पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] प्रत्ययोऽभिनवो नव्यो नवीनो नूतनो नवः ॥ ७७ ॥ व्याख्यासुधाख्यव्याख्यासमैतः नूतश्च प्रेति ॥ प्रतिनवमग्रमस्य ॥ (१) ॥ * ॥ अभिनवते । णु स्तुतौ’ ( अ॰ प॰ अ॰ ) । ‘ऋदोरप्' (३१३१५७) ॥ (२) ॥ * ॥ 'अचो यत्' (३|१|९७ ) ॥ (३) ॥॥ नव एव । 'न- वस्य नूरादेशस्त्नपूतनपुखाश्च प्रत्ययाः' (वा० ५१४ | ३० ) ॥ (४) ॥*॥ (५) ॥*॥ (६ ) || || नूयते | अप् (३|३१५७) ॥ (७) |||| सप्त 'नूतनस्य' || सुकुमारं तु कोमलं मृदुलं मृदु । स्विति ॥ सुष्टु कुमार्यते । 'कुमार क्रीडायाम्' चुराद्य- दन्तः । 'पुंसि -' (३|३|११८) इति घः | ‘एरच्’ (३|३| ५६) वा । यद्वा सुकाम्यते । 'कमेः किदुच्चोपधायाः' ( उ० ३।१३८) इत्यारन्, अत उत्वं च ॥ (१) ॥ ॥ बाहुलैकाद- लच्, अत उत्वं च । 'कोमलं मृदुले जले' इति विश्वः (मे- दिनी) ॥ (२) ॥ ॥ मृदुर्गुणोऽस्यास्ति । 'सिध्मादिभ्यश्च (५ | २।९७) इति लच् ॥ (३) ॥ * ॥ मृयँते | 'मृद क्षोदे' ( या ० प० से ० ) । ‘प्रथिमृदिभ्रस्जाम् - ' ( उ० १९२८) इति कुः संप्रसारणं च । मृगय्वादित्वात् ( उ० ११३७) कुः – इति मुकुटो व्यर्थः । 'मृद्वतीक्ष्णेच कोमले' इति हैमः ॥ (४) ॥*॥ चत्वारि 'कोमलस्य' ॥ अन्वगन्वक्षमनुगेऽनुपदं क्लीबैमव्ययम् ॥ ७८ ॥ अन्वेति ॥ अन्वञ्चति । 'अञ्जु गतौ ' ( भ्वा०प० से ० ) | ३७५ किन् (३।२।५९) ॥ (१) | | अनुगतमक्षमिन्द्रियम् ॥ (२) ॥ *|| अनु गच्छति | 'गम्ऌ गतौ' (भ्वा०प० अ०) । ‘अन्ये- भ्योपि-' (वा० ३१२९४८ ) इति डः ॥ ( ३ ) ॥ ॥ पदस्य पश्चात् पश्चादर्थेऽव्ययीभावः (२|१|६ ) ॥ (४) ॥*॥ चत्वारि 'पश्चादित्यर्थे' ॥ प्रत्यक्षं स्यादैन्द्रियकम् प्रेति ॥ अक्षमिन्द्रियं प्रतिगतम् । 'अत्यादयः - ' (वा० २ | २|१८ ) इति समासः ॥ ( १ ) ॥ ॥ इन्द्रियेणानुभूयते । कुलालादित्वात् (४।३।११८) बुञ् ॥ (२) ॥ * ॥ द्वे 'इन्द्रि- यज्ञानस्य' || अप्रत्यक्षमतीन्द्रियम् । अप्रेति ॥ भिन्नं प्रत्यक्षात् ॥ ॥ 'मनध्यक्षम्' इति पाठः – इत्यन्ये | अक्षेष्वधि | अध्यक्षम् । विभक्त्यर्थेऽव्ययी भावः (२|१|६ ) | अतिक्रान्तमध्यक्षम् ॥ (१) ॥ ॥ इन्द्रि- यमतिकान्तम् ॥ (२) ॥ ॥ द्वे 'इन्द्रियेणाज्ञातस्य' || अप्येक सर्ग एकाग्योऽप्येकायनगतोऽपि च । एकतानोऽनन्यवृत्तिरेकायैकायनावपि ॥ ७९ ॥ एकेति ॥ एकं तानयति । 