पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ १३४)। वेल्यते । अनया वा । 'वेल कालोपदेशे' (चु० उ० से ० ) । 'गुरोच हल : ' (३|३|१०४) इत्यङ् | 'वेला काले च सीमायामब्धेः कूलविकारयोः । अक्लिष्टमरणे रोगे ईश्वरस्य च भोजने' (इति मेदिनी) ॥ बहुलाः कृत्तिका गावो बहुलोऽग्नौ शितौ त्रिषु । वहति । 'वह प्रापणे' (भ्वा० उ० अ० ) | बाहुलकादु- लच् । वहु लाति वा । 'बहुला नीलिकायां स्यादेलायां गवि योषिति । कृत्तिकासु स्त्रियां भूनि विहायसि नपुंसकम् | पुंस्यग्नौ कृष्णपक्षे च वाच्यवत्प्राज्यकृष्णयोः' (इति मेदिनी) शितौ कृष्णे ॥ अमरकोषः । [ तृतीयं काण्डम् (३|१|१३४) | 'फलं हेतुसमुत्थे स्यात्फलके व्युष्टिलाभयोः । जाती फलेऽपि कक्कोले सस्यबाणाग्रयोरपि' इति विश्वः ॥ छदिनेत्ररुजोः क्लीयं समूहे पटलं न ना ॥ २०१ ॥ लीला विलासक्रिययोः लेलायनम् । ‘लेला दीप्तौ’ कण्डादिः | भिदायङ् (३|३| १०४) । 'अ प्रत्ययात्' (३|३|१०२) इति वा । पृषोदरादिः (६|३|१०९ ) । यद्वा लयनम् । 'लीङ् श्लेषणे' (दि० आ० अ० ) । बाहुलकालो गुणाभावश्च । 'लीलां विदुः केलिविला- सखेलाशहारभावप्रभवक्रियासु' इति विश्वः || उपला शर्करापि च ॥ १९९ ॥ | उप लाति । 'ला दाने' (अ० प०अ०) । 'आतश्वोपसर्गे' (३।१।१३६) इति कः । उं शंभुं पलति । औ शंभौ वा पलति । ‘पल गतौ' (भ्वा० प० से ० ) । पचाद्यच् (३।१।१३६) 'शर्क- राशकले ज्ञेया सितोपला रजःस्खपि' इत्यजयः । ('उपल: प्रस्तरे रत्ने शर्करायां तु योषिति ) ( इति मेदिनी ) ॥ शोणितेऽम्भसि कीलालम् कीलेन प्रतिबन्धेनाल्यते वार्यते । ‘अल भूषणाद' (भ्वा० प० से ० ) । घन् ( ३।३।१९ ) | कीलं प्रतिबन्धमलति वा । 'कर्मण्यण्' (३।२।१ ) ॥ मूलमाद्ये शिफाभयोः । मूलति । 'मूल प्रतिष्ठायाम्' (भ्वा० प० से ० ) । 'मूल रोहणे’ (चु प० से॰) वा । 'इगुपध-' (३।१।१३५) इति कः । आद्ये प्रथमे । शिफा जटा । भं नक्षत्रम् । 'मूलं शिफाययोः । मूलवित्तेऽन्तिके ना भे' (इति मेदिनी) ॥ जालं समूह आनायो गवाक्षक्षारकावपि ॥ २०० ॥ जलति । ‘जल घातने' (भ्वा० प० से० ) । ज्वलादिणः (३ | १ | १४० ) | जालयति वा । 'जल संवरणे' चुरादिः । पचाद्यच् (३|१|१३४) । 'जालं गवाक्ष आनाये र जम्भवृन्दयोः । जालो नीपट्टमे' (इति मेदिनी) ॥ शीलं स्वभावे सद्वृत्ते शीलनम् । शील्यतेऽनेन वा । 'शील समाधौ' (भ्वा०प० से०) । घन् ( ३ | ३ | १८ ) | घो (३|३|११८) वा ॥ फलनम्। 'फल निष्पत्तौ' पटं विस्तारं लाति । 'ला दाने' (अ० प० अ० ) । 'आ तोऽनुप - ' ( ३ |२|३) इति कः । 'अथ पटलं पिटके च परिच्छदे | छदिर्हग्रोगतिलके क्लीबं, वृन्दे पुनर्न ना' ( इति मे - दिनी ) | स्त्रियां गौरादिः (४|११४१) | छदिगृहाच्छादनम् । 'छानी' इति ख्यातम् ॥ अधःस्वरूपयोरस्त्री तलम् तलति । 'तल प्रतिष्ठायाम् ( भ्वा० प० से ० ) | पचाद्यच् (३|१|१३४) । 'तलं स्वरूपेऽनुर्ध्वेऽस्त्री क्लीवं ज्याघातवारणे । कानने कार्यवीजे च पुंसि तालमहीरुहे । चपेटे च सरौ |तन्त्रीघाते सव्येन पाणिना' (इति मेदिनी) ॥ स्याच्चामिषे पलम् | पलति । 'पल गतौ' (भ्वा०प० से ० ) । पचाद्यच् ( ३ ॥१ १३४)। 'पलमुन्मानमांसयोः' इति रुद्रः ॥ और्वानलेऽपि पातालम् पतति, अत्र वा । 'पल गतौ ' ( भ्वा० प० से ० ) । ‘चडि पतिभ्यामालञ्' ( उ० १११७ ) | पातमलति वा । पातमालाति वा । 'पातालं नागलोके स्याद्विवरे बडवानले' ( इति मेदिनी) ॥ चेलं वस्त्रेऽधमे त्रिषु ॥ २०२ || चिलति । चिल्यते वा । 'चिल वसने ' ( तु०प० से ० ) । ते वा । 'चेल गतौ ' (भ्वा०प० से ० ) । पूर्ववत्। प्रज्ञाद्यण् पचायच् (३।१।१३४) । घञ् (३|३|१९) वा चेलति, चेल्य (५॥४|३८)। गौरादिङीष् (४॥१॥४१) वा ॥ कुकूलं शङ्कुभिः कीर्णेश्वभ्रे ना तु तुषानले । कोर्भूमेः कुलम् | कुत्सितं वा कुलम् ॥ निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः ॥२०३ ॥ केवते । ‘केत्रृ सेचने’ (भ्वा० आ० से ० ) । वृषादित्वात् ( उ० १९१०६) कलः । के शिरसि वलयति वा । 'बल प्रा- णने' (भ्वा० प० से ० ) पचायच् (३|१|१३४) स्त्रियां टाप् | संज्ञाछन्दसोस्तु 'केवलमामक -' (४|१|३०) इति ङीप् ॥ पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिषु । पर्याप्तिः सामर्थ्यम् | पुण्यं सुकृतम् । कौ भूमौ शलति । 'शल चलने' (भ्वा० प० से ० ) पचाद्यच् ( ३ | १ | १३४) । यद्वा कुश्यति । 'कुश संश्लेषणे' ( ) | कल: ( उ० १| १०६) । कुशांल्लाति वा ॥ प्रवालमरेऽप्यस्त्री सस्ये हेतुकृते फलम् । अङ्कुरे किसलये । प्रबलति । 'बल प्राणने' (भ्वा० प० (भ्वा०प० से०) । पचाद्यच् | से० ) | 'ज्वलिति - ' (३|१|२४० ) इति णः | यद्वा ण्यन्ता-