पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नानार्थवर्ग: ३ ] व्याख्यासुधाख्यव्याख्या समेतः । ३९९ बुल् (३|२|१३३) 'दीपकं वागलंकारे वाच्यवद्दीप्तिकारके । दिशेषे दम्भे विभीतके ।' ('विकिट्टयोश्च पापे च त्रिषु पापा दीपकश्चाजमोदायां यवानीबर्हिचूडयो:' (इति मेदिनी ) ॥ शालावृकाः कपिक्रोष्टुश्वानः शये पुनः ) ( इति मेदिनी ) ॥ शालां वृणोति । ‘वृज् वरणे' ( स्वा० उ० से ० ) 'सुवृभूशु- षिमुषिभ्यः कक्’ (उ० ३।४१ ) | पृषोदरादिः - इति मुकु- दश्चिन्त्यः || स्वर्णेऽपि गैरिकम् । गिरौ भवम् अध्यात्मादित्वा (वा० ४१३६०) । 'गैरिकं धातुरुक्मयोः' (इति मेदिनी) ॥ पीडार्थेऽपि व्यलीकं स्यात् अथ पिनाकोऽस्त्री शूलशंकरधन्वनोः ॥ १४ ॥ पनाय्यते । ‘पन स्तुतौ' (भ्वा०प० से ० ) । 'पिनाकाद- यश्च' ( उ० ४।१५) इति साधुः । 'पिनाकेऽस्त्री रुद्रचापे पां- शुवर्ष त्रिशूलयोः' (इति मेदिनी) ॥ धेनुका तु करेण्वांच धेनुरेव | स्वार्थे कन् (ज्ञापि० ५१४१५) । 'स्याद्धेनुका करिण्यां च घेनावपि ना तु दानवविशेषे' (इति मेदिनी) ॥ · मेघजाले च कालिका । अलति । 'अल भूषणादौ' (भ्वा०प० से ० ) । 'अलीका दयश्च' ( उ० ४।२५) इति साधुः । विगतमलीकम् । 'व्य- लीको नागरे स्मृतः । व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पी- डने' इति विश्वः ॥ अलीकं त्वप्रियेऽनृते ॥ १२ ॥ 'अलीकमप्रियेऽपि स्याद्दिव्य (स्याद्गोध्य) सत्ये नपुंसकम्' ( इति मेदिनी ) ॥ शीलान्वयावनूके अनूच्यन्ति। ‘उच समवाये’ (दि० प० से ० ) । 'इगुप. ध-’ (३।१।१३५) इति कः । न्यकादिः (७/३१५३) 'अ- नूकं तु कुले शीले पुंसि स्याङ्कतजन्मनि' (इति मेदिनी) । यद्वा अनु कायति । 'कै शब्दे' (भ्वा०प०अ०) । 'आत- ब्थो—’ (३।१।१३६) इति कः । ‘अन्येषामपि -' (६।३।१३७) इति दीर्घः ॥ द्वे शल्के शकलवल्कले । शलति । 'शल चलने' (भ्वा०प० से ० ) । 'इण्भीका - ' ( उ० ३।४३) इति कनू ॥ साष्टे शते सुवर्णानां हेम्युरोभूषणे पले ॥ १३ ॥ दीनारेऽपि च निष्कोऽस्त्री निश्चयेन कायति । 'आतश्चोप- (३|१|१३६) इति कः । ‘इगुपध-' (८|३|४१) इति षः । यद्वा निषीदन्ति । 'षद' | ‘नौ सदेर्डिच्च’ (उ० ३।४५) इति कन् । 'सदिरप्रते: ' ( ८|३| ६६) । इति षः । 'निष्कमस्त्री साटहेमशते दीनारकर्षयोः । वक्षोलंकरणे हेममात्रे हेमपदेsपि च ' ( इति मेदिनी ) | दी- नारः सांव्यवहारिकं रूपकम् ॥ कल्कोऽस्त्री समलैनसोः । दम्येऽपि कल्यते । 'कल शब्दसंख्यानयोः' (भ्वा० आ० से ० ) 'कृदाधारा-' ( उ० ३।४० ) इति कः । 'त्रिषु पापाशये क ल्कोऽस्त्री विकिट्टेभदन्तयोः' '(कल्कः पापाशये तापे दम्भे विकिट्टयोरति ) ' इति विश्वः । 'कल्कोबी घृततैला- कालो वर्णोऽस्त्यस्याः । ठनू (५१११५) | यद्वा काल्ये- व | स्वार्थे कन् (ज्ञापि ० ५१४१५ ) । 'धूसरीयोगिनी भेदोमा- नवाब्देषु कालिका | क्रमदेयवस्तुमूल्ये काय घनेषु च' इति रभसः । 'कालिका चण्डिकाभेदे कार्ये वृश्चिकपत्रयोः । क्रमदेयवस्तुमूल्ये धूसरीनवमेघयोः । पटो- लशाखारोमालीमांसी काकीशिवासु च । मेघावलौ च ' ( इति मेदिनी) ॥ कारिका यातनाकृत्योः करणम् ‘धात्वर्थनिर्देशे ण्वुल्' (वा० ३|२|१०८ ) | 'का- रिका नटयोषिति | कृतौ विवरणश्लोके शिल्पयातनयोरपि । नपुंसकं तु कर्मादौ कारकं कर्तरि त्रिषु' (इति मेदिनी)। ‘वृत्त्योः’ इति_पाठे विवरणश्लोके ॥ कर्णिका कर्णभूषणे ॥ १५ ॥ करिहस्ताङ्गुलौ पद्मबीजकोश्याम् कर्णस्यालंकारः 'कर्णललाटात्- (४१३१६५) इति कन् । 'कर्णिका करिहस्ताप्रे करमध्यादुलावपि । क्रमुकादिच्छटां- शेन्जवराटे कर्णभूषणे । केणिका कथ्यतेऽत्यन्तसूक्ष्मवस्त्व- ग्निमन्थयोः' (इति मेदिनी) ॥ त्रिषूत्तरे | खान्तेभ्यः प्राक् ॥ वृन्दारकौ रूपिमुख्यौ प्रशस्तं वृन्दमस्य । 'शृङ्गवृन्दाभ्यामारकन्' ( वा० ५॥२॥ १२२) । 'वृन्दारकः सुरे पुंसि मनोज्ञश्रेष्ठयोस्त्रिषु’ (इति मेदिनी) ॥ एके मुख्यान्यकेवलाः ॥ १६ ॥ एति ॥ 'इण् गतौ' (अ०प०अ०) । 'उ० इण्भीका (३।४३) इति कन् । 'एकं संख्यान्तरे श्रेष्ठे केवलेतरयोस्त्रिषु' ( इति मेदिनी) ॥ स्याहाम्भिकः कोक्कुटिको यश्चादूरेरितेक्षणः । कुक्कुटीं पश्यति । ‘संज्ञायां ललाटकुक्कुट्यौ पश्यति' (४४) ४६) इति ठक् ॥ १ - इति प्रारभ्य कणिकाशब्दार्थबोधकत्वान्न प्रकृतोपयोगि ।