पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः । धरति | प्रियते वा । 'धृज् धारणे' ( भ्वा० उ० अ० ) 'अर्तिस्तुसु-' ( उ० १\१४०) इति मन् 'धर्मोऽस्त्री पुण्य आचारे स्वभावोपमयोः ऋतौ । अहिंसोपनिषश्याये ना धनु- र्यमसोमपे' (इति मेदिनी ) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । उपायपूर्व आरम्भ उपधा चाप्युपक्रमः ॥ १३९ ॥ उपधा उत्कोचः । उपक्रमणम् । अनेन वा । पूर्ववत् (३|३| १८,१२१,७।३।१३४) ‘उपक्रमः स्यादुपधाचिकित्सारम्भ- विक्रमे' इति विश्वः ॥ वणिक्पथः पुरं वेदो निगमाः निगम्यते । अनेन वा । 'गोचरसंचर-' (३।३।११९) इति साधुः । ‘निगमो वाणिजे पुर्यां कटे वेदे पणिक्पथे' इति विश्वः ॥ नागरी वणिक् । नैगमो द्वौ निगमे भवः। ‘तत्र भवः' ( ४ | ३|५३) इत्यण् । 'नैगमः स्यादुपनिषद्वणिजोर्नागरेऽपि च' इति विश्वः ॥ बले रामो नीलचारुसिते त्रिषु ॥ १४० ॥ रमते । अनेन वा । 'रमु क्रीडायाम्' ( भ्वा० आ० अ० ) ‘ज्वलितिकसन्तेभ्यो णः’ (३।१।१४०) 'हलच' (३।३।१२१) इति घन् वा । 'रामः पशुविशेषे स्याज्जामदये हलायुधे । राघवे च सितश्वेतमनोज्ञेषु च वाच्यवत्' इति विश्वः ॥ शब्दादिपूर्वी वृन्देऽपि ग्रामः ग्रसते | ग्रस्यते वा । ‘ग्रसु अदने' ( भ्वा० अ० से० ) ‘ग्रसेरा च' ( उ० १।१४३) इति मः | 'ग्रामः खरे संवसथे वृन्दे शब्दादिपूर्वकः' इति विश्वः ॥ क्रान्तौ च विक्रमः । विक्रमणम् । अनेन वा । घञ् (३।३।१८, १२१) । 'विक्र- मः शक्तिसंपत्तिः क्रान्तिमात्रं च विक्रमः' इति धरणिः ॥ स्तोमः स्तोत्रेऽध्वरे वृन्दे स्तूयते । अनेन वा । ‘टुञ् स्तुतौ' ( अ० उ० अ० ) । 'अर्तिस्तुसु - ' ( उ० १।१४० ) इति मन् ॥ जिह्नस्तु कुटिलेऽलसे ॥ १४१ ॥ जहाति । हीयते वा । 'ओहाक् त्यागे' (जु० अ० अ० ) । 'जहाते: सन्वदालोपश्च' ( उ० ११४१) इति मन् ॥ गुल्मा रुकुस्तम्बसेनाश्च गुज्यते । 'गुड वेष्टने' रक्षणे ( तु०प० से० ) बाहुलका- १ – द्वाविति ब्राह्मणस्य नैगमत्त्रे निषेधः - इति स्वामी ॥ - 'द्रौ' इत्युक्तैरुपनिषद्भाह्मणयोर्नायम्, इत्येके - इति पीयूषव्याख्या ॥ ४२१ न्मक् । उलयोरेकत्वम् । 'गुल्मः स्तम्बे लोहि घट्टसैन्ययोः सैन्यरक्षणे' इति विश्वः । रुग् उदररोगः | स्तम्बोऽप्रकाण्डः ॥ जामिः स्वसृकुलस्त्रियोः । जायति । जायते वा । 'जै क्षये' ( भ्वा० प० अ० ) । बाहुलकान्मिः । यद्वा 'जमु अदने' (भ्वा०प० से ० ) । बाहुल- कादिण् दीर्घश्च । कर्मणि 'इनजादिभ्यः' (वा० ३।३।१०८ ) इतीज् वा - इति खामी | 'जिह्मस्तु कुटिले मन्दे जामिः खसृकुलस्त्रियोः' इति चवर्गादावजयः ॥ मुकुटस्तु — प्रहरे समये यामो यामिः स्वस्रकुलस्त्रियोः इति रभसादन्तस्थादितामाह | 'यामिः कुलस्त्रीस्खस्रोः स्त्री ( इति मेदिनी) । तत्र 'या प्रापणे' ( अ० प० अ० ) धातु- बोध्यः ॥ क्षितिक्षान्त्योः क्षमा युक्ते क्षमं शक्ते हिते त्रिषु १४९ क्षमणम् । ‘क्षमूष् सहने’ ( भ्वा० आ० से ० ) । वित्त्वाद् (३।३।१०४) अङ् । क्षमते | क्षम्यते वा । पचायच् (३ ॥१॥ १३४) । घञ् (३।३।१९) वा । 'नोदात्तोपदेशस्य - ' ( ७॥३॥ ३४) इति न वृद्धिः । 'क्षमा तितिक्षा पृथ्वी च योग्ये शक्ते हिते क्षमम्' इति धरणिः ॥ त्रिषु श्यामौ हरित्कृष्णौ श्यामा स्याच्छारिवानिशा | श्यायते । 'श्यैङ् गतौ' (भ्वा० आ० अ० ) । 'इषुयुधीन्धि- ( उ० ११४५ ) इति मक् । 'श्यामो वटे प्रयागस्य वारिदे वृद्धदारके । पिके च कृष्णहरिते पुंसि स्यात्तद्वति त्रिषु । मरि- चे सिन्धुलवणे क्लीबं स्त्री शारिवौषधौ । अप्रसूताङ्गनायां च प्रियज्ञावपि चोच्यते । यमुनायां त्रियामायां कृष्णत्रिवृतिकौ - षधौ ।' नीलिकायाम् – 'अथ श्रामो मासे मण्डपकालयोः' (इति मेदिनी) ॥ ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु ॥ १४३ ॥ लडनम् । 'लड बाल्ये (विलासे ) ( भ्वा०प० से ० ) । संपदादिक्विप् (बा० ३।३।१०८ ) | डलयोरेकलम् । ललम- मति । 'अमगत्यादौ' ( भ्वा० प० से ० ) । 'कर्मण्यण्' (३|२| १) ॥ ॥ बाहुलकात्कनिनि नान्तोऽपि । 'प्रधानध्वजशृङ्गेषु च' इति रुद्रः । पुण्ड्रमश्वादीनां ललाटचित्रम् । अश्वो बाजी । पुण्ड्रवालघिलक्ष्मसु । भूषावाजिप्रभावेषु ललामं स्याल्ललाम भूषा सामीप्यादश्वस्यैव ॥ सूक्ष्ममध्यात्ममपि सूच्यते । 'सूच पैशून्ये' ( चु० उ० से० ) । 'सूचेः स्मन्' (उ० ४२१७७) । 'सूक्ष्मं स्यात्कैत वेऽध्यात्मे पुंसग्नौ त्रिषु १ – युक्ते मान्तमव्ययम् इत्येके शक्तहितयोस्त्रिषु । क्षमः, क्षमा | इति पीयूषव्याख्या ॥ २ - इत उत्तरं श्रामशब्दार्थ कथनेन प्रकृतानु- पयुक्तम् ॥ ३ - यथा 'कन्याललाम कमनीयमजस्य लिप्सोः' इति रघुः - इति स्वामिमुकुटौ ॥