पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ४३४ [ तृतीयं काण्डम् अनुभावः प्रभावे च सतां च मतिनिश्चये ॥ २०९ ॥ भवनम् । 'श्रिणीभुवो–' (३|३|२४) इति घन् । अनुगतो भावः । 'प्रादयो गताद्यर्थे - (वा० २१२|१८ ) इति समासः । द्वंद्वं कलहयुग्मयोः ॥२१२॥ द्वौ द्वौ । 'द्वंद्वं रहस्यमर्यादावच नव्युत्क्रमणयज्ञपात्रप्रयोगा भिव्यक्तिषु' (८|१|१५) इति साधुः । 'चार्थेद्वन्द्वः' ( २ | २ | यद्वा अनुभावयति । पचाद्यच् (३|१|१३४) | 'अनुभावः | २९) इति निर्देशात्पुंस्यपि । 'द्वंद्वं रहस्ये कलहे तथा मिथुन प्रभावे स्यान्निश्चये भावसूचके' इति विश्वः ॥ युग्मयोः' (इति मेदिनी) ॥ स्याजन्म हेतुः प्रभवः स्थानं चाद्योपलब्धये । जन्मनो हेतुः । प्रभवत्यस्मात् । 'ऋदोरप्' ( ३।३।५७) । 'प्रभवो जलमूले स्याजन्महेतौ पराक्रमे । ज्ञानस्य चादिम स्थाने’ (इति मेदिनी) । आद्योपलब्धये प्रथमज्ञानार्थम् ॥ शूद्रायां विप्रतनये शास्त्रे पारशवो मतः ॥ २१० ॥ पराञ्णाति । 'शू हिंसायाम्' (ऋया०प० से ० ) । 'आ- ङ्परयोः खनिशूभ्यां डिच्च’ (उ० १|३३) इत्युः | परशुरेव । प्रज्ञाद्यण् (५॥४॥३८) । परस्त्रिया अपत्यं वा । 'परस्त्री परशुं च' (ग० ४११०४) इत्यज् । 'पुंसि पारशवः पुमान् । परस्त्रीतनये शस्त्रे द्विजाच्छूद्रासुतेऽपि च ' ( इति मेदिनी ) ॥ ध्रुवो भभेदे क्लीबे तु निश्चिते शाश्वते त्रिषु | ध्रुवति । 'ध्रुव गतौ' ( तु० प० से ० ) | पचाद्यच् ( ३ | १ | १३४) । 'ध्रुवः कीले शिवे शङ्कौ वसौ योगे वटे मुनौ । ध्रुवा मूर्वाशालिप गीतियोरपि । ध्रुवं तु निश्चिते तर्के निश्चले शाश्वतेऽन्यवत्' इति विश्वः । भभेदे नक्षत्रवि- शेषे ॥ खो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोत्रियां धने ॥ २११ ॥ वनति । स्वन्यते वा । 'खन शब्दे' (भ्वा०प० से ० ) । ‘अन्येभ्योऽपि’ (वा० ३।२।१०१ ) इति ढः । 'स्वो ज्ञात्या- त्मनोः स्त्रं निजे धने’ इति हेमचन्द्रः । 'खः स्यात्पुंस्यात्मनि ज्ञातौ त्रिष्वात्मीयेऽस्त्रियां धने' ( इति मेदिनी) ॥ स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च । स्त्रियाः कट्यां वस्त्रस्य बन्धने । परिपणे राजपुत्रादेव- न्धके । — वणिजां मूलधने - इति मुकुटः । तन्न । मे- दिन्यां (हैमे) तयोः पृथक्पाठात् । निव्ययति, निवीयते वा । ‘ब्येञ् संवरणे’ (भ्वा० उ० अ० ) | 'नौ व्यो यलोपः पूर्वस्य च दीर्घः' ( उ० ४।१३६) इतीण् । 'कृदिकारात्- (ग० ४। १९४५) इति ङीप् । 