पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] अत्ययोऽतिक्रमे कृच्छ्रे दोषे दण्डेऽपि अत्ययनम् । अनेन वा । 'इण् गतौ' (अ० प० अ०) । 'एरच्' (३।३।५६) । 'अत्ययोऽतिकमे कृच्छ्रेऽत्युत्पाते ना- शदण्डयोः' इति धरणिः ॥ अथापदि । व्याख्यासुधाख्यव्याख्यासमेतः । युद्धाय त्योः संपरायः ३।५६) । मेदिनी) ॥ संपरायणम् । ‘इण् गतौ’ (अ० प० अ०) । पूर्ववत् (३॥ ‘संपरायः समीके स्यादापदुत्तरकालयोः' (इति पश्चादवस्थायिबलं समवायश्च संनयौ । संनयनम् । संनीयते वा । संनयति वा । ‘णीज् प्रापणे' ( भ्वा० उ० अ०) । 'एरच्' (३|३|५६) पचाद्यच् (३ | १ | १३४) वा ॥ पूज्यस्तु श्वशुरेऽपि च ॥ १५० ॥ पूजयितुमर्हः । 'पूज पूजायाम्' (चु०प० से ० ) । 'अर्हे मन्युर्दैन्ये क्रतौ क्रुधि ॥ १५३ ॥ मन्यते । 'मन ज्ञाने' (दि० आ० अ० ) | मृगध्वादिः कृत्यतृचश्च' (३।३।१६९) इति यत् । ‘पूज्यौ श्वशुरपूजाहौँ' ( उ० १॥३७) । 'मन्युः पुमान् क्रुषि | दैन्ये शोके च यज्ञे इति धरणिः ॥ च' (इति मेदिनी) ॥ रहस्योपस्थयोर्गुह्यम् गूहनम् । गुह्यते वा । 'गुहू संवरणे' (भ्वा० आ० से ० ) । 'शंसिदुहि -' इति क्यप् | 'गुह्यं रहस्युपस्थे च गुह्यः कम. उदम्भयोः' इति विश्वः ॥ संघाते संनिवेशे च संस्त्यायः संस्त्यानम् | 'ट्यै स्त्यै शब्दसंघातयोः' (भ्वा०प० अ० ) । घल् (३।३।१८)। ‘आतो युक्–’ (७|३|३३) । 'संस्त्ययः संनिवेशे च संघाते विस्तृतावपि ' ( इति मेदिनी) ॥ प्रणयास्त्वमी ॥ १५१ ॥ विश्रम्भयाच्ञाप्रेमाणः प्रणयनम् । ‘णीञ्’ (भ्वा० उ० अ० ) | ‘एरच्' (३|३| ५६) । 'प्रणयः प्रसरे प्रेम्णि (याच्या विश्रम्भयोरपि । निर्वा- णेऽपि’ (इति मेदिनी)। ‘विश्वम्भः स्यात्परिचये विश्वास- विप्रलम्भयोः' इत्यजयः ॥ विरोधेऽपि समुच्छ्रयः । सुष्ठु ऊर्ध्वं श्रयणम् । ‘श्रिञ् सेवायाम् ' ( भ्वा० उ० से ० ) । ‘एरच्’ (३।३।५६) । ‘वैरोन्नत्योः समुच्छ्रयः' इति रभसः ॥ विषयो यस्य यो ज्ञातस्तत्र शब्दादिकेष्वपि ॥१५२॥ विसयनम् । अत्र वा । विसिनोति वा । 'षिञ् बन्धने' ( स्वा० उ० अ०) । 'एरच्' (३|३|५६) 'पुंसि -' (३|३| ११८) इति घो वा । पचायच् (३|१|१३४) वा | 'परिनि- विभ्यः सेवसितसय–’ (८।३१७० ) इति षः । 'विषयो गो- चरे देशे तथा जनपदेऽपि च । प्रबन्धाद्यस्य यो ज्ञातस्तत्र रूपादिके पुमान्' (इति मेदिनी) ॥ निर्यासेऽपि कषायोऽस्त्री ४२३ निर्यासः क्काथः । कषति कण्ठम् । 'कष हिंसायाम्' ( भ्वा० प० से ० ) । बाहुलकादयः । 'कषायो रसमेदे स्या- दङ्गरागे विलेपने । निर्यासे च कषायोऽथ सुरभौ लोहिते- ऽन्यवत्' इति विश्वः ॥ सभायां च प्रतिश्श्रयः । प्रतिश्रयणम् । अत्र वा । 'ब्'ि (भ्वा० उ० से ० ) एर च्' (३।३।५६ ) | घः (३।३।११८) वा । 'प्रतिश्रयः सभाय चाश्रयेऽभ्युपगमेऽपि च' (इति मेदिनी) ॥ प्रायो भूयन्तगमने प्रायणम् । 'अय गतौ ' ( भ्वा० आ० से ० ) | घञ् (३॥ ३११८) । ‘इण् गतौ' (अ॰ प० से०)। ‘एरच्’ (३।३।५६) वा । 'प्रायश्वानराने मृत्यौ प्रायो बाहुल्यतुल्ययोः' इति विश्वः ॥ सत्यं शपथतथ्ययोः । ‘सत्यं कृते च शपये तथ्ये च त्रिषु तद्वति’ (इति मेदिनी) ॥ सति साधुः । 'तत्र साधु: ' (४१४१९८) इति यत् । वीर्य बले प्रभावे च वीर्यतेऽनेन । 'वीर विक्रान्तौ ' ( चु० उ० से ० ) । 'अचो यत्' (३१११९७) वीरे साधुर्वा । 'तत्र साधुः' (४|४|९८) इति यत् । 'वीर्य प्रभावे शुक्रे च तेजःसामर्थ्ययोरपि ' (इति मेदिनी) ॥ द्रव्यं भव्ये गुणाश्रये ॥ १५४ ॥ द्रोरिदम् । 'द्रव्यं च भव्ये (५|३|१०४) इति साधुः । (द्रव्यं स्याइविणे भव्ये पृथिव्यादौ च पित्तले । मेषजे च विलेपे च जतुद्रुमविशेषयोः’ इति विश्वः ॥ धिष्ण्यं स्थाने गृहे भेऽनौ विष्यते । 'घिष शब्दे' (जु०प० से ० ) वृष्णोति वा । 'चि घृषा प्रागल्भ्ये' ( स्वा०प० से ० ) । 'सानसिवर्णसि - ' ( उ० ४११०७) इति साधुः । यत्तु - 'संध्यादयश्च' इति यः - इत्युक्तं मुकुटेन । तदेतत्सूत्रास्मरणमूलकम् निर्मूलं च । धिष्ण्यं स्थानानिसद्मसु । शक्तावृक्षेपि ' ( इति मेदिनी) ॥ भाग्यं कर्म शुभाशुभम् । भज्यतेऽनेन । 'भज सेवायाम् ' ( भ्वा० उ० अ० ) । 'ऋ- १ – 'शंसिदुहिगुहिभ्यो वा' इति काशिका | तत्र 'प्रशस्यस्य थः' (५१३१६०) 'ईडवन्दवृशंसदुही ण्यतः' (६।१२।२१४) इति सूत्रद्वयबलाच्छसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् इति कौमुदी ॥ सस्माण्ण्यति संशापूर्वकत्वाद्गुणाभावः ॥