पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिग्वर्ग: ३] क्षपां करोति । 'कृष हेतु - ( ३ | २ | २० ) इति टः ॥ (२०) ॥ * ॥ विंशतिः 'चन्द्रस्य' ॥ कला तु षोडशो भागो ( कलेति ॥ ) चन्द्रस्य षोडशो भागः । कलयति । 'कल संख्याने' (चु० उ० से०) पचायच् (३।१।१३४) | कल्यते बा । ‘पुंसि—’ (३।३।११८) इति घः । ('कलं त्वजीर्णरेतसोः । अव्यक्तमधुरध्वाने ) कला स्यौदंशशिल्पयोः । (कलने मूलरै- बृद्धौ षोडशांशे विधोरपि’) इति हैमः ॥ १॥ ॥ एकम् 'चन्द्र- षोडशांशस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । बिम्बोsस्त्री मण्डलं त्रिषु ॥१५॥ ( बिम्ब इति ॥) वेति शोभते । 'वी गतौ' (अ० प० से०) । 'उत्वादयश्च' ( उ० ४८९५) इति बन्नुमागमहत्वानि । 'बिम्बं तु प्रतिबिम्बे स्यान्मण्डले बिम्बिकाफले' इति (पवर्ग- मध्ये) हैमः ॥ (१) ॥॥ मण्डयति, मण्ड्यते, वा । 'मडि भूषायाम्' (चु० प० से०) । वृषादित्वात् ( उ० १।१०६) कलच् । गौरादित्वात् (४।१।४१) डीषू | मण्डली | 'स्यान्म- ण्डलं द्वादशराजके च देशे च बिम्बे च कदम्बके च । कुष्टप्रभेदेऽप्युपसूर्यकेऽपि भुजंगभेदे शुनि मण्डल: स्यात्' इति विश्वः ॥ (२) ॥ ॥ द्वे 'रविचन्द्रमण्डलस्य' ॥ भित्तं शकलखण्डे वा पुंस्यर्ध: (भित्तमिति ॥) भिद्यते स्म । 'भित्तं शकलम्' (८|२| ५९) इति निपातितम् ॥ (१) ॥ ॥ शक्नोति, शक्यते वा । ‘शक्ल शक्तौ' (खा० प० अ०) । 'शकिशम्योर्नित' ( उ० १। ११२) इतिच् । 'शकलं त्वचि खण्डे च रागवस्तुनि वल्कले' इति विश्वः ॥ (२) ॥ * ॥ 'खडि मेदने' (चु०प० से०) । खण्ड्यते । कर्मणि घञ् (३।३।१९) । —भावे घन् (३।३।१८) इति मुकुटोक्तिरसंगता | खण्डनक्रियाया एव ग्रह- णप्रसङ्गात् । खण्ड्यमानस्याग्रहणप्रसङ्गात् । 'खनु अवदारणे' (भ्वा० उ० से ० ) | ‘अमन्ताङ्क: ( उ० ११ १४) इति वा । ‘खण्डोऽर्ध ऐक्षवे। मणिदोषे च' इति हैमः । ('खण्डो- ऽस्त्री शकले नेक्षुविकारमणिदोषयोः । खण्डः पानान्तरे भेदे') । वा पुंसि - इति पूर्वोत्तराभ्यां संबध्यते ॥ (३) ॥ ॥ 'ऋधु वृद्धौ ' ( स्वा०प० से ० ) । ऋनोयनेन । 'हलथ' (३१३) १२१) इति धञ् । विशेष्यनिघ्नः ॥ ( ४ ) ॥ ॥ चत्वारि । 'खण्डमात्रस्य' || अर्ध सऽशके । (अर्धमिति ॥) समप्रविभागेऽर्धशब्द: क्लीबमेव ॥ (१) ॥ * ॥ तुल्यस्य खण्डद्वयस्य मध्ये 'एकखण्डस्य एकम् || चन्द्रिका कौमुदी ज्योत्स्ना ( चन्द्रिकेति ॥) चन्द्रोऽस्त्यस्याः | ठन् (५|२|११५) । १ - हैमेsपि 'स्यात्कालशिल्पयोः' इत्येव दृश्यते ॥ ३५ -चन्द्रं कायति वा इति मुकुटः | तन्न । इत्वाभावप्रसङ्गात् । चन्द्रयति । 