पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । आराद्दूरसमीपयोः ॥ २४२ ॥ आ राति । 'रा दाने' (अ०प०अ० ) | बाहुलकादाति- प्रत्ययः ॥ प्रतीच्यां चरमे पश्चात् अवरस्मिन् । ‘पश्चात्’ (५|३|३२) इत्यनेनावरस्य सप्तमी- पञ्चमी प्रथमान्तस्य निपातितः ॥ उताप्यर्थ विकल्पयोः । ऊयते स्म । ‘उङ् शब्दे’ (भ्वा० आ० अ०) । सः (३ | ३।१७४) | अप्यर्थः समुच्चयः प्रश्नश्च । 'उतापी द्वौ च बाढार्थों' इत्यजयः ॥ पुनःसहार्थयोः शश्वत् शशति । 'शश द्रुतगतौ ' ( भ्वा० प० से ० ) । बाहुलका- द्वत् । 'शश्वत् सहसहार्थयोः' इत्यजयः ॥ साक्षात् प्रत्यक्षतुल्ययोः ॥ २४३ ॥ सहाक्षेण साक्षः । तमतति । किप् (३।२।१७८) । 'साक्षात्तुल्यसमक्षयोः' इत्यजयः ॥ खेदानुकम्पासंतोषविस्मयामन्त्रणे बत | वयते स्म । ‘वय गतौ’ (भ्वा० आ० से ० ) 'गत्यर्थ -' (३।४।७२ ) इति तः । नेट् ( ) | वन्यते स्म 'वनु याचने (त० उ० से०) । क्तः (३ | २|१०२) | 'बत खेदे. ऽनुकम्पायां हर्षे संबोधनेऽद्भुते' इति दन्तोष्ठ्यादावजयः ॥ हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः ॥२४४॥ हन्ति । बाहुलकात्तः । 'हन्त वाक्यारम्भखेदविषादहर्ष सं- भ्रमे ' ( इति मेदिनी ) ॥ प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः । प्राति । 'प्रा पूरणे' ( अ०प० अ० ) । प्रथते वा । 'प्रथ प्रख्याने' (भ्वा० आ० से०) । बाहुलकाइतिः । इत्थंभूता- ख्यानः मुख्यसदृशः प्रतिनिधिः । व्याप्तुमिच्छा वीप्सा । आदिना इत्थंभूताख्यानभागप्रतिदानस्तोकेषु ॥ इति हेतुप्रकरणप्रकाशादिसमाप्तिषु ॥ २४५ ॥ एति । अयति वा । क्तिच् (३।३।१७४) । 'इति प्रकरणे हेतौ प्रकाशादिसमाप्तिषु । निदर्शने प्रकारे स्यादनुकर्षे च संमतम्' इति विश्वः ॥ प्राच्यां पुरस्तात्प्रथमे पुरार्थेऽग्रत इत्यपि । पूर्वस्मिन् । '- सप्तमी -' (५|३|२७) इत्यस्तातिः । 'अस्ता- तिच' (५॥३।४०) इति पुरादेशः । 'प्राच्यां पुरः पुरस्ता- दग्रप्रथमव्यतीतेषु' इति बोपालितः । 'अग्रे' इति अग्रतः । आयादितसिः (वा० ५॥४॥४४) ॥ अमर० ५६ यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे ॥ २४६ ॥ यत्, तत्, परिमाणमस्य । 'तद्धिताः' (४|१|७६ ) इति बहु- वचनेनान्येऽनुक्ता अपि तद्धिता ज्ञापिताः । तेन डावतुः । 'यावत् कात्स्त्रर्येऽवधारणे । प्रशंसायां परिच्छेदे मानाधिकार- संभ्रमे । पक्षान्तरे च' (इति मेदिनी) ॥ मङ्गलानन्तरारम्भप्रश्नकार्येवो अथ । अर्थयते । ‘अर्थ याच्लायाम् (चु० आ० से ० ) । बाहुलकात् डोः । 'अन्येभ्योऽपि - ' (वा० ३।२।१०१ ) इति डः | पृषोदरा- दित्वाद्रलोपः । 'अथाथो संशये स्यातामधिकारे च मङ्गले । विकल्पानन्तरप्रश्नकात्नर्यारम्भसमुच्चये' ( इति मेदिनी ) ॥ वृथा निरर्थकाविध्योः वृणोति, वृणीते वा । 'वृज् वरणे' ( स्वा० उ० से ० ) । 'वृज् संभक्तौ ' ( क्या० आ० से० ) वा बाहुलकात्थाक् । 'वृथा निष्कारणे वन्ध्ये वृथा स्याद्विधिवर्जिते' इति विश्वः ॥ नानानेकोभयार्थयोः ॥ २४७ ॥ नेति नाना । 'विनञ्भ्यां नानाजौ न सह ' (५॥१॥२७) इति नजो नान् । 'नानाशब्दो विनार्थेऽपि तथानेकोभयार्थयोः' ( इति मेदिनी) ॥ नु पृच्छायां विकल्पे च स्तुतौ' (अ० प० से ० ) वा । मितवादित्वात् (वा ० ३ | २ | १८०) नुदति । नौति वा । 'णुद प्रेरणे' ( तु० उ० अ० ) | ' डुः । 'नु स्यात्प्रश्ने विकल्पार्थेऽप्यतीतानुनयार्थयोः' इति विश्वः ॥ पश्चात्सादृश्ययोरनु । अनिति । 'अन प्राणने' (अ० प० से ० ) | बाहुलकादुः । 'अनु हीने सहार्थे च पश्चात्सादृश्ययोरपि । आयामे च समीपे च लक्षणादावनुक्रमे' इति विश्वः ॥ प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ॥ २४८ ॥ न नुदति । 'णुद प्रेरणे' (तु० उ० अ०) डः (वा० ३ ॥२॥ १८० ) । 'ननु प्रश्नेऽप्यनुनयेऽनुज्ञानेऽप्यवधारणे । आमन्त्रणे ( चापि ) ननु' इति विश्वः ॥ गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपि । न पियति । 'पि गतौ' (तु०प० अ०) । किप् (३) २॥ १७८ ) | आगमशास्त्रस्यानित्यत्वान्न तुक् । 'अपि संभावनाप्रश्न- शङ्कागसमुच्चये । तथा युक्तपदार्थे च कामचार क्रियासु च' इति विश्वः ॥ १-व्यर्थोऽयं प्रयासोऽपाणिनीयः । तथा चोक्तं (५|२|३९ ) सूत्रे कैयटेन 'इइ तु वतुपं ( ५१२१३९) विधाय 'आ सर्वनाम्न ' ( ६ | २ | ९१ ) इत्यात्वं विहितम् । पूर्वाचार्यास्तु 'डाव' भव्ययस्वं तु विभक्तिप्रतिरूपकत्वेनैवोभयत्रापि तुझ्यम् । इति ।