पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानार्थवर्गः ३ ] सरस्वन्तौ नदार्णवौ ॥ ५७ ॥ सरो गमनमस्यास्ति । मतुप् (५।२९४) । 'सरस्वांस्तु नदे चाब्धौ ना, न्यवद्रसिके, स्त्रियाम् । वाणीस्त्रीरत्नवाग्देवी- गोनदीषु नदी भिदि' (इति मेदिनी ॥ पक्षिताय गरुत्मन्तौ गरुतः सन्त्यस्य । मतुप् (५।२।९४) ॥ व्याख्यासुधाख्यव्याख्यासमेतः । जीमूतौ मेघपर्वतौ ॥ ५८ ॥ जीवनं मुञ्चति । पृषोदरादिः (६।३।१०९) । 'जीमूतोऽद्रौ धृतिकरे देवताडे पयोधरे' ( इति मेदिनी ) ॥ हस्तौ तु पाणिनक्षत्रे शकुन्तौ भासपक्षिणौ । । शक्नोति । 'शकेरुनोन्तोन्त्युनयः (उ० ३१४९) इत्युन्तः 'भासो भासि समाख्यातो गोष्ठकुक्कुटगृध्रयोः' इति विश्वः । अयुत्पातौ धूमकेतू धूमः केतुश्चिमस्य। 'धूमकेतुः स्मृतो वहावुत्पातग्रहभे- ना सत्तमे त्रिषु’ (इति मेदिनी)॥ दयोः' इति विश्वः ॥ इसति । 'हसे हसने' (भ्वा०प० से ० ) । 'हसिभृप्रिण्- ( उ० ३१८६) इति तन् । 'हस्तः करे करिकरे सप्रकोष्ठकरेऽ- पि च । ऋक्षे केशात्परो व्राते' (इति मेदिनी ) ॥ मरुतौ पवनामरौ । म्रियतेऽनेन । 'मृङ् प्राणत्यागे' (तु० आ० अ०) । 'मृग्रो- रुति: ' ( उ० १९९४) । 'मरुद्देवे समीरे ना ग्रन्थिपणे नपुंस- कम्' इति (मेदिनी) ॥ यन्ता हस्तिपके सूते यच्छति । 'यमु उपरमे' (भ्वा०प०अ० ) | तृच् ( ३ | १ | १३३) ॥ भर्ता धातरि पोष्टरि ॥ ५९ ॥ | बिभर्ति | 'डुभृञ् धारणपोषणयोः' (जु० उ० अ०) । भर. ति । ‘भृञ् भरणे' (भ्वा० उ० अ० ) । तृच् (३।१।१३३) 'भर्ता स्वामिनि पुंसि स्यात्रिषु धातरि पोष्टरि' (इति मेदिनी) ॥ यानपात्रे शिशौ पोतः पुनाति । पूयते वा । 'पूज् पवने' (ऋया० उ० से ० ) । 'हसिमृग्रिण्– ' ( उ० ३१८६) इनि तन् । 'पोतः शिशौ वहित्रे च गृहस्थाने च वाससि' इति मेदिनी ) ॥ प्रेतः प्राण्यन्तरे मृते । प्रकर्षेणेतः । 'प्रेतो भूतान्तरे पुंसि मृते स्याद्वाच्य लिङ्गकः' ( इति मेदिनी ) ॥ ग्रह भेदे ध्वजे केतुः चाय्यते । अनेन वा । 'चायू पूजानिशामनयोः' (भ्वा० ४०७ उ० से ० ) 'चायः किः' ( उ० १९७४) इति तुः 'केतुर्ना रुक्प: ताकारिग्रहोत्पातेषु लक्ष्मणि' (इति मेदिनी) ॥ पार्थिवे तनये सुतः ॥ ६० ॥ सूयते स्म । 'घुञ् अभिषवे' (वा० उ० अ० ) | सौति स्म वा । 'षु प्रसवैश्वर्ययोः' ( अ० प० से ० ) | फः (३।२।१०२, ४१७२) । 'सुतः स्यापार्थिवे पुत्रे त्र्यपत्ये तु सुता स्मृता ( इति मेदिनी) ॥ स्थपतिः कारुभेदेऽपि तिष्ठन्त्यस्मिन् । ‘घञर्थे कः' ( वा० ३१३१५८ ) स्थश्चासौ पतिश्च । 'स्थपतिः कञ्चुकिन्यपि । जीवेष्टियाजके शिल्पिभेदे भूभृद्भूमिधरे नृपे । भुवं बिभर्ति | 'टुभृन्' (जु० उ० अ० ) किप् (३।२।७६) तुक् (६।१।७१) ॥ मूर्धाभिषिक्तो भूपेऽपि मूर्धनि अभिषिच्यते स्म । 'सिच क्षरणे' ( तु० उ० अ० ) | तः (३।२।१०२) । 'मूर्धाभिषिक्तो भूपाले मन्त्रिणि क्षत्रि- येऽपि च ' (इति मेदिनी ) ॥ ऋतुः स्त्रीकुसुमेऽपि च ॥ ६१ ॥ ऋच्छति । ‘अर्तेश्च तुः’ । ( उ० १९७२ ) किञ्च | 'ऋतुर्मा- सि वसन्तादौ धीरे स्त्रीकुसुमेऽपि च' इति धरणिः ॥ विष्णावप्यजिताव्यक्तौ न जीयते स्म । 'जि अभिभवे' (भ्वा०प०अ०) । तः (३।२।१०२) । 'अजितो ना हरौ त्रिषु । अनिर्जिते च' इति विश्वः (मेदिनी) । न व्यज्यते स्म । 'अञ्जू व्यक्त्यादौ ( रु० प० से ० ) । कः ( ३ | २|१०२) । 'अव्यक्तः शंकरे विष्णावव्यक्तं महदादिके आत्मन्यपि स्यादव्यक्तमस्फुटे त्वभिधेयवत्' इति विश्वः ॥ सूतस्त्वष्टरि सारथौ । सुवति स्म सूयते स्म वा 'घू प्रेरणे' ( तु०प० से ० ) । तः (३।२।१०२)। ‘सूतस्तु सारथौ तक्षिण क्षत्रियाद्ब्राह्मणी- सुते । बन्दिपारदयोः पुंसि प्रसूते प्रेरिते त्रिषु' ( इति मे- दिनी) ॥ व्यक्तः प्राशेऽपि व्यज्यते स्म । 'अधू' (रु०प० से ० ) । क्तः ( ३ | २ | १०२ ) । 'व्यक्तः स्फुटमनीषिणो: ' (इति मेदिनी) ॥ दृष्टान्तावुभे शास्त्रनिदर्शने ॥ ६२ ॥ दृष्टोऽन्तोऽत्र । 'अन्तः प्रान्तेऽन्तिके नाशे' इति विश्वः । 'दृष्टान्त उदाहृतौ । शास्त्रे च मरणे' ( इति मेदिनी) ॥ क्षत्ता स्यात्सारथौ द्वाःस्थे क्षत्रियायां च शूद्रजे। क्षदति । 'क्षद' सौत्रः । 'तृन्तृचौ शंसिक्षदादिभ्यः संज्ञायां