पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०० अमरकोषः । लालाटिकः प्रभोर्भालदर्शी कार्याक्षमश्च यः ॥ १७ ॥ ललाटं पश्यति । 'लालाटिकः प्रभोर्भालदर्शिन्या श्लेषणा- न्तरे । कार्याक्षमे' (इति मेदिनी) । 'भावदर्शी' इति वा पाठः । 'लालाटिकः सदालस्यप्रभुभावनिदर्शिनि' इत्यजयः ॥ इति कान्तवर्गः ॥ मयूखस्त्विट्करज्वालासु मिमीते । 'माङ् माने' (जु० आ० अ० ) । 'माङ ऊखो मय च ' ( उ० ५/२५ ) | 'मयूखः किरणेऽपि च । ज्वाला- यामपि शोभायाम्' (इति मेदिनी) ॥ अलिबाणौ शिलीमुखौ। शिली शल्यं मुखे यस्य ॥ शो निधौ ललाटास्नि कम्बौ न स्त्री शाम्यत्यनेन । 'शमु उपशमे' ( दि० प० से ० ) । 'शमेः खः' (उ० १।१०२) । 'शङ्खः कम्बौ न योषिन्ना भालास्थिन निधिभिन्नखे' (इति मेदिनी ) ॥ इन्द्रियेऽपि खम् ॥ १८ ॥ खनति । 'खनु अवदारणे' (भ्वा० उ० से ० ) । 'अन्येभ्यो- ऽपि—' (वा० ३।२।१०१) । 'खमिन्द्रिये पुरे क्षेत्रे शून्ये बिन्दौ विहायसि | संवेदने देवलोके शर्मण्यपि नपुंसकम्' ( इति मेदिनी) ॥ [ तृतीयं काण्डम् पूगः क्रमुकवृन्दयोः । पुनाति । 'पूज् पवने' (त्र्या० उ० से ० ) । 'छापूखडिभ्यः कित्' ( उ० ११२४) इति गन् ॥ पशवोऽपि मृगाः घृणिज्वाले अपि शिखे शेते । ‘शीङो ह्रखश्च' (५१२४) | 'शिखा शाखाब- हिंचूडालाङ्गलिक्यग्रमात्रके | चूडामात्रे शिफायां च ज्वालायां प्रपदेऽपि च ' ( इति मेदिनी) ॥ इति खान्ताः ॥ शैलवृक्षौ नगावगौ । न गच्छति । ‘गम्ऌ गतौ’ (भ्वा०प० अ० ) । 'अन्ये- ष्वपि -' (वा० ३।२।४८) इति 'अन्येभ्योऽपि -' (वा० ३। २।१०१) इति वा डः । ‘नगोऽप्राणिष्व-' (६|३|७७) इति नम् वा प्रकृत्या । 'नगो महीरुहे शैले भास्करे पवनाशने' । (‘अगः स्यान्नगवत्तरौ शैले सरीसृपे भानौ' इति हैमः ) ॥ आशुगौ वायुविशिखौ आशु गच्छति । पूर्ववत् (वा० ३१२९४८ ) | शरार्कविहगाः खगाः ॥ १९ ॥ खे गच्छति । पूर्ववत् ( वा० ३१२१४८) । 'खगः सूर्ये ग्रहे देवे मार्गणे च विहंगमे' (इति मेदिनी) | पतङ्गौ पक्षिसूर्यौ च पतति । 'पढ गतौ' ( भ्वा०प० से ० ) । 'पतेरङ्गच् पक्षिणि' (उ० १।११९)। 'पतङ्गः शलमे शालिप्रभेदे पक्षि- सूर्ययोः । क्लीबं सूते' (इति मेदिनी) ॥ । मृग्यते । 'मृग अन्वेषणे' (चु० आ० से ० ) घञ् (३॥३॥ १९) । 'मृगः पशौकुरङ्गे च करिनक्षत्र मेदयोः | अन्वेषणा- यां याच्ञायां मृगी तु वनितान्तरे' ( इति मेदिनी) ॥ वेगः प्रवाहजवयोरपि ॥ २० ॥ वेजनम् । 'ओविजी भयचलनयो: ' ( तु० आ० से ० ) । घञ् ( ३ | ३ | १८ ) | ( वेगो रयप्रवाहयोः । रेतःकिंपाकयो- श्चापि’ इति हैमः) ॥ परागः कौसुमे रेणौ स्नानी यादौ रजस्यपि । परागच्छति । डः (वा० ३२४८) । 'परागः कौसुमे रेणौ धूलिम्नानीययोरपि । गिरिप्रभेदे विख्यातापरागेच चन्दने' ( इति मेदिनी) ॥ गजेऽपि नागमातङ्गौ न अगः । 'नागं नपुंसकं रङ्गे सीसके करणान्तरे | नागः पन्नगमातङ्गक्रूराचारिषु तोयदे । नागकेसरपुंनागनागदन्तक- मस्तके | देहानिलप्रमेदे च श्रेष्ठे स्यादुत्तरस्थितः' (इति मे दिनी) ॥ (१) ॥*॥ मतङ्गस्यायम् । 'तस्येदम्' ( ४ | ३ | १२० ) इत्यण् । ('मातङ्गः श्वपचे गजे' इति मेदिनी) ॥ (२ ) ॥ * ॥ अपाङ्गस्तिल केऽपि च ॥ २१ ॥ अपगतोऽङ्गात् । 'निरादयः- (वा० २१२/१८) इति समासः । 'अपाङ्गो नयनस्यान्ते स्याच्चित्रकप्रधानयोः' इ- त्यजयः । 'अपाङ्गस्त्वज्ञहीने स्यान्नेत्रान्ते तिलकेऽपि च ( इति मेदिनी) ॥ सर्गः स्वभावनिर्भेक्षनिश्चयाध्यायसृष्टिषु । सृज्यते । 'सृज विसर्गे' (दि० आ० अ० ) । घञ् (३|३| १९ ) । 'सर्गस्तु निश्चयाध्यायमोहोत्साहात्मसृष्टिषु' (इति मेदिनी) । निर्मोक्षस्त्यागः, मोक्षाभावो वा ॥ योगः संनहनोपायध्यानसंगतियुक्तिषु ॥ २२ ॥ योजनम् । 'युज समाधौ' ( दि० आ० अ० ) । 'युजिर योगे' (रु० उ० अ०) । घञ् (३|३|१८ ) | 'योगोऽपूर्वार्ध- संप्राप्तौ संगतिध्यानयुक्तिषु । वपुः स्थैर्यप्रयोगे च विष्कम्भा- दिषु भेषजे | विश्रन्धघात के द्रव्योपायसनहनेष्वपि । कार्म- णेsपि च ' ( इति मेदिनी) । संनहनं कवचम् | उपायः सामादिः ॥ भोगः सुखे रुयादिभृतावहेश्च फणकाययोः । भोजनम् । 'भुज पालनाभ्यवहारयोः' (रु०प० अ० ) । ‘भुजो कौटिल्ये' (तु० प० से ० ) घञ् (३।२।१८) । 'भोगः