पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] ‘गल्यर्था-’ (३।४।७२) इति तः । कर्मणि ( ३ | २ | १०२) वा क्तः । 'रक्तोऽनुरक्ते नील्यादिरजिते लोहिते त्रिषु । क्लीबं तु कुङ्कुमे ताम्रे प्राचीनामलकेऽसृजि' (इति मेदिनी) ॥ अवदातः सिते पीते शुद्धे अवदायते स्म । 'दैप् शोधने' (भ्वा०प० अ० ) । क्तः ( ३।२।१०२) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । कृत्रिमे लक्षणोपेते ऽपि अथ संस्कृतम् । संस्क्रियते स्म । ‘संस्कृतः कृत्रिमे शस्ते भूषितेऽप्यन्य- लिङ्गकः । क्लीबं तु लक्षणोपेते' ( इति मेदिनी) । लक्षणेन उ- पेते पाणिन्यादिसूत्रव्युत्पादिते ॥ बद्धार्जुनौ सितौ ॥ ८० ॥ सीयते स्म । 'षिज् बन्धने' (स्वा० उ० अ०) । क्तः ( ३ | २ | १०२ ) । 'सितमवसिते च बद्धे धवले त्रिषु शर्करायां स्त्री ' ( इति मेदिनी) ॥ युक्तेऽतिसंस्कृते मर्षिण्यभिनीतः शिती धवलमेचकौ । शीयते । शिनोति स्म वा । 'शिज् निशाने' ( स्वा० उ० अभिनीयते स्म । ‘णीज्' (भ्वा० उ० अ०) क्तः (३२ | अ०) । क्तिन् (३।३।९४) । क्तिच् (३।३।१७४) वा । २नि- १०२ ) | मर्षिणि क्षन्तरि ॥ शितेऽपि, शितिर्भूर्जे ना सितामितयोस्त्रिषु ' ( इति मेदिनी) ॥ सत्ये साधौ विद्यमाने प्रशस्तेऽभ्यर्हिते च सत् ८३ अभिजातस्तु कुलजे बुधे । अभिजायते स्म । 'गत्यर्था-' (३।४।७२) इति तः । 'अभिजात: कुलीने स्यान्याय्यपण्डितयोस्त्रिषु' इति मेदि- नी) । बुधे पण्डिते ॥ विविक्तौ पुतविजनौ • विविज्यते स्म । 'विजिर् पृथग्भावे' ( जु० उ० अ० ) । क्तः (३॥२॥१०२) 'विचिर विरेचने ( पृथग्भावे ) ( रु० उ० अ० ) वा । 'विविक्तं त्रिष्वसंपृक्ते रहःपूत विवेकिषु’ ( इति मेदिनी) ॥ । 'गत्यर्था-' (३।४।७१) इति क्तः 'मूर्त स्यात्रिषु मूर्च्छाले कठिने मूर्तिमयपि ' ( इति मेदिनी) । ('मूर्चिछतमपि सोच्छ्रये च मूढे च' ( इति मेदिनी) ॥ द्वौ चाम्लपरुषौ शुक्तौ अनन्तोऽनवधावपि ॥ ८१ ॥ न अन्तोऽस्य । 'अनन्तः केशवे शेषे पुमान्निरवधौ त्रिषु । अनन्ता च विशल्यायां शारिवादूर्वयोरपि । कणादुरालभाष- थ्यापार्वल्यामलकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुर- वर्त्मनि' (इति मेदिनी) ॥ ख्याते हृष्टे प्रतीतः प्रतीयते स्म । ‘इण् गतौ’ (अ० प० अ०) । क्तः (३) निवातावाश्रयावातौ शस्त्राभेद्यं च वर्म यत् ॥ ८४॥ २|१०२ ) | 'प्रज्ञातज्ञात हृष्टेषु प्रतीतः सादरे त्रिषु' इति निरुद्धो निवृत्तो वा वातोऽस्मात् । 'निवातो दृढसंनाहे निवासे वातवर्जिते' इत्यजयः ॥ जातोन्नद्धप्रवृद्धाः स्युरुच्छ्रिताः रभसः ॥ मूछितौ मूढसोच्छ्यौ ॥ ८२ ॥ मूर्च्छति स्म 'मूर्च्छा मोहसमुच्छ्राययो: (स्वा०प० से ० ) । शुच्यते स्म । ' ईशुचिर् पूतीभावे' (दि० उ० से ० ) । (क्तः) (३।२।१०२) । 'श्वी दित:-' (७१२११४) (इतीनिषे- धः) । 'शुक्तं पूताम्लनिष्ठुरे' (इति मेदिनी) । 'मृन्मयादि- शुचौ भाण्डे सगुडं क्षौद्रकाशिकम् | धान्यराशौ त्रिरात्रस्थं शुक्तं चुकं तदुच्यते' इति वैद्यकम् ॥ १ - इदमसंगतम् । 'आदितश्च' ( ७७२१६) इतीनिषेधस्य दुर्वारत्वात् । तस्मात् – मूर्च्छा संजातास्य | 'तदस्य संजातम् - ' (५|२|३६ ) इतीतचू- इत्यने कार्थकैरवा कर कौमुदी लिखितमेव स- म्यक् ॥ अस्ति । 'अस भुवि ' (अ० प० से ० ) । 'लटः शतृ - (३।२।१२४) । 'नसोल्लोपः' (६|४|१११) । 'सन् साधौ धीरशस्तयोः । मान्ये सत्ये विद्यमाने त्रिषु साध्व्युभयोः स्त्रि- याम्' (इति भेदिनी) ॥ पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते । पुरोऽकारि । 'डुकृञ् ' (त० उ० अ०) । क्तः (३॥२॥ १०२) | ‘पुरोऽव्ययम्' (१९४६७) इति गतित्वम् । 'नमस्तु- रसोः - ' (८|३|४०) इति सत्वम् । ‘पुरस्कृतोऽभिशस्तारित्र- स्ताग्रेकृतपूजिते ' ( इति मेदिनी) ॥ उच्छ्रयति, उच्छ्रीयते स्म वा । 'श्रिज् सेवायाम्' (भ्वा० उ० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः । कर्मणि (३| २।१०२) वा । 'उच्छ्रितं त्रिषु संजाते समुन्नद्धप्रवृद्धयोः' (इति मेदिनी) ॥ उत्थितास्त्वमी | वृद्धिमत्प्रोद्यतोत्पन्नाः उत्तिष्ठति स्म । 'गत्यर्था - ' (३।४।७२) इति क्तः । 'उत्थितं स्यात्रिषूत्पन्ने प्रोद्यते वृद्धिमत्यपि ' ( इति मेदिनी) ॥ आइतौ सादरार्चितौ ॥ ८५ ॥ आद्रियते स्म । ‘दृङ् आदरे' (तु० आ० अ०) । क्तः (३॥ २।१०२) ॥ इति तान्ताः ॥ १ - अस्य । त्रोल्लेखः प्रामादिकः । अत्र मूर्तशब्दोपादानाभावात् ॥ २- 'निशितेऽपि ' इत्युक्तिः शितशब्दार्थत्वात्प्रकृतानुपयुक्ता ॥