पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३८ हिंसा चौर्यादिकर्म च । हिंसनम् । ‘हिसि हिंसायाम्' (रु०प० से०) । 'गुरोश्च —' (३।३।१०३) इत्यः। ‘हिंसाचौर्यादिघातयोः' (इति मेदिनी) । म्चोरस्य कर्म । ब्राह्मणादित्वात्व्यञ् (५॥१॥१२४) आदिना ब. न्धनत्रासनताडनादि । चाद्वधोऽपि ॥ अमरकोषः । प्रसूरश्वापि प्रसूते । ‘धूङ् प्रसवे’ (अ॰ आ० से ० ) | 'सत्सू — ( ३ | २१६०) इति क्विप् । 'प्रसूरश्वाजनन्योश्च कदलीवीरुधोरपि' इति विश्वः ॥ भूद्यावौ रोदस्यौ रोदसी च ते ॥ २२९ । रोदिति सर्वमस्मिन् । ‘रुदिर् अश्रुविमोचने' (अ० प० से०)। असुन् (उ० ४।१८९) । पक्षे गौरादित्वात् (४|१४१) ङीष् । ‘रोदसी’ इत्यव्ययमप्यस्ति । 'या वापृथिव्यौ रोदस्यौ रोदसौ रोदसीति च' । विगृहीतयोरप्येते नामनी । 'रो- दश्च रोदसी चापि दिवि भूमौ पृथक् पृथक् । सहप्रयोगेऽप्य- नयो रोदः स्यादपि रोदसी' इति विश्वः ॥ ज्वालाभासोर्नपुंस्यर्चिः अर्च्यते । ‘अर्च पूजायाम्’ (भ्वा०प० से०) । 'अर्चि- शुचि – ( उ० २।१०८) इतीसिः । 'अथार्चिर्मयूख शिखयोर्न ना' (इति मेदिनी) ॥ ज्योतिर्भद्योतदृष्टिषु । द्योतते । द्योतनं वा । अनेन वा 'द्युत दीप्तौ ' ( भ्वा० आ० से०)। ‘द्युतेरिसिन्नादेश्च जः’ (वा० २१११० ) । 'ज्योतिरौ दिवाकरे । पुमान्, नपुंसकं दृष्टौ स्यान्नक्षत्रप्रकाशयोः’ (इति मेदिनी) ॥ पापापराधयोरागः खगबाल्यादिनोर्वयः ॥ २३० || वयते । ‘वय गतौ' (भ्वा० आ० से ० ) । वेति । 'वी ग - स्यादौ ' ( अ०प० अ० ) । अजति वा । 'अज गत्यादौ ( भ्वा०प० से० ) वा असुन् ( उ० ४११८९ ) ॥—वाति — इति स्वामिमुकुटोक्तिस्तु चिन्त्या । असुन्युक्तरूपासिद्धेः 'वयः पक्षिणि बाल्यादौ यौवने च नपुंसकम् ( इति मेदिनी) ॥ तेजःपुरीषयोर्चः वर्चते। ‘वर्च दीप्तौ' (भ्वा० आ० से ० ) | असुन् ( उ० ।१८९)। ‘वर्चो नपुंसकं रूपे विष्ठायामपि तेजसि | पुंसि ह्रस्य तनये' (इति मेदिनी ) ॥ [ तृतीयं काण्डम् मंहस्तूत्सवतेजसोः । महनम् । मह्यते वा । 'मह पूजायाम् ' ( भ्वा०प० से ० ) | असुन् ( उ० ४।१८९) ॥ रजो गुणे च स्त्रीपुष्पे रजनम् । रज्यतेनेन वा । 'रज रागे' (भ्वा० प० अ०) । असुन् (उ० ४।१८९) । 'असि अके-' (वा० ६|४|२४) इति मात्रेऽपि दृश्यते' (इति मेदिनी) ॥*॥ अदन्तोऽपि । ‘रजोऽयं नलोपः । 'रजः क्लीबं गुणान्तरे । आर्तवे च परागे च रेणु- रजसा सार्धं स्त्री पुष्पगुणधूलिषु' इत्यजयः ॥ राहौ ध्वान्ते गुणे तमः ॥ २३१ ॥ तम्यतेऽनेन । 'तमु ग्लानौ' (दि० प० से ० ) | असुन् ( उ०४|१८९) । तमो ध्वान्ते गुणे शोके क्लीबं वा ना विधुंदे' (इति मेदिनी) ॥ छन्दः पद्येऽभिलाषे च (भ्वा०प० से ० ) । 'चन्देरादेच छः' (उ० ४।२१९) इय- चन्दनम्। चन्द्यतेऽनेन वा । 'चदि आह्लादने दीप्तौ च ' सुन् ॥ — छन्दति — इति स्वामिमुकुटोक्तो विग्रहश्चिन्त्यः । 'छन्दः पद्ये च वेदे च खैराचाराभिलाषयोः' (इति मेदिनी ) । पद्येऽनुष्टुबादौ ॥ एति । ‘इण् गतौ' (अ० प० अ० ) । 'इण् आग् अपराधे | पाठः । एवमग्रेऽपि ॥ च' (उ० ४१२१२) इत्यसुन् । आगच्छतीत्यागः - इति स्वाम्युक्तिस्तु चिन्त्या || तपैः कृच्छ्रादिकर्म च । तपनम् । तप्यते । अनेन वा । 'तप संतापे' (भ्वा०प० चान्द्रायणादौ घने च पुमा शिशिरमाघयोः' (इति मेदिनी ) ॥ से०) । असुन् (उ० ४।१८९) । 'तपो लोकान्तरेऽपि च । सहो बलं सहा मार्गः सहते । सत्यते, अनेन, अत्र वा । 'षह मर्षणे' (भ्वा० आ० अ०) । असुन् (उ० ४|१८९) । 'सहो बले ज्योतिषि च पुंसि हेमन्तमार्गयोः’ ( इति मेदिनी) । लिङ्गभेदार्थो द्विः नभः खं श्रावणो नभाः ॥ २३२ ॥ ( भ्वा० आ० से ० ) । असुन् ( उ० ४|१८९) । 'नभो व्योम्नि नभनम् । नभ्यते, अनेन, अत्र वा । 'णभ हिंसायाम्' च नभाः स्मृतः' इति विश्वः ॥ नभा मेघे श्रावणे च पतग्रहे । घ्राणे मृणालसूत्रे च वर्षासु १ - 'मह: अदन्तोऽपि' – इति मुकुटः । 'मही नद्यन्तरे भूमौ मह उत्सवतेजसोः" इति मेदिनी । २ – इत्थं पाठस्तु जनकानु रोधेन । भाष्ये तु 'रजकरजनरजःसु' इति पाठ उपलभ्यते । मः इति स्वामी । ४ – एवं सति पयः क्षीरं पयोऽम्बु च' इत्यग्रे ३ – अदन्तोऽपि ग्रीष्मार्थः । यथा 'तपेन वर्षा: शरदा हिमाग- समानलिङ्गस्य द्विः पाठो व्यर्थ एव स्यात् । छन्दोऽनुरोधादेवान्य- कोशेष्विव बोध्यः |