पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्गः ३ ] व्यञ्जनं लाञ्छनश्मश्रुनिष्ठानावयवेष्यपि । व्यज्यते । अनेन वा । ल्युट् (३३ (११३, ११७) | 'व्य ञ्जनं तेमने चिह्ने श्मश्रुण्यवयवेऽपि च ' ( इति मेदिनी) । नि- ष्ठानं तेमनम् ॥ 1 व्याख्यासुधाख्यव्याख्यासमेतः । स्यात्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम् १९६ कुलीन कर्म भावो वा । युवाद्यण् (५॥१॥१३०) । 'कौलीनं पशुभिर्युद्धे कुलीनत्वापवादयोः' इति धरणिः ॥ स्यादुद्यानं निःसरणे वनभेदे प्रयोजने । उद्यात्यनेन । अस्मिन् वा । ' या प्रापणे' ( अ० प० अ० ) । 'करणा-' (३।३।११७) इति ल्युट् । 'उद्यानं वनभेदे स्यान्निःसृतौ च प्रयोजने' इति धरणिः ॥ अवकाशे स्थितौ स्थानम् स्थीयतेऽत्र | अधिकरणे (३।३।११७) भावे (३।३।११५) च ल्युट् । 'स्थानं सादृश्येऽवकाशे स्थितौ वृद्धिक्षयेतरे' ( इति मेदिनी) ॥ क्रीडादावपि देवनम् ॥ ११७ ॥ दीव्यतेऽनेन । 'दिवु क्रीडादौ ' (दि० प० से ० ) । भावक- रणादौ ल्युट् । 'देवनं व्यवहारे स्याजिगीषाक्रीडयोरपि । अक्षेषु देवनः प्रोक्तः' इति विश्वः ॥ ४१७ पापे विपत्तौ निष्फलोद्यमे' इति विश्वः ( मेदिनी) । कामजे दोषे मृगयाक्षपानादौ । कोपजे वाक्पारुष्यदण्डपारुण्यार्थ- दूषणादौ ॥ पक्ष्माक्षिलोम्नि किंजल्के तन्त्वाद्यंशेऽप्यणीयसि | पक्ष्यते । अनेन वा । ‘पक्ष परिग्रहे' (भ्वा०प० से० ) कर्मकरणादौ मनिन (उ० ४१४५) । 'पक्ष्म सूत्रादिसूक्ष्मांशे किंजल्के नेत्रलोमनि' इति विश्वः ॥ तिथिभेदे क्षणे पर्व पर्वति पर्व्यते वा । 'पर्व पूरणे' (भ्वा० प० से ० ) । बाहुलकात्कनिन् । 'पर्व स्यादुत्सवे ग्रन्थौ प्रस्तावे विषुवा- दिषु । दर्शप्रतिपदोः संधौ स्यात्तिथेः पञ्चकान्तरे' इति धरणिः ॥ १ - भाव विग्रह प्रदर्शन मेतत् अमर० ५३ वर्त्म नेत्रच्छदेऽध्वनि ॥ १२१ ॥ वर्तते । अनेन । अस्मिन् वा । 'वृतु वर्तने' (भ्वा० आ० से० ) । मनिन् ( उ० ४।१४५ ) ॥ अकार्यगुह्ये कौपीनम् कूपपतनमर्हति । 'शालीनकौपीने अधृष्टाकार्ययोः' (५॥२॥ २०) इति साधुः । 'कौपीनं स्यादकार्येऽपि चीरगुह्यप्रदेशयोः' इति विश्वः ॥ उत्थानं पौरुषे तन्त्रे संनिविष्टोद्गमेऽपि च । 'उत्थानमुद्यते तन्त्रे पौरुषे पुस्तके रणे ।' ('प्राङ्गणो- द्गमहर्षेषु मलवेगेऽपि न द्वयोः ) ( इति मेदिनी ) । 'तन्त्रं कुटुम्बकृत्ये स्यात्सिद्धान्ते चौषधोत्तमे । प्रधाने तन्तुवाने च शास्त्रभेदे परिच्छदे । श्रुतिशाखान्तरे हेतावुभयार्थप्रयोजके' ( इति मेदिनी) ॥ ब्युत्थानं प्रतिरोधे च विरोधाचरणेऽपि च ॥ ११८॥ ( इति मेदिनी) ॥ विरुद्धमुत्थानम् । 'प्रादयो गता -' (वा० २।२।१८) इति समासः । 'स्वतन्त्रता च व्युत्थानम्' इति त्रिकाण्डशेषः ॥ मारणे मृतसंस्कारे गतौ द्रव्योपपादने । निर्वर्तनोपकरणानुव्रज्यासु च साधनम् ॥ ११९ ॥ ‘षाध संसिद्धौ ' ( खा०प० से०) । भावकर्मकरणादौ ल्युट् | | दीर्घश्च' ( उ० ३।१३) इति नः ॥ 'साधनं मृतसंस्कारे सैन्ये सिद्धौषधे गतौ । निर्वर्तनोपायमेढ- दापनेऽनुगमे धने' (इति मेदिनी) । उपकरणं साधनसामग्री || निर्यातनं वैरशुद्धौ दाने न्यासार्पणेऽपि च । ‘यत निकारादौ ' ( चु० उ० से० ) स्वार्थण्यन्तः | भावादौ ल्युट् ॥ व्यसनं विपदि भ्रंशे दोषे कामजकोपजे ॥ १२० ॥ वैयस्तिः । ‘असु क्षेपणे' (दि० प० से ० ) । भावादौ ल्युट् । 'व्यसनं त्वशुभे सक्तौ पानस्त्रीमृगयादिषु । दैवानिष्टफले मैथुनं संगतौ रते । ‘संबन्धे सुरते युग्मे राशौ मिथुनमिष्यते' इति व्याडिः ॥ मिथुनमेव । प्रज्ञाद्यण् (५|४|३८) | मिथुनस्येदं वा । प्रधानं परमात्मा धीः प्रधत्ते, धीयतेऽनेन । अस्मिन् वा । 'डधान्' कर्तृकर णादौ ल्युट्' (३।३।११३,११७) । प्रधानं स्यान्महामात्रे प्रकृतौ परमात्मनि । प्रज्ञायामपि च क्लीवमेकत्वे तूत्तमे सदा ' प्रज्ञानं बुद्धिचिह्नयोः ॥ १२२ ॥ प्रज्ञायते । अनेन वादौ ल्युद (३।३।११३,११५, ११७) ॥ प्रसूनं पुष्पफलयोः प्रसूयते । 'पुज् अभिषवे' ( स्वा० उ० अ० ) । 'सुनो निधनं कुलानाशयोः । निधानम् । निधीयतेऽत्र वा । 'कृपवृजि - ' ( उ० २१८१) इति क्युः ॥ क्रन्दने रोदनाहाने 'ऋदि आह्वाने रोदने च' (भ्वा० प० से ० ) | भावे ( ३ | (३।११५) ल्युट् ॥ वर्ष्म देहप्रमाणयोः ॥ १२३ ॥ वर्षति । वृष्यते वा । 'वृषु सेचने' (भ्वा०प० से ० ) । मनिन् ( उ० ४१४५) । 'वर्ष्म देहप्रमाणातिसुन्दराकृतिषु स्मृतम्' ( इति मेदिनी ॥