पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्गः ३ ] वीणाभेदेऽपि महती मयते । 'मह पूजायाम्' (भ्वा०प० से ० ) । 'वर्तमाने पृषत् (उ० २१८४) इति साधुः । 'महती वल्लकीभेदे रा (प्रा)ज्ये तु स्यान्नपुंसकम् । तत्त्वभेदे पुमान् श्रेष्ठे (वृद्धे) वा- च्यवत्' ( इति मेदिनी) ॥ भूतिर्भस्मनि संपदि ॥ ६९ ॥ भवति । अनया वा । भवनं वा । क्तिच् ( ३|३।१७४)। 'भूतिर्भस्मनि संपत्तिहस्तिशृङ्गारयोः स्त्रियाम्' (इति मेदिनी) ॥ नदीनगर्योर्नागानां भोगवती भोगोऽस्त्यस्याम् । मतुप् (५१२१९४) । 'अथ भोगवती नागपुरीनथोर हौ पुमान्' ( इति मेदिनी ) ॥ अथ संगरे । व्याख्या सुधाख्यव्याख्यासमेतः । सङ्गे सभायां समितिः समयनम् । समीयते वास्याम् । 'इण् गतौ' (अ० प० अ०) । तिन् (३।३।९४ ) ॥ क्षयवासावपि क्षितिः ॥ ७० ॥ क्षयणम् । क्षीयतेऽस्यां वा । 'क्षिक्षये' (भ्वा०प० अ० ) । ‘क्षि निवासगत्योः’ (तु॰ प॰ अ० ) | तिन् (३३९४ ) | 'क्षितिर्निवासे मेदिन्यां कालमेदे क्षये स्त्रियाम्' ( इति मेदिनी) ॥ रवेरर्चिश्व शस्त्रं च वह्निज्वाला च हेतयः । हन्ति हिनोति वा । हन्यतेऽनया वा । क्तिन् ( ३ ३।९४) । 'ऊतियूति -' (३।३।९७) इति साधुः ॥ जगती जगति छन्दोविशेषेऽपि क्षितावपि ॥ ७१ ॥ | गच्छति । 'वर्तमाने पृषत् ( उ० २१८४) इति साधुः । यद्वा ‘द्युतिगमिजुहोतीनां द्वे च' (वा० ३ १ २ (१७८) इति क्किप् । 'गमः कौ' (६|४|४० ) इति मलोपः | तुक् (६।१। ७१) 'जगत्स्याद्विष्टपे क्लीबं ना वायौ जंगमे त्रिषु । जगती भुवने क्षमायां छन्दोभेदे जनेऽपि च ' ( इति मेदिनी ) | द्वाद- शाक्षरपादे ॥ पैङ्क्तिश्छन्दोऽपि दशमम् पञ्चनम् । 'पचि व्यक्तीकरणे' (भ्वा० आ० से ० ) । क्तिन् (३।३।९४)। यद्वा पञ्चकद्वयम् 'विंशति-' (४१५९) इति साधुः । (दशमं छन्दः) दशाक्षरपादम्। 'पदिशाक्ष- रच्छन्दोदशसंख्यादिषु स्त्रियाम्' इति (मेदिनी) ॥ स्यात्प्रभावेऽपि चायतिः । आयम्यतेऽनया | आयमनं वा । 'यमु उपरमे' (भ्वा० १ – 'उक्तात्युक्ता तथा मध्या प्रतिष्ठान्या सुपूर्विका । गायत्र्यु ष्णिगनुष्टुप् च बृहती पकिरेव च' इत्यनुक्रमोक्तेषु दशमं छन्दः पतिः । 'पकिश्छन्दो दशापि स्यात्' इति कन्चित्पाठः- इति पीयूष व्याख्या | अमर० ५२ ४०९ प० अ०) । क्तिन् (३।३।९४ ) | 'आयतिः संयमे दैर्ध्य प्र भावागामिकालयोः' (इति विश्वः) ॥ पत्तिर्गतौ च पतति । 'पत्ऌ गतौ' ( भ्वा०प० से ० ) । क्तिच् (७॥ ३ ॥ १७४) । 'पत्तिर्ना पदगे स्त्रियाम् । गतावेकरथै के भव्यश्वप ऋचपदातिके' ( इति मेदिनी) ॥ । मूले तु पक्षितिः पक्षभेदयोः ॥ ७२ ॥ पक्षस्य मूलम् । 'पक्षात्तिः' (५|२|२५ ) | प्रतिपदि, गरु न्मूले च ॥ प्रकृतिनिलिङ्गे च प्रकुरुते । क्तिच् (३।३।१७४) । क्तिन् (३।३।९४)। 'प्रकृतिर्गुणसाम्ये यादमात्यादिस्वभावयोः | योनौ लिङ्गे पौ- रवर्गे' (इति मेदिनी) ॥ कैशिक्याद्याश्च वृत्तयः । 'भारती सात्वती चैव कैशिक्यारभटी तथा । चतस्त्रो वृ |त्तयश्चैता यासु नाट्यं प्रतिष्ठितम्' इति भरतः । 'वृत्ति विवरणे जीव्ये कैशिक्यादिषु चेष्यते' इति विश्वः ॥ सिकताः स्युर्वालुकापि सिच्यते । 'षिच क्षरणे' (तु० उ० अ० ) । बाहुलकादत- च् | पृषोदरादिः (६।३।१०९) । 'सिकता स्त्री सिकतिले वालुकायां तु भूमनि' (इति मेदिनी ) ॥ । वेदे श्रवसि च श्रुतिः ॥ ७३ ॥ श्रूयते । अनया वा । 'श्रु श्रवणे' (भ्वा०प० अ० ) | क्तिन् । 'श्रुतिः श्रोत्रे तथाम्नाये वार्तायां श्रोत्रकर्मणि' इति विश्वः ॥ वनिता जनितात्यर्थानुरागायां च योषिति । वन्यते स्म । 'वनु याचने' (त० आ० से ० ) क्तः (३।२। १०२ ) । 'यस्य विभाषा' (७१२।१५) इत्यस्यानित्यत्वा दिट् | 'वन संभक्तौ ' ( भ्वा०प० से ० ) वा 'वनिता जातराग- स्त्री स्त्रियोः स्त्री त्रिषु याचिते' ( इति मेदिनी ) ॥ गुप्तिः क्षितिव्युदासेऽपि गुप्यते । गोपनं वा । 'गुपू रक्षणे' ( स्वा० प० से ० ) । तिन् (३३९४) । 'गुप्तिः कारा च रक्षा च दीर्णं च विवरं भुवः' इति शाश्वतः । 'गुप्तिकरस्थाने कारागारे चर- क्षणे' (इति मेदिनी) ॥ धृतिर्धारणधैर्ययोः ॥ ७४॥ धरणम् । 'धृञ् धारणे' (भ्वा० उ० अ०) । क्तिन् (३|३|९४) । 'धृतिर्योगान्तरे धैर्ये धारणाध्वरतुष्टिषु' इति विश्वः ॥ १ ~ पक्षभेदौ द्वौ । एको मासार्थः । अपरः पक्ष्यवयवः । तयोर्मूले पक्षतिः इति पीयूषव्याख्या ॥