पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ अमरकोषः । दाक्षायण्योऽश्विनीत्यादि ताराः ( दाक्षायण्य इति ॥ ) दक्षस्या पत्यानि | 'वा नामधेयस्य' ( वा० १॥१॥७३ ) इति वृद्धसंज्ञायाम् 'उदीचां बृद्धादगोत्रात्' (४|१| १५७ ) इति फिञ् । गौर/दित्वात् (४|१|४१ ) ङीष् । यत्तु —'आसुरेरुपसंख्यानम्' (वा० ४ १९१९ ) इत्यत्र केचिद् 'आसुरिदाक्ष्योः' इति इति मुकुट आंह । तन्न । भाष्ये दारदर्शनात् । यदपि - गोत्रत्वमुपचर्य 'गोत्रे कुञ्जादिभ्य- क्ष्फञ्’ (४।१।९८ ) इति चफनि 'जातेरस्त्रीविषयादयोपधात्' (४|११६३ ) इति ङीष् इत्याह । तदपि न । कुञ्जादिगणेऽस्य पाठाभावात् । उक्तरीत्योपचारं विना निर्वाहाच्च । यत्तु – 'अत इन्' (४|१|९५ ) । अनन्तरापत्येऽपि द्वैपायनवत् 'यनिश्च' (४।१।१०१ ) इति फक् इति खाम्याह । तदपि न । अन- न्तरापत्ये फकोऽदर्शनात् । द्वीपमयनमस्य द्वीपायनः । द्वीपा- यनस्यापत्यं द्वैपायनः । ऋष्यण (४|१११४ ) इति द्वैपायन- शब्दव्युत्पत्तेर्दृष्टान्तासंभवाच । यदपि - 'इतो मनुष्यजातेः (४|११६५ ) इत्यत्र 'इलः' उपसंख्यानान्ङीष् । 'कौरव्यमाण्डू- काभ्यां च’ (४।१।१९) इति चकारादासुरायणीवत् फः- इति । तदपि न । त्वदुक्तोपसंख्याना प्रसिद्धेः । चकारस्यानुक्तसमुच्च- यार्थत्वे मानाभावाच्च । यदपि – दक्षमयते । ल्युः ( ३|१| १३४ ) । प्रज्ञाद्यण् (५|४|३८ ) इत्याह मुकुटः । तदपि न । प्रज्ञप्राज्ञवद्रूपद्वय प्रसङ्गात् । अश्विन्याद्याः सप्तविंशतितारका दाक्षायण्य उच्यन्ते । ( 'दाक्षायणी त्वपर्णायामश्विन्याधुडषु स्त्रियाम्') ॥ (१) ॥ ॥ एकम् 'अश्विन्यादिभानाम् ॥ अश्वयुगश्विनी ॥ २१ ॥ अश्वयुगिति ॥ अश्वं युनक्ति रूपेणानुकरोति । 'सत्सू- [ प्रथमं काण्डम् द्विष' ( ३।२।६१ ) इति क्विप् | यत्तु -- 'ऋत्विग्-' ( ३|२| न्विधानात् ॥ ( १ ) ॥ * ॥ अश्वः अश्वरूपमस्त्यस्याः । इनिः ५९) इत्यादिना किन्- इति मुकुटः | तन्न | युजेः केवलात्वि- (५/२/११५ ) ॥ (२) ॥ ॥ द्वे 'अश्विन्याः' ॥ राधा विशाखा 1 १ - लिङ्गज्ञानं तेषामन्यतोऽवधार्यम् । तथा च तत्रान्तरे - 'इस्तस्वातिश्रवणा अक्लीबे, मृगशिरो न पुंसि स्यात् । पुंसि पुन सुपुष्यौ, मूलं लस्त्री, स्त्रियः शेषाः' इति वचनशानं कर्मप्रदी- पानुसारेण । तथाहि — 'आग्नेयायेऽथ सर्पाचे विशाखाद्ये तथैव च । आपाढाचे धनिष्ठाद्ये अश्विन्याद्ये तथैव च ॥ द्वन्द्वान्येतानि बहुव- वृक्षाणां जुहुयात्सदा द्वन्द्वद्वयं द्विवच्छेषमवशिष्टान्यथैकवत् ॥ इति । एवं चाथाश्चतस्रः स्त्रियां बहुवे, मृगशिराः स्त्रीकीबयोरेकले, आर्द्रा ख्येकत्वे, पुनर्वसुपुष्यौ पुंस्येकत्वे, आश्लेषाद्ये स्त्रीबहुत्वे, फल्गुन्यौ स्त्रीद्वित्त्रे, हस्तो मिथुनैकत्वे, चित्रा ख्येकत्वे, स्वातिर्मिथुनैकत्वे, विशाखाद्ये स्त्रीबहुत्वे, ज्येष्ठा ख्येकत्वे, मूलमस्त्रियामेकत्वे, आषा- ढाइये स्त्रीबहुवे, श्रवणो मिथुनैकत्वे, धनिष्ठाद्ये स्त्रीबहुले, भाद्र- पदाद्वयं स्त्रीद्वित्वे, रेवती ख्येकत्वे इति निष्कर्षः | मुकुटस्तु अश्विनीम रणीरोहिणीमृगशिरआर्द्रापुष्याश्लेषाहस्तचित्रास्वात्यनुराधा ज्येष्ठामूलापा- ढा श्रवणधनिष्ठाशतभिपग्रेवती नामे कवचनान्तत्वम् पुनर्वसुफल्गुनी- विशाखाभाद्रपदानां द्विवचनान्तत्वम्, कृत्तिकामधयोबहुवचनान्तत्व- माइ । तत्रोक्तार्पवाक्यविरोधः स्पष्ट एव । अस्य कात्यायनवाक्यस्य होममात्रविषयत्वम् जुहुयात्पदोपादानात् कल्पनीयम् ॥ (राधेति ॥) राप्नोति कार्यमनया | 'राध संसिद्धौ ' ( स्वा० प० अ० ) । 'गुरोथ हलः' ( ३।३।१०३ ) इत्यकार: | राध- यति | अच् (३।१।१३४) इति वा । 'राधा विद्युद्विशाखयोः । विष्णुकान्तामलक्योश्च गोपीवेध्यविशेषयोः' इति हैमः ॥ ( १ ) ॥ * ॥ विशाखति । 'शाख व्याप्तौ ' ( भ्वा०प० से ० ) । अच् (३|१|१३४) | 'विशाखो याचके स्कन्दे विशा- खाभे कठिल्लके' इति हैमः ॥ (२) ॥ ॥ द्वे 'विशाखायाः' || पुष्ये तु सिध्यतिष्यौ ( पुष्ये विति ॥ ) पुष्णाति कार्याणि । 'पुष्यः कलियुगे स्मृतः । मासनक्षत्रयोदे' || ( १ ) | || सिध्यन्त्यस्मिन् | ‘पुष्यसिध्यौ नक्षत्रे’ ( ३।१।११६ ) इति क्यपि निपातितः ॥ (२) ॥॥ (तुष तुष्टौ ) तुष्यन्त्यस्मिन् । 'सूर्यतिष्य- ( ६।४। १४९ ) इति निपातनात्क्यप् उपधेत्वं च । 'तिष्यो नक्षत्र- मेदे स्यात्कलौ धात्र्यां व योषिति ॥ ( ३ ) ॥*॥ त्रीणि 'पुष्यस्य' ॥ श्रविष्टया | समा धनिष्ठा ( श्रविष्ठयेति ॥ ) श्रवणं श्रवः । 'ऋदोरप्' ( ३।३।५७ ) | प्रसिद्धिः | श्रवोऽस्त्यस्याः | मतुप् (५१२९४ ) | अतिशयेन इति मतुपो लुक् ॥ (१) | || एबमतिशयेन धनवती ॥ श्रववती । इष्ठन् (५/३/५५ ) | 'विन्मतोर्लुक्' ( ५|३|६५ ) (२) ॥ ॥ सा श्रविष्टया समेत्यन्वयः ॥ द्वे 'धनिष्ठायाः ॥ स्यु: प्रोष्ठपदा भद्रपदाः स्त्रियः ||२२|| (स्युरिति ॥) प्रोष्ठो गौः, तस्येव पादा यासाम् । ‘सुप्रा- तसुश्व -' (५/४/१२० ) इत्यादिना बहुव्रीहावच् पद्भावश्च निपातितः । प्रोष्ठपदयोर्द्वित्वेऽपि 'फल्गुनी प्रोष्ठपदानाम्-' (१॥२॥६०) इति नक्षत्रात्पाक्षिकं बहुत्वम् ॥ (१) ॥ * ॥ भद्रं पदं यासां ताः । अत्रारोपाद्वहुत्वम् । यत्तु - 'सुप्रात ' ( पा ४|१२० ) इति प्रोष्ठपदा भैद्रपदाश्च निपातित : - इति मुकुटः । तन्न | भद्रपदाशब्दस्य तत्राग्रहणात् । एतेन - अर्थग्रहणा- द्भद्रपदा - इति स्वाम्युक्तिरपि परास्ता ॥ ( २ ) ॥ ॥ द्वे 'पूर्व- भद्रपदोत्तरभद्रपदानाम् ॥ मृगशीर्ष मृगशिरस्तस्मिन्नेवाग्रहायणी | मृगेति ॥ आकृत्या मृगस्य शीर्ष मिव शीर्ष शिरो यस्य ॥ (१) १-हस्वादिरेवायम् । 'ग्रहपतिरिव भद्रपदानुगतः' इति वेषात् - इति मुकुदः ॥