पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ तृतीयं काण्डम् स्मृतो भुजामूले कक्षोऽरण्ये च वीरुथि | कक्षः शुष्कतृणे | आकृष्यते षा आकृषन्त्यस्मिन्वा । 'कृष विलेखने' ( तु० प्रोक्तः कक्षः कच्छ उदाहृतः। कक्षा स्पर्धापदे काञ्चयां रथ- उ० अ० ) | घञ् ( ३ | ३ | १८/१९) । 'नाकर्षो द्यूत इन्द्रिये । गेहप्रकोष्ठयोः । गजरज्जौ परीधानपश्चादञ्चलपलवे' इति धर- पाशके शारिफलके कोदण्डाभ्यासवस्तुनि । आकर्षणेऽपि पुंसि स्यात् ' ( इति मेदिनी) ॥ णिः । वीरुलता ॥ अभीषुः प्रग्रहे रश्मौ ईषते । ईष्यते वा । ‘ईष गतिहिंसादर्शनेषु' ( भ्वा० आ० से०) । 'ईषे: किञ्च' ( उ० १|१३ ) इत्युः | आदेरिश्च । अभिगत इषुः । 'प्रादयो गता -' (वा० २ | २|१८) इति समासः । प्र- हेऽश्वादिरज्जौ | रश्मौ किरणे ॥ प्रैषः प्रेषणमने ॥ २१९ ॥ प्रेषणम् । इषेर्भावे घञ् (३|३|१८) 'प्रादूहो–' (वा० ६।१।८९) इति वृद्धिः । ‘प्रैषः प्रेषणपीडयोः' इत्यजयः । 'प्रेषः स्यात्प्रेषणे क्लेशे मर्दनोन्मादयोरपि' इति विश्वः || पक्षः सहायेऽपि पक्षति । पक्ष्यते वा । ‘पक्ष परिग्रहे ' ( भ्वा०प० से ० ) । " पचाद्यच् (३।१।१३४) । घन् । (३|३|१९) वा | 'पक्षो मासार्धके पार्श्व ग्रहे साध्या विरोधयोः | केशादेः परतो वृन्दे बले सखिसहाययोः । चुल्लीरन्ध्रे पतत्रे च वाजिकुञ्जरपार्श्वयोः' ( इति मेदिनी ) ॥ उष्णीषं शिरोवेष्टकिरीटयोः । उष्णमीषते हिनस्ति | 'ईष गत्यादौ ' ( भ्वा० आ० से ० ) । 'इगुपध-' (३।१।१३५) इति कः । शकन्ध्वादिः (वा० ६।१। ९४) । 'उष्णीषं तु शिरोवेष्टे किरीटे लक्षणान्तरे' इति विश्वः । शिरसो वेष्टने वस्त्रादिरूपे । किरीटे मुकुटे ॥ शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ॥ २२० ॥ वर्षति । 'वृषु ( श्रेष्ठे) सेचने' (भ्वा०प० से ० ) | 'इगु पध–’ (३।१।१३४) इति कः। 'वृषो धर्मे बलीवर्दे शृङ्गयां पुंराशिभेदयोः। श्रेष्ठे स्यादुत्तरस्थश्च वासमूषिकशुकले' ( इति मेदिनी) । शुक्रले बाहुवीर्यवति वृष्यप्रयोगे वा ॥ कोषोऽस्त्री कुडमले खड्गपिधानेऽर्थोघदिव्ययोः । कुष्यते । 'कुष निष्कर्षे' ( क्या०प० से ० ) । घन् ( ३ | ३।१९ ) | 'कोषोऽस्त्री कुमले पात्रे दिव्ये खड्ज्ञपिधान के । जातिकोशेऽर्थसंघाते पेश्यां शब्दादिसंग्रहे' ( इति मेदिनी) । दिव्ये शपथे । शब्दादिसंग्रहेऽमरादौ । तालव्यान्तोऽपि । ‘विश्वक्सेनोऽभ्रेषः कोषविषादौ च’ इत्यूष्मविवेकात् । 