पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] विन्देः संज्ञायाम्' (३।१।१३८ ) इति शः | 'गोविन्दो वासु- देवे स्याद्गवाध्यक्षे बृहस्पतौ' (इति मेदिनी) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । । हर्षेऽण्यामोदवन्मदः ॥९१॥ आमोदनम् । आमोदयति वा । 'मुद हर्षे' ( भ्वा० आ० से ० ) स्वार्थण्यन्तः । घञ् (३|३|१८ ) | पचायच् (३।१। १३४) वा । 'आभोदो गन्धहर्षयोः' (इति मेदिनी) । मद- नम् । अनेन वा । 'मदी हर्षे' ( दि०प० से ० ) । 'मदोऽनु- पसर्गे’ (३।३।६७) इल्यप् । 'मदो रेतसि कस्तूर्या गर्ने हर्षेभ- दानयोः' (इति विश्व:) ॥ प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदोऽस्त्रियाम् । कं सुख कौति । 'कु शब्दे' (अ०प० अ० ) । विप् (३ | २।७६)। तुक् (६।१।७१) | पृषोदरादिः (६।३।१०९) 'क- कुद्धत् ककुदं श्रेष्ठे वृषाङ्गे राजलक्ष्मणि' इति विश्वः । प्रा- धान्ये खार्थे व्यञ् (वा० ५।१।१२४) ॥ स्त्री संविज्ज्ञानसंभाषाक्रियाका राजिनामसु ॥ ९२ ॥ संवेदनम् । संविद्यतेऽनया वा । 'विद ज्ञाने' ( अ० प० से०)। ‘विद चेतनादौ च’ (चु० आ० से ० ) | संपदादिक्किप् ( वा० ३।३।१०८ ) | 'संवित् स्त्रियां प्रतिज्ञायामाचारे ज्ञान- संगरे । संभाषणे क्रियाकारे संकेते नाम्नि तोषणे' ( इति मेदि- नी) । क्रियायाः कारो नियमः पणबन्धो वा, आजिर्युद्धम् ॥ धर्मे रहस्युपनिषत् उपनिषदनम् । उपनिषीदति श्रेयोऽस्यां वा । 'क विशर णादौ ' ( भ्वा०प० अ० ) | संपदादिः (वा० (३|३|१०८ ) । 'भवेदुपनिषद्धर्मे वेदान्ते विजने स्त्रियाम् ' ( इति मेदिनी) ॥ स्यादृतौ वत्सरे शरत् । प्रतिष्ठाकृत्यमास्पदम् । आपद्यतेऽस्मिन् । 'आस्पदं प्रतिष्ठायाम् (६।१।१४६ ) इति साधुः । 'आस्पदं पदकृत्ययो: ' ( इति मेदिनी ) ॥ त्रिषु आदान्तात् ॥ ४१३ इष्टमधुरौ स्वादू स्वदते । 'ध्वद आस्वादने' ( स्वा० आ० से ० ) । 'कृवा- पा-' ( उ० १1१ ) इत्युण् । 'स्वादु मिष्टमनोज्ञयोः' (इति मेदिनी) ॥ मृदू चातीक्ष्णकोमलौ ॥ ९४ ॥ प्रद्यते । ‘म्रद मर्दने' ( भ्वा० आ० से ० ) | 'प्रथिम्रदि-' ( उ० ११२८) इति कुः संप्रसारणं च ॥ मूढाल्पापटुनिर्भाग्या मन्दाः स्युः मन्दते । 'मदि स्तुत्यादौ ' ( भ्वा० आ० से ० ) | पचाद्यच् (३।१।१३४) | 'मन्दोऽतीक्ष्णे च मूर्खे च खैरे चाभाग्यरो गिणोः । अल्पे च त्रिषु पुंसि स्याद्धस्तिजात्यन्तरे शनौ' ( इति मेदिनी) ॥ द्वौ तु शारदौ । प्रत्यप्राप्रतिभौ शरदि भवः । 'संधिवेला -' (४|३|१६) इत्यण् । 'शार- दोऽब्दे स्त्रियां तोयपिप्पली सप्तपर्णयोः । शस्ये क्लीबं शरज्जा • तनूतनाप्रतिभे त्रिषु' (इति मेदिनी ) ॥ विद्वत्सुप्रगल्भौ विशारदौ ॥ ९५ ॥ विशिष्टो विपरीतो वा शारदः । 'प्रादयो गता -' (वा० २ | २|१८ ) इति समासः । 'विशारदः पण्ड़िते च धृष्टे' ( इति ॥ शृणाति । 'शू हिंसायाम् ( क्या०प० से ० ) । 'शुभसो- इदि: ' ( उ० १ | १३०) 'शरत् स्त्री वत्सरेऽप्यृतौ' (इति मेदिनी) ॥ व्यामो वटश्च न्यग्रोधौ पदं व्यवसितित्राणस्थानलक्ष्माद्भिवस्तुषु ॥ ९३ ॥ पदति । पद स्थैर्ये ( न्यक् रुणद्धि । ‘रुधिर् आवरणे' (रु० उ० अ०) 'क र्मण्यण् ' ( ३|२|१ ) | 'न्यग्रोधो व्यामवटयोर्न्यग्रोधश्च शमी- ) । पद्यति वा । ‘पद | तरौ' (इति विश्वः) | गतौ ' ( दि० आ० अ० ) | पचाद्यच् (३।१।१३४) । भावक- र्मकरणेषु वा घन् । संज्ञापूर्वकत्वाद्वृद्ध्यभावः | 'पदं शब्दे च वाक्ये च व्यवसायापदेशयोः । पादतच्चिह्नयोः स्थानत्राणयोर- ववस्तुनोः’ इति विश्वः । ‘श्लोकपादेऽपि च क्लीबं पुंलिङ्गः किरणे पुनः' (इति मेदिन्यां विशेषः) ॥ गोष्पदं सेविते माने गोः पदम् । ‘गोष्पदं सेवितासेवित - ' (६।१।१४५) इति साधुः । 'गोष्पदं गोपदे श्वभ्रे गवां च गतिगोचरे' इति विश्वः (मेदिनी) ॥ १ - 'स्त्री' इति संविदुपनिषच्छरद्भिः संबध्यते - इति मुकुटः ॥ इति दान्ताः ॥ उत्सेधः काय उन्नतिः । उत्सेधनम् । अनेन वा । 'षिधु गत्याम्' (भ्वा०प० से ० ) । घञ् (३।३।१८,१९) ॥ पर्याहारश्च मार्गश्च विवधौ वीवधौ च तौ ॥९६ ॥ । विविधो वधो हननं गमनं वा । अनेन वा । 'प्रादिभ्यो धातुजस्य -' (वा० २१ २२४) इति समासोत्तरपदलोपौ । ‘अन्येषामपि -' (६|३|१३७) इति वा दीर्घः । 'विवधो वीवधश्चापि पर्याहारेऽध्वभारयोः' इति विश्वः | परित आ- हियतेऽनेन । पर्याहार उभयतोबद्धशिक्यं स्कन्धवाह्यं काष्ठं 'कावडी' इति ख्यातम् । यत्तु - 'उपसर्गस्य -' (६॥३॥