पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्वर्ग: ३] तलं पुष्पकाशीसे शैलजे मलयोद्भवे । पुमानासनपर्ध्या स्याच्छिशिरे वाच्यलिङ्गकम्' ) ॥ ( ५ ) ॥ ॥ अर्शआयचि ( ५ | २॥१२७ ) शीतः ॥ (६) ॥ ॥ सप्त 'शीतलद्रव्यस्य' ॥ ध्रुव औत्तानपादिः स्याद् व्याख्यासुधाख्यव्याख्यासमेतः । ( ध्रुव इति ॥) ध्रुवति स्थिरो भवति । 'ध्रु गतिस्थैर्ययोः’ ( तु० प० अ० ) । अच् ( ३ | १ | १३४ ) | कुटादित्वात् (१। २।१ ) डिलम् । यत्तु मुकुटेन - ( उकारान्तधातुमुपन्यस्य ) इगुपधत्वात् (३।१।१३५) कः - इत्युक्तम् । तद्रभसात् चकारान्तधातौ वा तद्बोध्यम् । 'ध्रुवः शङ्खे हरे विष्णौ वटे चोत्तानपादजे । वसुयोगभिदोः पुंसि ध्रुवं खेऽजस्रतर्कयोः । स्त्री मूर्वाड्योः शालपर्थ्यो गीतिस्रुग्भेदयोस्त्रिषु । स्थिरे नित्ये निश्चिते च ध्रुवं क्लीवं प्रकीर्तितम् ॥ (१) ॥ ॥ उत्तानपाद- स्यापल्यम् । ‘अत इञ्’ (४।१।९५ ) | मुकुटस्तु – ऋषित्वात् ‘ऋष्यन्धक–’ (४।१।११४ ) इत्याणि प्राप्ते बाह्लादित्वात् (४) १।९६ ) इन्-इत्याह । तन्न । उत्तानपादस्य ऋषित्वे माना- भावात् ॥ (२) ॥ ॥ द्वे 'ध्रुवस्य' || अगस्त्यः कुम्भसंभवः । मैत्रावरुणिः ( अगस्त्य इति ॥ ) अगं विन्ध्यं स्यायति स्तनोति । ‘आतोऽनुपसर्गे कः’ ( ३।२।३ ) | ‘अगस्त्यः स्यात्कुम्भयोनौ वङ्गसेनतरावपि' ॥ ॥ - अगमस्थतीत्यप्यगस्तिः । 'वसेस्तिः' ( उ० ४|१८० ) बाहुलकादस्यतेरपि - इति मुकुटः । वस्तुतस्तु ‘क्तिच्क्तौ च-’ ( ३।३।१७४ ) इति तिजुचितः । बाहुलका- श्रयस्यागतिकगतित्वात् । शन्ध्वादिः (वा०६।१९४) । ‘अथागस्त्यः कुम्भयोनिरगस्तिः कलशीसुतः' इति शब्दा- र्णवः ॥ (१) ॥ ॥ कुम्भः संभव उत्पत्तिस्थानमस्य ॥ (२) ॥*॥ मित्रावरुणौ देवर्षी | 'देवताद्वन्द्वे च ' ( ६ | ३ | २५ ) इत्यनङ् ।—ऋषिसमुदायस्यानृषिवाद पत्ये 'अत इज्' (४) १।९५ )–इति मुकुटः । तन्न । एतयो: ऋषिवे मानाभा- वात् ॥ ॥ वारुणिरपि । ‘मित्रावरुणयोः सूनुरौर्वशेयथ वारुणिः' इति व्याडिः । अणपि दृश्यते । 'औवैशेयागस्त्य- मैत्रावरुणास्त्वाग्निमारुताः' इति नामनिधानात् ॥ (३) ॥ * ॥ त्रीणि 'अगस्त्यस्य' || यम् ॥ (१) ॥ * ॥ समानो धर्मोऽस्त्यस्याः । इनिः ( ५ |२| ११५ ) । 'समानस्य - ' ( ६|३|८४ ) इति सः ॥ एकम् 'अग- स्त्यपत्याः' || नक्षत्रमृक्षं भं तारा तारकाप्युड वा स्त्रियाम् । (नक्षत्रमिति ॥) न क्षदते हिनस्ति । 'क्षद' इति सौत्रो धातुहिँसार्थ आत्मनेपदी । हून् ( उ० ४।१५९)। ‘नभ्राण्न- पाद्-' (६।३।७५ ) इति नञः प्रकृतिभावः । यत्तु क्षदतीति विग्रहप्रदर्शनं मुकुटेन कृतम् | तच्चिन्त्यम् । यंद्वा ‘णक्ष गतौ’ ( भ्वा०प० से ० ) । नक्षति | 'अभिनक्षिकलिभ्योऽत्रन्' ( उ० ३।१०५ ) | न क्षणोति वा । 