पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । ४३९ ओकः सद्माश्रयश्चौकाः उच्यति समवैत्यत्र । ‘उच समवाये' ( दि० प० से ० ) । इतीयसुनि 'ज्य च' (५|३|६१ ) इति 'वृद्धस्य च ' (५॥३॥६२) इति वृद्धप्रशस्ययोर्ज्यादेशः । 'ज्यादादीयसः' (६|४|१६०) असुन् (उ० ४।१८९) । न्यादिः (७१३ १५३) | 'ओक | इत्यात्त्वम् । 'ज्यायान्वृद्धे प्रशस्ये च ' ( इति हैमः ॥ उचः के (७|३|६४) इति निपातनाददन्तोऽपि । 'ओका कीयांस्तु युवाल्पयोः | आश्रयमात्रे च मन्दिरे च नपुंसकम् ' ( इति मेदिनी) ॥ पयः क्षीरं पयोऽम्बु च । पीयते । 'पीड् पाने' (दि० आ० अ०) । पयते वा । ‘पय गतौ' (स्वा० आ० से ० ) | वा असुन् ( उ० ४|१८९) ॥ ओजो दीप्तौ वले उब्जति । अनेन वा । 'उब्ज आर्जवे' ( तु०प० से ० ) । ‘उब्जेर्बले बलोपश्च’ (उ० ४|१९२ ) इत्यसुन्। 'ओजोनोजः समः पादो-' 'ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि' (इति मेदिनी) | पृषोदरादित्वं मुकुटोक्तं चिन्त्यम् ॥ स्रोत इन्द्रिये निम्नगारये ||२३३॥ स्रवति । ' स्रु गतौ ' ( भ्वा०प०अ०) । 'खुरीभ्यां तुट् च' (उ० ४।२०२) इत्यसुन् । ‘स्रोतोऽम्बुवेग इन्द्रिये' (इति मेदिनी) ॥ तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि तेजयति । तेज्यतेऽनेन वा । 'तिज निशाने' (भ्वा० आ० से०) । असुन् ( उ० ४२१८९) । 'तेजो धानि पराक्रमे । ( 'प्रभावरेतसोश्च') इति विश्वः । 'तेजो दीप्तौ प्रभावे च स्यात्पराक्रमरेतसो: ' ( इति मेदिनी ) । चादसहने । 'अधिक्षे- पावमानादेः प्रत्युक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं त त्तेजः समुदाहृतम्' इति भरतः ॥ अतस्त्रिषु । वक्ष्यमाणाः सान्तास्त्रिलिङ्गाः ॥ विद्वान् विश्व वेत्ति । 'विद ज्ञाने' (अ० प० से ० ) । 'विदेः शतुर्वसुः' (७११|३६) वा । 'विद्वानात्मविदि प्राज्ञे पण्डिते चाभिधेय- वत्' इति विश्वः । विदन् पण्डितः ॥ बीभत्सो हिंस्रोऽपि बीभत्सते । 'बीभत्स्यते', अनेन वा । 'बध बन्धने' (भ्वा० आ० से०)। ‘मान्ब'ध–’ (३|१|६) इति सन्नभ्यासदीर्घश्च । पचाद्यच् (३।१।१३४)। घञ् (३|३|१९) । घः (३।३।११८) वा । 'बीभत्सो विकृते पार्थे क्रूरे पापघृणात्मनोः' इत्यजयः ॥ अतिशये त्वमी ॥ २३४ ॥ वक्ष्यमाणाश्चत्वारः ॥ वृद्धप्रशस्ययोर्ज्यायान् अतिशयेण वृद्धः प्रशस्यो वा । 'द्विवचन -' (५१३१५७) १ - विषमसंख्यावाची त्वोजोऽदन्तोऽपि - इति स्वामी मुकुटपी- यूषेषु व्यक्तम् । तत्रोदाहरणमिदम् । अतिशयितो युवाल्पो वा । 'युवाल्पयोः कनन्यतरस्याम्' (५।३।६४) इतीयसुनि कन्नादेशः । 'कनीयानतियूनि स्याद- त्यल्पानुजयोत्रिषु' (इति मेदिनी) ॥ वरीयांस्तूरुवरयोः अतिशयित ऊरुर्वरो वा । 'द्विवचन -' (५१३१५७) इती- यसुनि 'प्रियस्थिर - ' (६|४|१५७) इत्यूरोर्वरादेशः 'वरीया- न् योगभिच्छ्रेष्ठवरिष्ठेष्वतियूनि च ' ( इति मेदिनी) ॥ साधीयान्साधुबाढयोः ॥ २३५ ॥ अतिशयितः साधुर्बाढो वा । ईयसुनि 'अन्तिकबाढयो:- इति बाढशब्दस्य साधादेशः || इति सान्ताः ॥ दलेऽपि वर्हम् दले पत्रे । बर्हति । 'वृह वृद्धौ' (भ्वा०प० से ० ) प चाद्यच् (३।१।१३४)। वर्ह्यते वा । 'वर्ह हिंसायाम्' (स्वा० आ० से ० ) । घञ् (३।३।१९) । 'बर्ह पिच्छे दलेऽस्त्रियाम्' (इति मेदिनी) ॥ निर्बन्धोपरागार्कादयो ग्रहाः । ग्रहणम् | गृह्णाति वा । 'ग्रह उपादाने' (ऋया०प० से ० ) | ‘ग्रहॠदृ-' (३।३।५८) इत्यप् | 'विभाषा ग्रहः' (३|१|१४३) इति पक्षे अच् । 'ग्रहोऽनुग्रहनिर्वन्धग्रहणेषु रणोद्यमे । सू र्यादौ पूतनादौ च सैहिकेयोपरागयोः -' इति विश्वः ॥ द्वार्यापीडे काथरसे निर्यूहो नागदन्तके ॥ २३६ ॥ आपीडे शिरोभूषणे । क्काथरसे क्वथितद्रव्यरसे । नागद- न्तके मित्तिस्थकीलके । निर्यूहति 'यूहि' लौकिको साधुः । ‘इगुपध-' (३।१।१३५) इति कः । निरूहति वा । पृषोदरा- दिल्वात् (६।३।१०९) धातोर्यडागमः । 'निर्यूहः शेखरे द्वारे निर्यासे नागदन्तके' इति विश्वः ॥ तुलासूत्रेऽभ्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च । प्रगृह्यते । 'प्रेवणिजाम्' (३|३|५२) 'रश्मौ च' (३३३| ५३) इति वा घन् । (प्रग्राह: स्यात्तुलासूत्रे वृषादीनां च बन्धने' इति हैमः) । पक्षे 'ग्रह - ' (३१३१५८) इत्यप् | 'प्रग्रहस्तु तुलासूत्रे वन्द्यां नियमने भुजे । हयादिरश्मौ रश्मौ च सुवर्णहलिपादपे' इति विश्वः ॥ पत्नीपरिजनादानमूलशापाः परिग्रहाः ॥ २३७ ॥ परिगृह्यते ।परिग्रहणम्, परिगृह्णाति वा । 'ग्रह - ' (३|३|५८) इत्यप् । 'विभाषा ग्रहः' (३।१।१४३ ) इत्यप् ·