पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानार्थवर्ग: ३ ] व्याख्यासुधाख्यव्याख्यासमेतः । त्पचायच् (३।१।१३४) । 'प्रवालोऽस्त्री किसलये वीणादण्डे | मन्त्री सहायः सचिवौ च विद्रुमे' (इति मेदिनी) ॥ त्रिषु स्थूलं जडेऽपि च ॥ २०४ ॥ स्थूलयति । 'स्थूल परिबृंहणे' चुरायदन्तः | पचायच् (३।१।१३४) । ‘स्थूलं कूटे च निष्प्रज्ञे पीवरेऽप्यन्यलिङ्ग- कम्' (इति मेदिनी) ॥ करालो दन्तुरे तुझे करेणालाति । 'आतश्योपसर्गे' (३|१|१३६) इति 'सुपि' (३।२।४) इति योगविभागाद्वा कः । यद्वा करमलति । 'अल भूषणादौ’ (भ्वा० प० से॰)। ‘कर्मण्यण' (३१२११) । 'क- रालं दन्तुरे तुङ्गे भीषणे चाभिधेयवत् | ( स सर्जरसतैले ना क्लीवं कृष्णकुठेर के)' (इति मेदिनी) । 'दन्तुरस्तूज्ञतरदे त थोन्नतनते त्रिषु' ( इति रान्तेषु मेदिनी ) ॥ चारौ दक्षे च पेशलः । ‘पिश अवयवे’ (तु॰ प० से० ) | भावे घञ् (३|३|१८) पेशं लाति । बाहुलकात् पिशेरलज्वा ॥ मूर्खेऽर्भकेऽपि बालः स्यात् । बलति । 'बल प्राणने' (भ्वा० प० से ० ) । 'ज्वलिति- ' (३।१।१४०) इति णः । यद्वा वाडते । 'वाड़ आलाव्ये' ( भ्वा० आ० से ० ) । पचायच् (३|१|१३४) । यद्वा वल्यते ‘बल संवरणे' (भ्वा० आ० से ० ) । कर्मणि घव् ( ३ ॥३॥१९)। 'बाल: कचे शिशौ मूर्खे हीवेरेऽश्वेभपुच्छ्योः' इति विश्वः । 'वालो ना कुन्तलेऽश्वस्य गजस्यापि च बालधौ । वाच्यलिङ्गोऽ- भँके मूर्खे ह्रीवेरे पुंनपुंसकम् | अलंकारान्तरे मेधौ वाली वाला त्रुटिस्त्रियोः' (इति मेदिनी ) ॥ लोलञ्चलसतृष्णयोः ॥ २०५ ॥ लोडति । ‘लोडृ उन्मादे' (भ्वा०प० से ० ) | पचाद्यच् (३।१।१३४)। ‘लोलश्चले सतृष्णे च लोला तु रसना - श्रियोः' (इति हैमः) ॥ इति लान्ताः ॥ दवदावौ वनारण्यवही दुनोति, दवति वा । 'टुदु उपतापे' ( स्वा०प० अ० ) । ‘दु गतौ’ (भ्वा० प० अ०)। ‘दुन्योरनुपसर्गे' (३।१।१४२) इति वा णः । पक्षे अच् । यत्तु – दूयन्तेऽनेनेति । 'दुनो विभाषा' इति घञ्—इत्युक्तं स्वामिना | तन्न । उक्तवचना- भावात् ॥ जन्महरौ भवौ । भवति । पचद्याच् (३।१।१३४) । अन्तर्भावितण्यर्थो वा । जन्मनि तु भावे ‘ऋदोरप्’ (३१३१५७) | ‘भवः क्षेमेशसं- सारे सत्तायां प्राप्तिजन्मनो: ' ( इति मेदिनी ) ॥ अमर० ५५ ४३३ सह अयते, अयति वा । 'अय गतौ' (स्वा० आ० से ० ) | ' ई गतौ ' (भ्वा०प० से ० ) वा | पचायच् (३ | १९१३४) । सचनम् | ‘षच समवाये' (भ्वा० उ० से ० ) । 'सर्वधातुभ्य इन्' ( उ० ४|११८) | सचिं वात | ‘वा गत्यादौ' (अ० प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः ॥ पतिशाखिनरा धवः ॥ २०६ ॥ धवति, धुवति, धूनोति, धुनाति वा । 'धूञ् कम्पने' ( चु० उ० से०, स्वा० उ० से०, नया० उ० से ० ) । 'धू विधूनने' ( उ०प० से०) | पचायच् (३||१३४) । यद्वा ध्यते । न्तरेऽपि च’ (इति मेदिनी)। ‘ऋदोरप्’ (३।३।५७) । 'धवः पुमान्नरे धूर्ते पत्यौ वृक्षा- अवयः शैलमेषार्काः अवति, अव्यते वा । 'अव रक्षणादौ ' ( भ्वा० प० से ० ) । इन् ( उ० ४।११८) । 'अविर्नाथे रवौ मेषे शैले मूषिकक- म्बले' (इति मेदिनी) । ('अविर्भूपुष्पवत्योः स्त्री वायुप्राकार- भःसु ना' (इति वैजयन्ती ) ॥ आज्ञाहानाध्वरा हवाः । 'हेञ् स्पर्धायां शब्दे च' (भ्वा० उ० अ० ) । 'भावेऽनुप- सर्गस्य' (३१३१७५) इति ह्रः संप्रसारणमप् च । हृयतेऽ- त्रेति वा ॥ भावः सत्तास्वभावाभिप्रायचेष्टात्मजन्मसु ॥ २०७ ॥ भावयति | पचाद्यच् ( ३ | १ | १३४ ) | भवनं वा । 'त्रिणी- भुवोऽनुपसर्गे (३।३।२४) इति घञ् । 'भावः सत्तास्वभावा- भिप्रायचेष्टात्मजन्मसु । क्रियालीलापदार्थेषु विभूतिबन्धुज- न्तुषु । रत्यादौ च ' (इति मेदिनी) ॥ स्यादुत्पादे फले पुष्पे प्रसवो गर्भमोचने | प्रसवनम्, प्रसूयते वा । 'घूङ् प्राणिप्रसवे' (दि० आ० से०) । 'ऋदोरप्' (३।३।५७) । पचाद्यच् (३।१।१३४) वा । 'प्रसवो गर्भमोचने' । उत्पादे स्यादपयेsपि फलेऽपि कुसु- मेsपि च ' ( इति मेदिनी) ॥ अविश्वासेऽपह्नवेऽपि निकृतावपि निह्नवः ॥ २०८ ॥ निहवनम् । 'हुड् अपनयने' (अ० आ० अ० ) । 'ऋरदोप' (३१३१५७) | 'निह्नवः 'पुंसि निकृतावविश्वासाप- लापयोः’ (इति मेदिनी) ॥ उत्सेकामर्षयोरिच्छाप्रसवे मह उत्सवः । उत्सेक उद्रेकः । इच्छायाः प्रसव उत्पत्तिः । मह उद्धवः । उत्सवनम् । ‘षु प्रसवैश्वर्ययो: ' (भ्वा०प०अ०) । 'ऋदो- र१' (३१३१५७) | 'उत्सवो मह उत्सेक इच्छाप्रसवकोपयोः’ (इति मेदिनी) ॥ १ – 'पुंसि' इति न प्रकृतोपयोगि । अग्रे ‘पुमान्' इत्युक्तेः ॥