिरमस्यति । ‘असु क्षेपणे' ( दि० प० से ० ) । ण्यत् ( ३ | १ | १२४ ) | संज्ञा- पूर्वकत्वाद्वृद्ध्यभावः । शकन्ध्वादिः (वा० ६१११९४) ॥ (३) ॥ * ॥ आयपदेन 'चिरम्' 'चिरेण' 'चिरात्' 'चिरे' इति गृह्यन्ते । चिरोऽर्थो येषाम् ॥ ॥ त्रीणि 'दीर्घका- लस्य' | ४४३ दुस् ॥ ( १ ) ॥ * ॥ 'नित्यवीप्सयोः' (८२११४) इति पुनःश- ब्दस्य द्विवम् ॥ (२) ॥ ॥ शशति । 'शश द्रुतगतौ ' ( भ्वा० प० से ० ) बाहुलकाद्वतिः ॥ ( ३ ) ॥ * ॥ अमिणौति । ' तेजने ' ( अ० प० से ० ) | बाहुलकाः । 'अन्येषामपि ' (६) ३।१३७) इति दीर्घः ॥ ( ४ ) ॥ ॥ न सकृत् ॥ (५) ॥॥ 'अभीक्ष्णं तु पौनः पुन्ये सर्वदार्थे च दृश्यते' इत्यनव्ययप्रक- समास्तुल्यार्थाः । अजयस्तु अभीक्ष्णशब्द मनव्ययमप्याह- रणे पाठात् । 'वारंवारं शश्वदर्थे वारंवारेण चेष्यते' इति त्रिकाण्डशेषः । पञ्च 'पौनःपुन्यस्यार्थस्य ॥ स्राग्झटित्यञ्जसाह्रायद्राङ्मञ्जुसपदि द्रुते । मुहुः पुनःपुनः शश्वदमीक्ष्णमसकृत्समाः ॥ १ ॥ मोहनम् । 'मुह वैचित्ये' ( दि० प० अ० ) । बाहुलका स्यति, "त्रै पाके' (भ्वा० प० अ० ) | संपदादिः (वा० ३ ॥३॥ १०८ ) । स्रामकति । 'अक कुटिलायां गतौ' ( भ्वा०प० से० ) किप् (३/२/७५ ) ॥ * ॥ 'झट संघाते' (भ्वा० प० से ० ) | संपदादिः (वा० ३१ ३ | १०८) झटमेति । ‘इण्’ ( अ॰ व्यक्त्यादौ ' ( रु० प ० से ० ) | ‘कृत्यल्युटो (कृतो) बहुलकम्' प० अ० ) । क्तिच् (३।२।७५ ) ॥ (२) ॥ ॥ अञ्जनम् 'अजू (वा० ३।३।११३) इति पचायच् (३।१।१३४) अजं सायति वा । 'षोऽन्त कर्मणि' ( दि० प० अ० ) । 'षै क्षये' ( भ्वा० प० अ० ) वा । पचायच् (३।१।१३४) । क्किप् (३ २।७६) वा ॥ (३) ॥*॥ हृवनम् | 'हुङ् अपनयने' ( अ० आ० अ० ) । बाहुलकाद्भावे घञ् (३।३।१८) | ‘पृषोदरा दिवा- द्वस्य' यः । ततो नञ्समासः । ॥ ( ४ ) ॥ ॥ संपद्यते । ‘पद गतौ' ( दि० आ० अ० ) । इन् ( उ० ४११८) पृषोदरादि- वात् (६१३११०९) समोऽन्त्यलोपः ॥ (५) ॥ ॥ द्राति । 'द्रा कुत्सायां गतौ' ( अ० प० अ० ) । 'बाहुलकात् कः’ ॥ (६) ॥*|| मज्जति | 'टु मस्जो शुद्धौ' ( तु० प० अ० ) । बाहुलकात्सुः । 'मस्जिनशो:-' इति नुम् । 'स्को:--' (८|२|२९ ) इति सलोपः ॥ (७) ॥ * ॥ सप्त 'त- त्क्षणार्थस्य' || बलवत्सुष्टु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥ बलमस्यास्ति । मतुप् (५|२|१३६ ) ॥ ( १ ) ॥॥ सुति- ष्ठति । 'अपदुःसुषु स्थः' ( उ० ११२५) इति कुः ॥ (२) *॥ किं च तद् उत च ॥ (३) ॥ ॥ सूयते । ‘घु गतौ’ ‘(प्रसवै- श्वर्ययोः)' (भ्वा०प० अ० ) | क्विपि (३१२॥१७८) तुग.. भावः | डः (वा० ३।२।१८०) वा ॥ (४) ॥॥ अतति । इन् (उ० ४|११८) ॥ (५) ॥ ॥ अति च इव च ॥ (६) ॥*॥ षट् ‘अतिशयस्य' ॥ १ -' पाके' इत्यस्य दन्त्यादेरभावात्तालव्यादित्वापत्तिभिया चिन्त्यमेतत् । तस्मात् 'त्रु गतौं' इत्यस्माद्वादुलकाड्डाक् । यद्वा 'संपदादिकिबन्तं स्रुतमा समन्तादकति' इति शकन्ध्वादित्वमङ्गी- कार्यम् ॥