पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्गः ३ ] द्यच् (३।१।१३४) । 'वर्षोऽस्त्री भारतादौ च जम्बुद्वीपाब्द- वृष्टिषु । प्रानृट्काले स्त्रियां भूम्नि' (इति मेदिनी) ॥ प्रेक्षा नृत्येक्षणं प्रज्ञा प्रेक्षणम् । अनया वा । 'ईक्ष दर्शने' (भ्वा० आ० से ० ) । ‘गुरोश्च–’ (३।३।१०३) इत्यः । 'प्रेक्षा धीनृत्यदर्शयोः' इत्य- जयः । ‘प्रेक्षा नृत्येक्षणे बुद्धौ’ (इति मेदिनी) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । भिक्षासेवार्थना भृतिः ॥ २२४ ॥ भिक्षणम् । भिक्ष्यते वा । ‘भिक्ष याच्यादौ ( भ्वा० आ० से०) । 'गुरोश्च -' (३|३|१०३ ) इलः | 'भिक्षा भृतौ च याच्चायां सेवामिक्षितवस्तुनोः' इति विश्वः । भृतिर्वेतनम् ॥ विट् शोभापि त्वेषणम् । अनया वा । ‘त्विष दीप्तौ' (भ्वा० उ० अ०)। संपदादिः (वा० ३।३।१०८) । 'कान्तौ वाचि रुचौ ट्विट् स्त्री' इति रभसः ॥ वक्ष्यमाणास्त्रयो वाच्यलिङ्गाः ॥ न्यक्षं कात्रुर्यनिकृष्टयोः । नियतानि निकृतानि वा अक्षाणि यस्मिन् यस्य वा । 'न्यक्षः परशुरामे स्याध्यक्षः कार्यनिकृष्टयोः' इति विश्वः ॥ प्रत्यक्षेऽधिकृतेऽध्यक्षः अधिगतोऽक्षम् । अघिगतोऽक्षेण वा अक्षेषु व्यवहारेषु अधिकृतः । अधिकृतान्यक्षाण्यस्य । अध्यक्ष्णोति वा । 'पचा- द्यच्’ (३।१।१३४) ॥ रविश्वेतच्छदौ हंसौ हन्ति गच्छति । 'हन हिंसागत्यो : ' (अ० प० अ० ) । पचाद्यच् (३|१|१३४) । 'भवेद्वर्णागमाद्धंसः' इति सक् । यद्वा 'वृतृवदिव चिव सिहनि कमिकषिभ्य: ( उ० ३१६२) इति सप्रत्ययः । 'हंसो विहंगमेदे स्यादर्के विष्णौ हयान्तरे । यो गिमन्त्रादिभेदेषु परमात्मन्यमत्सरे | निर्लोभनृपतौ हंसः शारीरमरुदन्तरे' इति विश्वः ॥ ४३७ तर्णके नोरसि क्लीबम्' ( इति मेदिनी) । तर्णको गोः पुत्रः | वर्षो वत्सरः ॥ सूर्यवही विभावसू । विभा प्रभा वसु धनमस्य । 'विभावसुः पुमान्सूर्ये हार- भेदे च पावके' (इति मेदिनी) ॥ वत्सौ तर्णकवर्षी द्वौ वसति । अस्मिन्वा । ‘वस निवासे' (भ्वा०प० अ० ) । 'ऋतृववि - ' ( उ० ३।६२) इति सः । 'वत्सः पुत्रादिवर्षयोः । सारङ्गाश्च दिवौकसः ॥ २२६ ॥ सारङ्गमस्य | शकन्ध्वादिः (वा० ६|१|९४) | सौरंगायति वा । ‘गै शब्दे' (भ्वा०प० अ० ) | 'गापोष्टक्' (३१२१८ ) मृगचातकहरिणाः । द्यौरोको यस्य । 'दिवोकाच दिवौ काश्च पुंसि देवे च चातके' (इति मेदिनी) ॥ शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः । रस्यते । 'रस आस्वादने' अदन्तः | घञ् (३|३।१९) । 'रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः । शृङ्गारादौ द्रवे वीर्ये देहधात्वम्बुपारदे । रसा तु शल्लकीपाठा जिह्वाधरणि- कङ्गुषु' इति विश्वः ॥ पुंस्युत्तंसावतंसौद्धौ कर्णपूरे च शेखरे ॥ २२७ ॥ उत्त॑स्यति । उत्त॑स्यते । अनेन वा । तसिः सौत्रो भूषार्थः । | ‘पचायच्’ (३।१।१३४) । 'हलच' ( ३ | ३ | १२० ) इति घञ्वा । 'उत्तंसः कर्णपूरेऽपि शेखरे चावतंसवत्' इति विश्वः । कर्णपूरः कर्णाभरणम्, शेखरः भूषणम् ॥ देवभेदेऽनले रश्मौ वसू रत्ने धने वसु । विष्णौ च वेधाः रूक्षस्त्वप्रेम्ण्यचिकणे ॥ २२५ ॥ विधति । 'विध विधाने' ( तु०प० से ० ) । असुन ( उ० रूक्षयति । ‘रूक्ष पारुष्ये’ (चु० उ० से ० ) । 'पचाद्यच्’ |४|१८९) । विदधाति वा । 'विधाजो वेध च' ( उ० ४ (३।१।१३४) । अप्रेम्णि निःस्नेहे । अचिक्कणे मसृणे ॥ २२५ ) । इत्यसुन् । 'वेधाः पुंसि हृषीकेशे बुधे च परमेष्ठिनि' ( इति मेदिनी ॥ इति षान्ताः ॥ वसति सर्वत्र | उष्यतेऽनेन वा । 'वस निवासे' (भ्वा० प० अ०)। ‘ृस्वस्निहि—’ ( उ० १११० ) इत्युः | 'वसुन देवभेदाग्निभायोकवकराजसु । लीवं वृद्ध्यौषधे श्याले रै रत्ने मधुरे त्रिषु ' ( इति मेदिनी ) ॥ स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयः ॥ २२ ॥ आशास्ते । 'आङ: शासु इच्छायाम्' (अ० आ० से ० ) । किप् ( ३ | २|७६) । यद्वा आशासनम् । अनया वा । संपदादि: (वा० ३।३।१०८ ) | 'आशास: कौ - (वा० ६१४३४) इ. तीत्वम् । 'आशीस्तालगता दंष्ट्रा तथा विद्धो न जीवति' । हितस्याशंसा अहेर्दष्ट्रा ॥ लालसे प्रार्थनौत्सुक्ये लालसनम् । 'लस दीप्तौ ' ( भ्वा० प० से ० ) यडन्तः । 'अ प्रत्ययात्' (३|३|१०२) । 'लालसौत्सुक्यतृष्णातिरेकया- चनासु च द्वयोः' (इति मेदिनी ) ॥ १ - एवं 'सारगः' इति रूपापत्त्या चिन्त्यमेतत् । तस्मात् 'सारं गच्छति' इति विग्रहे 'गमे: सुपि (वा० ३(२९३८) इति 'खर्च डिवा' (३|२|३८) इति वार्तिकाभ्यां खचि डिति बोध्यः ॥