'तत्करोति' (वा० ३।१।२६) इति ण्यन्तात् ण्वुल् (३|१|१३३) इति वा । 'चन्द्रिका चन्द्रिमा चार्वी' इति शब्दार्णवः ॥ (१) ॥ * ॥ कुमुदानामियम् | '‘तस्येदम्’ ( ४ | ३ | १२०) इत्यण् । ('कौमुदः स्यात्कार्तिक के चन्द्रिकायां तु कौमुदी ) ॥ (२) ॥ ॥ ज्योतिरस्त्यस्याम् | 'ज्योत्स्ना तमिला-' (५२११४) इति निपात्यते । 'ज्योना चन्द्रा- तपेऽपि स्याज्योत्स्नायुक्तनिशि स्मृता' ॥ (३) ॥ ॥ त्रीणि 'ज्योत्स्नायाः' ॥ प्रसादस्तु प्रसन्नता ॥१६॥ ( प्रसाद] इति ॥ ) 'विशरणादौ ' (भ्वा० तु०प० अ० ) | भावे घन् (३|३|१८ ) | 'प्रसादोऽनुग्रह स्वास्थ्यप्र- सत्तिषु | काव्यगुणे' इति हैमः ॥ ( १ ) ॥ * ॥ प्रसीदति स्म । 'गर्थ' (३१४।७२ ) इति तः । प्रसन्नस्य भावः । तल् (५1१1११९) ॥ (२) ॥ * ॥ द्वयं 'नैर्मल्यस्य' || कलङ्काङ्को लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् । (कलङ्केति ॥) कं ब्रह्माणं लङ्कयति हीनतां गमयति, ज्ञापयति, वा । 'लकि गतौ' (चुरादिः) । 'कर्मण्यण' (३|२|१) । (कलोऽपवादे च कालायसमलेऽपि च ) ॥ (१ ) ॥*॥ अयतेऽनेन । 'अकि लक्षणे' (भ्वा० प० से ० ) । 'हलच' (३1३1१२१) इति घञ् । ('अङ्को भूषारूपकलक्ष्मसु चित्राजौ नाटकाद्यंशे स्थाने कोडेऽन्तिकागसोः ) ॥ (२) ॥ ॥ ‘लच्छ, लाच्छि, लक्षणे' (भ्वा० प० से ) । लाञ्छ्यतेऽनेन । ल्युट् (३1३/११५ ) | 'लाच्छनं लक्ष्मसंज्ञयोः' इति हैमः ॥ ॥ लच्छयतेऽनेन इति विग्रहे ल्युटि 'लच्छनम्' अपि ज्ञेयम् ॥ (३) ॥ ॥ चाहथति, चह्यतेऽनेन वा । ‘चह परिकल्कने’ (भ्वा०प० से० ) | बाहुलकान्नक् । उपधाया इत्वं च । 'चिह्नं लक्ष्मपताकयोः' इति मेदिनी ॥ ( ४ ) ॥ * ॥ लक्षयति । 'लक्ष दर्शनाङ्कनयोः' (चु०प० से ० ) मनिन् ( ३ |३|७५) । ('लक्ष्म प्रथानचिह्नयोः) ॥ (५) ॥ ॥ ल्युटि लक्षणम् । ‘लक्षैरट् च' ( उ० ३१७) इति नः । ('लक्षणं नाम्नि चिह्ने च सारस्यां लक्षणा कचित्') ॥ ॥ 'मुडा' (उ० ३।७) इति लक्ष्मणमपि । ज्योतिष्मत्यां च सारस्यां स्त्री, क्लीवे नामचिह्नयोः । स्याद्यक्षे लक्षणः पुंसि सौमित्रौ, श्रीमति त्रिषु' इति रभसात् । लक्ष्मी- वति तु पामादित्वात् (५/२/१००) नः | 'लक्ष्म्या अञ्च' इति गणसूत्रेणात्वं बोध्यम् ॥ (६) ॥ * ॥ षट् 'चिह्नस्य' ॥ सुषमा परमा शोभा ( सुषमेति ॥ ) शोभनं समं सर्वमनया | 'सुविनिर्दुर्भ्यः सुपिसूतिसमा: (८३१८८) इति षत्वम् । एतेन सुषामादि- त्वात् (८१३१९८) षत्वम् इति स्वाम्युक्तिः परास्ता । उक्त- रीत्या निर्वाहे सुषामादित्वकल्पनस्य निर्बीजत्वात् । ('सुषमं