पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१० बृहती क्षुद्रवातकी छन्दोमेदे महत्यपि | वर्हते । ‘वृह वृद्धौ' (भ्वा०प० से ० ) | 'वर्तमाने पृषत् - ' ( उ० २१८४) इति साधुः । 'बृहती क्षुद्रवार्ताक्यां कण्ट | कार्यां च वाचि च । वारिधान्यां महत्यां च छन्दोवसनभेद- योः' इति विश्वः ॥ अमरकोषः वासिता स्त्रीकरिण्योश्च बासयति । ‘वस निबासे’ (भ्वा०प० अ०) ण्यन्तः 'वास उपसेवायाम्' (चु० उ० से ० ) वा । तः (३।३। १७४) । 'वासिता करिणीनार्योर्वासितं सुरभीकृते । ध्वा नमात्रे खगारावे वासितं वस्त्रवेष्टिते' इति विश्वः ॥॥ स्वामी तु ( वाशिता इति ) तालव्यमध्यपाठमाह । तत्र ' बाट शब्दे' ( दि० आ० से ० ) ॥ वार्ता वृत्तौ जनश्रुतौ ॥ ७५ ॥ वार्त फल्गुन्यरोगे च त्रिषु वृतिरस्त्यस्याम् । ‘वृत्तेश्च’ (वा० ५१२११०१) इति णः । ‘वार्ता वातिङ्गणे वृत्तौ वार्ता कृष्याधुदन्तयोः । ( वृत्तिमन्नी- रुजोर्वार्ता वार्तमारोग्यफल्गुनोः ) ' इति विश्वः | 'वार्त फ लगुन्यरोगे स्यादारोग्ये वृत्तिमत्यपि' इति धरणिः ॥ अप्सु च घृतामृते | घ्रियते । जिघर्ति वा । 'घृ क्षरणदीयोः' (जु०प० अ० ) | ‘अजिघृसिभ्यः क्तः’ (उ० ३१८९ ) | 'घृतमाज्ये जले क्ली प्रदीप्ते त्वभिधेयवत्' (इति मेदिनी ) ॥ न मृतं मरणमत्र । 'अमृतं यज्ञशेषे स्यात्पीयूषे सलिले घृते । अयाचिते च मोक्षे च ना धन्वन्तरिदेवयोः' (इति मेदिनी) ॥ कलधौतं रूप्य हेनोः 'कलोमलो तोsस्य । 'कलधौतं सुवर्णे स्याद्रजते च नपुंसकम्' (इति मेदिनी) ॥ निमित्तं हेतुलक्ष्मणोः ॥ ७६ ॥ निमेद्यति । ‘ञि मिदा स्नेहने’ (दि० प० से ० ) । 'श्रीतः ‘क्तः’ (३।२।१९७) । संज्ञ।पूर्वकत्वान्न नत्वम् |– 'अनात्मनेप- दनिमित्ते’ (७।२।३६) इति निर्देशाद्वा ॥ श्रुतं शास्त्रावतयोः श्रूयते स्म । श्रवणं वा । 'श्रु श्रवणे' (भ्वा०प० अ० ) । तः (३।२।१०२) ॥ [ तृतीयं काण्डम् अत्याहितं महाभीतिः कर्म जीवानपेक्षि च ॥ ७७ ॥ अतीवाधीयते स्म मनसि | 'डधान्' ( जु० उ० अ० ) । 'दधातेर्हिः' (७|४|४२) ॥ युक्ते क्षमादावृते भूतं प्राण्यतीते समे त्रिषु । 'प्राण्यतीते' इति समाहारद्वन्द्वः । अभवत् । 'भू' । ‘गत्यर्था—' (३।४।७२) । 'भूतं क्षमादौ पिशाचादौ जन्तो क्लीबं त्रिषूचिते । प्राप्ते वृत्ते समे सत्ये देवयोन्यन्तरे तु ना । कुमारेऽपि’ (इति मेदिनी) ॥ वृत्तं पद्ये चरित्रे त्रिष्वतीते दृढनिस्तले ॥ ७८ ॥ युगपर्याप्तयोः कृतम् | अकारि । ‘डुकृञ्' (त० उ० अ० ) | क्तः ( ३ | २ | १०२ ) । 'शक्तौ निवारणे तृप्तौ पर्याप्तं स्याद्यथेप्सिते' इति रुद्रः । 'कृतं युगेऽलमर्थे स्याद्विहिते हिंसिते त्रिषु' (इति मेदिनी) ॥ । वर्तते स्म । वर्तनं वा । 'ऋतु वर्तने' (भ्वा० आ० से ० ) 'वरणे' (दि० आ० से ० ) वा । 'गत्यर्था-' (३।४।७२) इति क्तः । भावे (३।३।११४) वा । 'वृत्तोऽधीतेप्यतीतेऽपि वर्तुलेऽपि मृते वृते | वृत्तेऽन्यलिङ्गं वा क्लीबे छन्दश्चारित्रवृत्तिषु' ( इति मेदिनी ) ॥ महद्राज्यं च मध्यते । 'मह पूजायाम्' (भ्वा० प० से ० ) । 'वर्तमाने पृषत् - ' ( उ० २१८४) इति साधुः । 'महती बलकीभेदे राज्ये तु स्यान्नपुंसकम् । तत्त्वमेदे पुमा श्रेष्ठे वाच्यवत्’ ( इति मेदिनी ) ॥ अवगीतं जन्ये स्याद्गर्हिते त्रिषु । अवगीयते स्म । 'गै शब्दे' (भ्वा० प० से ० ) । क्तः (३१२११०२) | 'अवगीतस्तु निर्वादे दु (ह) ष्टगर्हितयोरपि ( इति मेदिनी ) | जन्ये जनापवादे ॥ श्वेतं रूप्येऽपि श्वेतते । ‘श्विता वर्णे' (भ्वा० आ० से०) । पचाद्यच् ( ३ | १ | १३४ ) । 'श्वेतो द्वीपाद्रिभेदयोः । श्वेता वराटिका काष्ठपाटलाशङ्खनीषु च । क्लीबं रूप्येऽन्यवच्छुक्ले' (इति मेदिनी ॥ रजतं हेम्नि रूप्ये सिते त्रिषु ॥ ७९ ॥ ‘वृषिरञ्जिभ्यां कित्' ( उ० ३१११) इयतच् । 'र रजति । रज्यतेऽनेन वा । 'रज रागे' (भ्वा० प० अ० ) । रञ्जने रूप्ये शोणिते हृदहारयोः' इत्यजयः ॥ त्रिष्वितः आतान्तम् ॥ जगदिङ्गेऽपि गच्छति । 'द्युतिमभिजुहोतीनां द्वे च (वा० ३।२।१७८) इति क्विप् । ‘गमः क्वौ’ (६|४|४०) इति मलोपः । तुक् (६१९७१) 'जगत्स्यात्पिष्टपे क्लीबं वायौ ना जंगमे त्रिषु ( इति मेदिनी) ॥ रक्तं नील्यादि रागि च । रजति । रज्यते वा । 'रज रागे' (भ्वा०प० अ०) ।