सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । ( उ० २१४७) इतीनन् । 'वृजिनं कल्मषे क्लीवं केशे ना कु- टिले त्रिषु' इति रभसः ॥ विश्वकर्मार्कसुरशिल्पिनोः । विश्वं कर्मास्मात् अस्य, वा । 'विश्वकर्मा सहस्रांशौ मुनिभिद्देवशिल्पिनोः' (इति मेदिनी) ॥ आत्मा यतो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्ष्म च १०९ अतति 'अत सातत्यगमने' (भ्वा०प० से०) 'सातिभ्यां मनिन्मनिणौ' (उ० ४।१५३) । 'आत्मा कलेवरे यत्ने स्त्र. भावे परमात्मनि । चित्ते भृतौ च बुद्धौ च परव्यावर्तनेऽपि च' इति धरणिः ॥ शको धातुकमत्तेभो वर्षुकाब्दो घनाघनः | हन्ति । 'हन हिंसागत्योः' (अ० प० अ०) 'हन्तेर्धश्च' ( वा ० ६।१।१२) इति पचाद्यचि द्वित्वम्, आक् चाभ्यासस्य | 'अन्योन्यघट्टने चैव घातुके च घनाघनः' इति धरणिः ॥ अभिमानोऽर्थादिदर्पेऽज्ञाने प्रणयहिंसयोः ॥ ११० ॥ सवनम् । सूयते वा । 'षूङ् प्राणिगर्भविमोचने' ( अ ० आ० से०) । भावे (३।३।११४) कर्मणि (३।३।१०२ वा० ) क्तः । ‘स्वादय ओदितः' (दि० ग०) इति (ओदित्त्वात् 'ओ- अभिमननम् । ‘मन ज्ञाने’ (दि० आ० अ०) । घञ् (३ | दितश्च' (८/२/४५) इति निष्ठानत्वम् ) | 'सुनाख्या ३।१८)। ‘मीञ् हिंसायाम्' (ॠया० उ० अ० ) । भावे ल्युट् | पुष्पे जिह्वातले वधालये' इत्यजयः । ' ( सूनं प्रसवपुष्पयोः) । (३।३।११५) । ‘मीनाति–’ (६|१९५०) इत्यात्वम् । आदिना | सूना पुत्र्यां वधस्थानगलशुण्डिकयोरपि ' (इति विश्वः) ॥ कुलपशुगुणादिग्रहः ॥ ऋतुविस्तारयोरस्त्री वितानं त्रिषु तुच्छके ॥ ११३ ॥ मन्दे वितननम् | वितन्यते वा । घञ् (३१३११८, १९) । ‘वि- तानो यज्ञविस्तारोलोचेषु ऋतुकर्मणि । वृत्तभेदावरयोर्विनं तुच्छमन्दयोः' इति विश्व: । 'वितानो यज्ञ उल्लोचे विस्तारे पुंनपुंसकम् । क्लीवं वृत्तविशेषे स्यात्रिलिङ्गो मन्दतुच्छयो: ' ( इति मेदिनी) मन्दे मूढे ॥ घनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे | • हननम् । हन्यते वा । 'मूर्ती घनः' (३।३।७७) इत्यप् । 'घनं सान्द्रं धनं वाद्यं घनो मुस्तो घनोऽम्बुदः । घनः | काठिन्यसंघातो विस्तारो लोहमुद्गरौ' इति धरणिः । मूर्तिगुणे काठिन्ये ॥ इनः सूर्ये प्रभौ एति । ईयते वा । 'इसिजि - ' ( उ० ३१२) इति नक् ॥ राजा मृगाङ्के क्षत्रिये नृपे ॥ १११ ॥ 4 राजति । 'राजू दीप्तौ' ( भ्वा० उ० से ० ) 'कनिन् युध्- षि–’ (उ० १।१५६) इति कनिन् । 'राजा प्रभौ च नृपतौ | क्षत्रिये रजनीपतौ । यक्षे शके च पुंसि स्यात्' (इति मेदिनी) ॥ बाणिन्यौ नर्तकीदूत्यौ अवश्यं वणति । 'वण शब्दे' (भ्वा०प० से ० ) । 'आव इयका -' (३।३।२७०) इति, ग्रह्मादित्वात् (३|१|१३४) वाणिनिः । वबयोरैक्यम् । 'बाणिनिर्नर्तकीमत्ताविदग्धव- नितासु च ' ( इति मेदिनी ) ॥ [ तृतीय काण्डम् हादिन्यौ वज्रतडितौ हादतेऽवश्यम् । 'ह्लाद अव्यक्ते शब्दे' (भ्वा० आ० से ० ) 'आवश्यका-' (३।३।१७०) इति णिनिः ॥ वन्दायामपि कामिनी ॥ ११२ ॥ अवश्यं काम्यते । ‘कमु कान्तौ ' ( भ्वा० आ० से ० ) । पूर्ववत् ( ३|३|१७० ) णिनिः । 'कामिनी भीरुवन्दयोः । कामी तु कामुके चक्रवाके पारावतेऽपि च ' ( इति मेदिनी) वन्दा वृक्षे विजातीयप्ररोहः ॥ त्वग्देहयोरपि तनुः तनोति, तन्यते वा । 'तनु विस्तारे' ( त ० उ० से ० ) । ‘भृमृशी-’ (उ० १।७) इत्युः । 'तनुः काये त्वचि स्त्री स्या- त्रिवल्पे विरले कृशे' (इति मेदिनी ) ॥ सूनाघोजिह्निकापि च । स्रवन्त्यामपि वाहिनी । - वहति । प्रह्यादि (३।१।१३४ ) णिनिः | 'वाहिनी स्या- त्तरङ्गिण्यां सेनासैन्यप्रभेदयोः' इति विश्वः ॥ १ – वाणिनीशब्दो मेदिन्यां पवर्गीयादौ पठितः । हैमे अन्तस्थादौ पठितः ॥ एवं वाहिनीशब्दोऽपि ॥ तु अथ केतनं कृत्ये केतावुपनिमन्त्रणे । 'कित निवासादौ ' ( भ्वा० प० से०) | भावकर्मकरणाधि करणेषु ल्युट् । 'केतनं तु ध्वजे कार्ये निमन्त्रण निवासयोः' इत्यजयः ॥ वेदास्तत्त्वं तपो ब्रह्म ब्रह्मा विप्रः प्रजापतिः ॥ ११४ ॥ बृहति । ‘वृहि वृद्धौ ‘(भ्वा०प० से ० ) । 'बृंहेर्नोऽच्च' ( उ० ४२१४६) इति मनिन् । 'ब्रह्म तत्त्वत्तपोवेदे न द्वयोः पुंसि वेधसि | ऋत्विग्योगभिदोर्विप्रे' (इति मेदिनी) ॥ उत्साहने च हिंसायां सूचने चापि गन्धनम् । 'गन्ध मर्दने' ( चु० आ० से०) । भावादौ ल्युट् । 'ग- न्धनं सूचनोत्साह हिंसनेषु प्रकाशने' इति विश्वः ॥ आतञ्चनं प्रतीवापजवनाप्यायनाजकम् ॥ ११५ ॥ 'तनु गतौ ' ( भ्वा०प० से ० ) | ल्युट् ( ३ | ३ | ११४ ) । प्र• तीवापो दुग्धादौ दध्यादिभावार्थे तक्रादिप्रक्षेपः, निक्षेपो वा । जवनं वेगः | आप्यायनं तर्पणम् ॥