'नीवी स्त्रीकटीवस्त्रबन्धने । मूलद्रव्ये परिपणे’ (इति हैमः) ॥ शिवा गौरीफेरवयोः शिवमस्त्यस्याः । अर्शआयच् (५|२|१२७) । 'पुण्डरी- कहमे चापि शिवा झाटामलौषधौ | अभयामल की गौरीको ष्ट्रीसैक्तुफलासु च' इति विश्वः ॥ १ - इदं तु पूर्वान्वयि 'पुण्डरीकद्रुमे पुमान्' इति मेदिन्युक्तेः ॥ २ – कोही शृगाली | 'पुंशृगालेऽपि शिवा' इति मुकुटः ॥ द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु । द्रव्यं वित्तम् । असुः प्राणः । व्यवसायो निश्चयः । सीद- न्त्यस्मिन् गुणाद्याः । 'षद्ल विशरणादौ' (भ्वा०प० अ० ) | ‘अन्येभ्योऽपि दृश्यन्ते' ( उ० ४११०५) इति त्वन् । 'सत्वं गुणे पिशाचादौ बले द्रव्यस्वभावयोः । आत्मत्वव्यवसायासु- वित्तेष्वत्री तु जन्तुषु' (इति मेदिनी) ॥ क्लीबं नपुंसके षण्ढे वाच्यलिङ्गमविक्रमे ॥ २१३ ॥ षण्ढे तृतीयाप्रकृतौ । क्लीवते । 'क्लीवृ अधायें' (भ्वा० आ० से ० ) । 'इगुपध-' (३|१|१३५) इति कः । 'अस्त्री नपुंसके क्लीबं वाच्यलिङ्गमविक्रमे ' इति रुद्रः । अयमोष्ठ्योऽत्र भ्रंमात्पठितः । पूर्वगन्धर्वजिह्वस्त्वोष्ठ्येषु ॥ इति वान्ताः ॥ द्वौ विशौ वैश्य मनुजौ विशति । 'विश प्रवेशने' ( तु०प० से ० ) । किप् (३|२| १७८ ) | 'विटू स्मृतो वैश्यमनुजप्रवेशेषु मनीषिभिः' इति विश्वः ॥ द्वौ चराभिमरौ स्पशौ । अभिमरो युद्धम् । स्पशति । 'स्परा बाधनस्पर्शनयोः' ( भ्वा० उ० से ० ) पचायच् (३|१|१३४) | 'स्पशः स्यात्सं- पराये च प्रणिधावपि पुंस्ययम्' (इति मेदिनी) ॥ द्वौ राशी पुञ्जमेषाद्यौ रैश्यते, रशति वा । 'रश' इति सौत्रो धातुः स्वनार्थः । बाहुलकादिण् । णिजन्तात् । 'अच इ : ' ( उ० ४|१३९) वा ॥ द्वौ वंशौ कुलमस्करौ ॥ २१४ || वमति, वम्यते वा । 'टुवम उद्भिरणे' (भ्वा०प० से ० ) । ‘वृमृवमिभ्यः शकूँ' । मस्करो वेणुः । 'वंशो वेणौ कुले वर्गे पृष्ठाद्यत्रयवेऽपि च ' (इति विश्वः) ॥ रहः प्रकाशौ वीकाशौ विकाशनम् । अस्मिन् वा । 'काट दीप्तौ' ( भ्वा० आ० १- विश्व है ममेदिनीष्वपि यणन्तेष्वपि पठितः इति सर्वेषां भ्रमकल्पनं तु न सम्यक् || २~- 'रश' धातुः कस्मिन् ' अशे रश' सूत्रे पठितोऽस्ति यतः सौत्रत्वं संभाव्यते । किं च 'अशिपणाय्यो रुडायलुकौ च' (उ० ४|१३३) इति 'सूत्रे रुडिधानम् च ( उ० २१७५) इति सूत्रे आदेशविधानं च व्यर्थमेव स्यात् ॥ ३-अस्य सूत्रस्यो | ज्ज्वलदत्तादिग्रन्थेऽनुपलम्भात् 'अनुनासिकस्य किलो: (६|४|१५) इति दीर्घापत्तेश्च चिन्त्यमेतत् । तस्मात्प्रागुक्तमेव सम्यक् ||