विशेष्यनिघ्नवर्गः १ ] निष्पक्कं कथितम् नीति ॥ निश्चयेन पक्कम् ॥ (१) ॥ ॥ कथ्यते स्म । 'कथे निष्पाके' ( भ्वा० प० से ० ) | क्तः ( ३ | २ | १०२) ॥ (२) ॥ * ॥ द्वे 'साकल्येन पक्कस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः पाके क्षीराज्यपयसां शतम् ॥ ९५ ॥ पेति ॥ श्रायते स्म । 'श्रा पाके' (अ० प० अ० ) । क्तः (३।२।१०२)। ‘शृतं पाके’ (६।१॥२७) इति साधुः ॥ (१) ॥ * ॥ एकम् 'क्षीरादिषु कृतपाकस्य ॥ निर्वाणो मुनवहाद नीति ॥ निर्धाति स्म । 'वा गतिगन्धनयोः' ( अ० प० (अ॰) । ‘गत्यर्था–’ (३।४।७२) इति तः । 'निर्वाणोडवाते' (८२२५०) इति साधुः । आदिना ‘निर्वाणो इस्ती' | ‘निम- मः’ इत्यर्थः । ‘निर्वाणमस्तंगमने निवृत्तौ गजमज्जने । संग- मेऽप्यपवर्गे च' इति विश्वः (मेदिनी) ॥ ( १ ) ॥ ॥ एकम् 'मुनिवहयादौ प्रयुक्तस्य' ॥ निर्वातस्तु गतानिले । निर्वेति ॥ गतश्वासावनिलश्च । तस्मिन् निवहने (?) । पृथक् पदं वा ॥ (१) ॥ ॥ एकम् 'अनिले गते सति निर्वातस्य ॥ पक्कं परिणते पेति ॥ परिणमति स्म । ‘णम प्रहत्वे' (भ्वा०प०अ०) अकर्मकत्वात् । क्तः (३|२|१०२ ) ॥ ( २ ) ॥ ॥ द्वे 'परि- णामं प्राप्तस्य' ॥ गूनं हन्ने कः ग्विति ॥ गूयते स्म । ‘गु पुरीषोत्सर्गे' ( तु०प० अ० ) । (१०२) | 'दुग्वोर्दीर्घश्च' (वा० ८८२४४) इति वयम् । –‘ल्वादिभ्यश्च' (८/२/४४ ) - इति मुकुटोक्तिश्चिन्त्या । तौदादिकत्वेनास्य ल्वादित्वाभावात् ॥ (१) ॥ ॥ हद्यते स्म । ‘इद पुरीषोत्सर्गे' (भ्वा० आ० अ० ) । क्तः (३।२।१०२) ॥ ( २ ) ॥ ॥ द्वे 'गुदनिष्काशितपुरीषस्य ॥ मीढं तु मूत्रिते ॥ ९६ ॥ मीति ॥ मियते स्म । 'मिह सेचने' (भ्वा०प० अ० ) । क्तः (३।२॥१०२) ॥ (१) ॥ * ॥ मूत्र्यते स्म | 'मूत्र प्रस्रावे' (चु० उ० से ० ) । क्तः (३।२।१०२) ॥ (२) ॥ ॥ द्वे ‘उप- स्थनिष्काशितमूत्रस्य' ॥ । ३८१ क्तः (३।२।१०२) । ‘सहिवहोरोदवर्णस्य' (६|३|११२) ॥ (१) ॥ ॥ क्षम्यते स्म । 'क्षमूष् सहने' ( दि० प० से० ) । ‘तः (३।२।१०२)। ‘अनुनासिकस्य -' (६|४|१५) इति दीर्घः ॥ (२) ॥ *॥ द्वे 'क्षमां प्रापितस्य' ॥ उद्घान्तमुद्गते । उद्वेति ॥ उम्यते स्म । 'टुवम उद्भिरणे' ( भ्वा०प० गतौ’ ( भ्वा०प० अ० ) | फः (३।२॥१०२) ॥ (२) ॥*॥ से०) । क्तः (३।२।१०२) ॥ (१) ॥ ॥ उद्गम्यते स्म । 'ग द्वे 'वमित्वा त्यक्तस्यान्नादेः ॥ दान्तस्तु दमिते देति ॥ दम्यते स्म । 'दमु उपशमे' ( दि ० प ० से ० ) जिन्तः । तः (३|२|१०२) । ‘वा दान्तशान्त–’ (७७२। २७) इति । 'दन्तस्तु दमितेऽपि स्यात्तपःक्लेशसहे त्रिषु' (इति मेदिनी) । यत्तु मुकुटेन- अणिजन्तस्य निपातन मुक्तम्- | तच्चिन्त्यम् । 'वा दान्त -' इत्यत्र 'णे:' इत्यनुवर्त- नातू । अणिजन्तस्य 'यस्य विभाषा' (७१२।१५) इति नित्य- निषेधात् निपातं विनापि सिद्धत्वात् ॥ (१) ॥*॥ (२) ॥*॥ द्वे 'कृतं दमनं यस्य वृषभादेस्तस्य' ॥ शान्तः शमिते पुष्टे तु पुषितम् प्विति ॥ पुष्यते स्म । 'पुष पुष्टौ' (दि०प० अ० ) तः । (३।२।१०२) ॥ (१) ॥*॥ भौवादिकस्य विट् ॥ (२) ॥*॥ द्वे 'यस्य पोषणं कृतं तस्य' ॥ सोढे क्षान्तम् शेति ॥ शम्यते स्म । 'शमु उपशमे' ( दि०प० से० ) ण्यन्तः । क्तः (३।२।१०२ ) | – शान्तो रोगः । विवृत्त इत्य- र्थः - इति यत् केवैलस्य निपातनं मुकुटेन स्वीकृतम् । तच्चि- न्त्यम् | ‘वा दान्त - ' इत्यत्र 'णेः' इत्यनुवर्तनात् । 'शान्तोऽ- तिमुक्तरसयोः पुंसि त्रिषु शमान्विते । अव्ययं धारणे शा न्तम् ' ( इति मेदिनी) ॥ (१) ॥ ॥ (२) ॥ * ॥ द्वे 'शमनं प्रापितस्य' ॥ प्रार्थितेऽर्दितः ॥ ९७ ॥ प्रेति ॥ प्रार्थ्यते स । 'अर्थ याच्वायाम्' (चु०आ० से ० ) । क्तः (३।२।१०२) ॥ ( १ ) ॥ * ॥ अर्यते स्म । 'अर्द गतौ याचने च ' ( भ्वा०प० से ० ) | क्तः ( ३ | २ | १०२) । 'अर्दि- तं याचितेऽपि स्याद्वातव्याधौ च हिंसिते' ( इति मेदिनी ॥ (२) ॥ * ॥ द्वे 'याचितस्य' ॥ शप्तस्तु ज्ञपिते नेति ॥ ज्ञप्यते स्म । मारणादौ ज्ञा मित् । ण्यन्तः । तः (३|२|१०२) | 'वा दान्त - ' (७१२ २७) इति साधुः ॥ (१) ॥*॥ (२) ॥*॥ द्वे ‘बोधं प्रापितस्य' ॥ छन्नश्छादिते तेति ॥ छायते स्म । 'छद अपवारणे' (चु० उ० से ० ) । १ - 'ओहाङ: ' ते 'उद्धानम्' इति 'ओ वै शोषणे' इत्यस्मात् ते 'उद्वानम्' इति वा कन्चित्पाठः - इति मुकुटरहस्यम् । २ - पूर्व- वण्णिच् । पक्षे इडभावः णिलोपः- इति पाठस्य मुकुटपुस्तकेषु स्पष्ट सविति ॥ सहयते स्म । 'षह मर्षणे' (स्वा० आ० • से० ) | | मुपलभ्यमानत्वेनेदं मुकुटखण्डनं प्रतारणापरमेव ॥
पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३९०
दिखावट