'क्षणु हिंसायाम्' (त० उ० से ० ) । हुन् ( उ०४१५९) | बाहुलकाण्णलोपः । नक्षत्रं वा । देवत्वात्क्षत्रभिन्नत्वात् ॥ ( १ ) ॥ ॥ ऋषति | 'ऋषी गतौ’ ( तु०प० से ० ) । 'श्चिकृत्यृषिभ्यः कित्’ (उ० ३।६६) इति सः । 'पढो:-' (८१२१४१ ) इति कः । 'ऋक्षस्तु स्यान्नक्ष- त्राच्छभयोः । महीधरविशेषे च शोणके लक्ष्यवेधने' इति | हैमः ॥ (२) ॥॥ भाति । 'अन्येष्वपि - ' ( ३।१।१०१ ) इति डः । ‘भं नक्षत्रे गभस्तौ स्त्री पुंसि स्याद्भृगुनन्दने । ( भवने च तथा भः स्यात् ) भ्रमरो भः प्रकीर्तितः' इत्येकाक्षरः ॥ (३) ॥ ॥ तरन्त्यनया | भिदादित्वात् (३|३|१०४ ) अङ् । गुणः ( ७७४|१६ ) । निपातनाद्दीर्घः ॥॥ तारयतेः पचा द्यचि (३।१।१३४) । तारोऽपि 'नक्षत्रे नेत्रमध्ये च तारा स्यात्तार इत्यपि' इति व्याडिः । ('तारो वानरभिन्मुक्तावि- शुद्ध्योः शुद्धमौक्तिके । ना, नक्षत्रेऽक्षिमध्ये च न ना, रूप्ये नपुंसकम् । स्त्री बुद्धदेवताभेदे वालिगीर्पतिभार्ययोः । त्रिलिङ्गोऽत्युच्चशब्दे च' ) ॥ (४) ॥ ॥ ण्वुलि (३|१|१३३) तारका | 'तारका ज्योतिषि (वा० ७१३१४५ ) इती लाभावः । अपिशब्दात्तारकापि वा स्त्रियाम् । स्त्रीत्वाभावे क्लीबत्वमुड, साहचर्यात् । 'नक्षत्रे चाक्षिमध्ये च तारकं तारकापि च इति शाश्वतः । ('तारको दैत्यभित्कर्णधारयोर्न द्वयोर्दशि । कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु ) ॥ (५) ॥ ॥ अवतीति -ऊः । क्किप् ( ३।२।१७८ ) | ‘ज्वरत्वर-’ ( ६।४। २० ) इत्यूठौ | ‘ह्रस्वो नपुंसके - ' (१।२।४७) इति ह्रस्वः । समासोत्तरम् 'इको हस्खोऽङयः - इति वा ह्रस्वः । डयतेः डीडो मितवादिलात् ( वा० ३।२।१८० ) डुः । ' उ च तड्ड च' इति विग्रहः । स्त्रियां तु 'ऊश्चासौ डुश्च' इति ज्ञेयः । उडुः, उडू, उडवः, इत्यादि धेनुवत् । यद्वा 'उ संबुद्धौ रुषोक्तौ च शिववाची त्वनव्ययम् । उ प्रश्ने च' इति हैमः । उ क्रोधं उयते, उना शंभुना डीयते वा । 'मितवादिभ्यः' (३।२।१८०) इति डुः ॥ (६) ॥ ॥ षड् 'नक्षत्रसामान्यस्य' || अस्यैव लोपामुद्रा सधर्मिणी ॥ २० ॥ ( अस्यैवेति ॥ ) अस्यैव पत्नी लोपामुद्रा । न मुदं राति । ‘आतोऽनुप–’ ( ३।२।३ ) इति कः । लोपे धर्मलोपे अमुद्रा = हर्ष न लभते इत्यर्थः । स्वाम्युक्तेऽस्य पृषोदरादित्वे ( ६ |३|| १०९ ) फलं चिन्त्यम् । यत्तु - लोपयति योषितां रूपाभिमा- नम् । पचाद्यच् ( ३।१।१३४ ) । टाप् (४२११४) । लोपा । मुद्रयति स्रष्टुः सृष्टिमिति मुद्रा । ततः कर्मधारयः (२|१| ५७ ) इति मुकुटेनोक्तम् । तञ्चिन्त्यम् । लोपाशब्दस्यैव भाषि- तपुंस्कत्वात्पुंवद्भावप्रसङ्गात् । आइप्रश्लेषेण वा तत्समाधे- | न्येभ्योऽपि - ( वा० ३|२|१०१ ) इत्युचितम् ॥ १- एतत्पक्षद्वये तकारैक्यम् । पूर्वत्र तु तवयम् ॥ २ - 'अ-