'कोशो- स्त्री कुाले पात्रे दिव्ये खड्गपिधानके-' इति श्लोकस्य (मेदि. न्याम् ) तालव्यादौ (न्ते) अपि पाठः ॥ द्यूतेऽक्षे शारिफलकेऽप्याकर्षः अक्षे पाशके । शारिफलकमक्षपीठिका । आकर्षणम् । १ - 'अभीशुस्तालव्यान्तोऽपि' इति मुकुटपीयूषे ॥ २ - 'प्रेष ए. 'डादिरपि' इति पीयूषव्याख्या ॥ अथाक्षमिन्द्रिये ॥ २२१ ॥ ना द्यूताङ्गे कर्षे चक्रे व्यवहारे कलिदुमे । अक्ष्णोति, अक्ष्यते वा, अनेन, अत्र वा । 'अक्षू व्याप्तौ ( भ्वा०प० से ० ) | ‘पचाद्यच् ' ( ३ | १ | १३४) | घञ् (३|३| १९) । 'हलच' (३।३।१२०) इत्यन्त्ययोर्धञ् । 'अक्षः कर्षे तुषे चक्रे शकटव्यवहारयोः । आत्मज्ञे पाशके चाक्षं तुत्थे सौवर्चलेन्द्रिये' इति विश्वः । व्यवहारे आयव्ययचिन्तायाम् । कर्षे मानभेदे । चक्रे रथावयवे ॥ कर्पूर्वार्ता करीषाग्निः कर्पूः कुल्याभिधायिनी ॥२२२॥ कर्षणम् | कृष्यते । कर्षति वा । 'कृष विलेखने' ( भ्वा० ( प० अ० ) । 'कृषिचमितनि- ' ( उ० ११८० ) इत्यूः | 'करी- षाग्निः पुमान्कर्पू: कुल्यायामपि च स्त्रियाम्' इति रभसः । वार्ता जीविका ॥ पुंभावे तत्क्रियायां च पौरुषम् पुरुषस्य कर्म भावो वा । 'प्राणभृज्जाति-' (५/१/१२९) इत्यन् । 'पौरुषं पुरुषस्य स्याद्भावे कर्मणि तेजसि । ऊर्ध्ववि स्तृतदोः पाणिनृमाने लभिधेयवत्' इति विश्वः ॥ विषमसु च | वेवेष्टि । 'विष्ऌ व्याप्तौ’ ( जु० उ० अ० ) । 'इगुपध-' (३|१|१३२) इति कः | 'विषं तु गरले तोये' इति विश्वः ॥ | उपादानेऽप्यामिषं स्यात् आमिष्यते भुज्यते । 'मिष श्रेषे' ( तु०प० से ० ) । घञ् । (३|३|१९) संज्ञापूर्वकत्वान्न गुणः |——‘घञर्थे कः' (वा० ३॥ ३१५८ ) - इति तु परिगणनादयुक्तम् । 'आसिषं पुंनपुंस- कम् । भोग्यवस्तुनि संभोगेऽप्युत्कोचे पललेऽपि च ' ( इति मेदिनी) । उपादानमुत्कोचः ॥ अपराधेऽपि किल्बिषम् ॥ २२३ || केलनम् | किल्यते वा । 'किल क्षेपे' ( तु ० प ० से ० ) 'किलेवुक्च' ( उ० ११५० ) इति टिषच् । 'किल्बिषं पापरो- गयोः’ ( इति मेदिनी) ॥ स्यादृष्टौ लोकधात्वंशे वत्सरे वर्षमस्त्रियाम् । लोकधातुर्जम्बुद्वीपादिः । तदंशे भारतादौ । वर्षणम् । 'वृषु सेचने' (भ्वा० प० से० ) । 'अज्विधौ भयादीनामु पसंख्यानम्' (३|३|५६) इत्यच् । वर्षयति । वर्षति वा पचा- १ – कुल्या नदीमात्रं च । 'कुल्या धुनी द्वीपवती तटिनी ह्रदिनी सरित् । रोधोवक्रापगा कर्पू: स्रवन्ती निम्नगा नदी' इति रत्नकोष: - इति मुकुटः ॥