४१८ अमरकोषः । गृहदेहत्विट्रप्रभावा धामानि दधाति । धीयते वा । 'डधान्' ( जु० उ० अ० ) | मनिन् (उ० ४।१४५)। ‘धाम शक्तौ प्रभावे च तेजोमन्दिरजन्मसु' इति विश्वः ॥ अथ चतुष्पथे । संनिवेशे च संस्थानम् संस्थीयतेऽत्र । अनेन वा । संस्थितिर्वा | भावाधिकरणादौ ल्युट् (३।३।११५,११७) । 'संस्थानमाकृतौ मृत्यौ संनि- वेशे चतुष्पथे' (इति मेदिनी) ॥ लक्ष्म चिह्नप्रधानयोः ॥ १२४ ॥ लक्ष्यते । अनेन वा । ‘लक्ष दर्शने' (चु० आ० से ० ) । मनिन् (उ० ४॥१॥४५) ॥ आच्छादनं संपिधानमपवारणमित्युभे । आच्छाद्यतेऽनेन । 'छद अपवारणे चुरादिः । करणे (३। ३।११७) भावे (३।३।११५) वा ल्युट् । 'आच्छादनं संपि- घाने वस्त्रेऽपवृतिमात्र के' इति धरणिः ॥ आराधनं साधने स्यादवाप्सौ तोषणेऽपि च ॥१२५॥ आराध्यतेऽनेन । 'राध संसिद्धौ' ( स्वा०प० अ०) । भावादौ ल्युट् (३।३।११५,११७) अधिष्ठानं चक्रपुरप्रभावाध्यासनेष्वपि । अघिष्ठीयते । अनेन वा । भावादौ ल्युट् (३|३|११५ ११७)। ‘अघिष्टानं रथस्याङ्गे प्रभावेऽध्यासने पुरे' इत्यजयः ॥ रत्नं स्वजातिश्रेष्टेsपि । रमयति । 'रमु क्रीडायाम्' (भ्वा० आ० अ०) ण्यन्तः । अन्तर्भावितण्यर्थो वा, रमन्तेऽस्मिन् वा । 'रमेस्त च' (उ० ३।१४) इति नः। ‘नेड् वशि - ' (७७२१८) इति नेट | ‘णेर- निटि–’ (६।४।५१)। ‘रत्नं खजातिश्रेष्ठेऽपि मणावपि नपुंस- कम्' ( इति मेदिनी) ॥ वने सलिलकानने ॥ १२६ ॥ वन्यते । 'वन संभक्तौ' ( भ्वा० प० से ० ) | 'वनु याचने' (त० उ० से०) वा । ‘हैलश्च' (३|३|१२१) इति घन् । संज्ञापूर्वकत्वान्न वृद्धिः । कर्तरि पचायच् (३|१|१३४) वा । ‘क्लीबं स्यात्, कानने नीरे निवासे निलये वनम्' इति रभसः ॥ तलिनं विरले तोके तलति । तल्यते वा । 'तल प्रतिष्ठायाम् ( भ्वा०प० से ० ) । ‘तॆलिपुलिभ्यामिनन्’ (उ० २।५३) । 'तलिनं विरले स्तोके स्वच्छेऽपि वाच्यलिङ्गकम्' (इति मेदिनी) ॥ 1 १ - अस्य सूत्रस्य 'करणाधिकरणयोः' इत्यधिकारस्थत्वेनात्रोप- न्यासो निष्फलः कर्मणि विगृहीतत्वात् ॥ तस्मात् 'अकर्तरि (३|३| १९) इत्येव न्याय्यम् ॥ २ - आधुनिकपुस्तकेषु तु 'तलिपुलिभ्यां च ' इत्येव पाठ उपलभ्यते ॥ [ तृतीयं काण्डम् वाच्य लिङ्गास्तथोत्तरे | तथा तलिनवत् । उत्तरे आनान्तात् ॥ समानाः सत्समैके स्युः समति । ‘षम वैक्लव्ये' (भ्वा०प० से०) । 'ताच्छील्यवयो- वचनशक्तिषु चानश्' (३।२।१२९) । 'आगमशासनम नित्यम्' इति मुग् न । सह मानेन वर्तते, इति वा । 'समानं सत्समै- केषु त्रिषु, ना नाभिमारुते’ (इति मेदिनी) ॥ पिशुनौ खलसूचकौ ॥ १२७ ॥ पिंशति । 'पिश अवयवे' ( तु०प० से ० ) । 'क्षुधिपिशिमि थिभ्यः कित्' (उ० ३१५५) इत्युनन् । 'पिशुनं कुङ्कुमेऽपि च । कपिवक्रे च काके ना सूचकक्रूरयस्त्रिषु | पृक्कायां पिशुना स्त्री स्यात्' (इति मेदिनी) ॥ |हीनन्यूनावूनगर्छौ 'आदिकर्मणि तः' (३।४।७१) । कर्मणि (३।२।१०२) वा । जहाति । हीयते स्म वा । 'ओहाक् त्यागे' (जु०प०अ०) । 'ओदितश्च' (८/२९४५) इति नत्वम् । 'हीनं गर्मोनयोस्त्रिषु' ( इति मेदिनी) ॥ न्यूनयति । न्यून्यते स्म वा । 'ऊन परिहाणे' (चु० उ० से० ) । पचायच् (३।१।१३४) | घञ् (३।३।१९) वा । तन्न । चुरादिण्यन्तत्वेन अदन्तत्वेन चेगुपधत्वाभावात्। 'न्यूनं यत्तु-‘इगुपध-’ (३।१।१३५ ) इति कः - इति मुकुटेनोक्तम् । गर्ह्यानयोः’ (इति मेदिनी) ॥ वेगिरौ तरस्विनौ । तरो बलं जवो वास्यास्ति । 'अस्माया' (५|२|१२१) इति विनिः ॥ अभिपन्नोऽपराद्धोऽभिग्रस्तव्यापद्वता अपि ॥ १२८ ॥ अभिपद्यते स्म । 'गत्यर्था-' (३।४।७२) इति तः । विपद्धते' इति विश्वः ॥ कर्मणि (३|२|१०२) वा । 'अभिपन्नोऽपराद्धेऽभिद्रुते ग्रस्ते इति नान्ताः ॥ कलापो भूषणे वर्हे तूणीरे संहतेऽपि च । (३|२|१) कला आप्यतेऽनेन वा । 'हलच' (३|३|१२१) कलमाप्नोति । 'आप व्याप्तौ' (स्वा० प० अ०) 'कर्मण्यण् इति घन् । 'कलापः संहतौ बर्हे काकयां भूषणतूणयोः' इत्यजयः । ('चन्द्रे विदग्धे व्याकरणमेदेऽपि कथ्यते बुधैः' इति मेदिन्यां विशेषः) ॥ परिच्छदे परीवापः पर्युप्तौ सलिलस्थितौ ॥ १२९ ॥ परिवपनम् । अनेन । अत्र वा 'डुवप् बीजतन्तुसंताने' (स्वा० उ० अ०) । 'भावे घञ्' (३ | ३ | १८ ) । 'हलच' १ – अत्र 'स्म' इत्युपन्यासोऽसंगतः । घजो भूताधिकारे विधा नाभावात् ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२७
दिखावट