'तनु श्रद्धोपकरणयोः' ( चु उ० से० ) । 'कर्मण्यण् (३|२|१ ) | एकस्तानो विस्तारोऽस्य, इति वा ॥ (१) ॥*॥ न अन्या वृत्तिरस्य ॥ (२) ॥ ॥ एकम् एकस्मिन् वा अप्रमस्य || ( ३ ) || || एकमयनमस्य ॥ (४) ॥ *|| एक एकस्मिन् वा सर्गो निश्चयोऽस्य ॥ (५) ॥*॥ एकमभ्यं ज्ञेयमस्य ॥॥ प्रज्ञाद्यणि (५१४१३८) 'ऐकाम्यः' इति ॥ (६) ॥ * ॥ एकं च तदयनं च एकायनं गतः । एक- स्मिन्नयने गतं ज्ञानमस्य इति वा ॥ (७) ॥ * ॥ सप्त 'एकाग्रस्य' || पुंस्यादि: पूर्व पौरस्त्यप्रथमाद्याः १ – सिद्धान्तकौमुद्यां तु – 'कुटिक शिकौतिभ्यः प्रत्ययस्य मुद्र' । बाहुलकाद्गुणः कोमलम् – इत्युक्तम् । २ - ऋकारवतो धातोरुपादाने 'संप्रसारणं च' इत्युक्तिर्भवदीया व्यर्था । तसात् रेफवतो भौवादिक- स्योपन्यासो युक्तः । अत एव भवज्जनकेनापि प्रकृतसूत्रव्याख्यायां, 'त्रयाणां कु: संप्रसारणम्' इत्येवोक्तम् । ३ – पीयूषा ख्यव्याख्याया पुमिति ॥ आ प्रथमं दीयते गृह्यते । 'उपसर्गे घोः किः' मपि अनुपदशब्दस्यैवाव्ययीभावत्वमुक्तम् । स्वामिना तु — 'अन्- | (३/३/९२ ) ॥ (१) ॥ * ॥ पूर्वति | 'पूर्व पूरणे' ( भ्वा०प० अन्वक्ष-अनुपद-' इत्येतत्रयमव्ययं वर्तते । क़ीबत्वं तु (अन्वक्ष-अनु- पद–हृति) द्वयोः–इत्युक्तम् । युज्यते चान्वकूशब्दस्याव्ययत्वम् । 'अन्वग्ययौ मध्यमलोकपालः' इत्यत्र 'अन्वङ्' इति रूपापत्तेः । 'ताम्' इत्यत्र ‘कर्तृकर्मणो:--' (२|३|६५) इति षष्ठयापत्तेश्च । अव्ययत्वे तु 'न लोकाव्यय - (२।३।६९) इति षष्ठीनिषेधेन 'अव्ययात्' (२१४१८२) इति सुपो लुका लुप्तत्वेन न काप्यनुपपत्तिः । ग्रामं यातीत्यादावानुभविकस्य याधात्वर्थव्यापारजन्य विलक्षणसंयोगाश्रयत्वस्य गव्यभावेन तामित्यस्य 'ययौ' इत्येतत्कर्मत्वाभावात् । 'ययौ' इत्येतत्कर्म तु 'निलयाय' इति तु प्रायुक्तमेव । नहि सभीचोरेक तर क्रियाकमैत्व मे कतरस्य भवति । 'पुत्रेण सहागतः पिता' इत्यर्थे 'पुत्रमागच्छति स्म पिता' इति प्रयोगाभावात् । गोराज्ञोश्च 'छायेव तां भूपतिरन्वगच्छत्' इत्यनेन सम्यक्त्वप्रतिपाद- नात् । तत्र च 'तृतीयार्थे' इत्यनेनानोः कर्मप्रवचनीयसंज्ञेति दिकू । से ० ) | अच् (३।१।१३४) । 'पूर्व तु पूर्वजे । प्रागयं श्रुतमे- देषु' (इति हैमः ) ॥ (२) ॥ * ॥ पुरो भवः | 'दक्षिणापश्चात्पु रसस्त्यक्' ( उ० ४१२९८ ) ॥ ( ३ ) | || प्रथते । 'प्रथ | प्रख्याने' (भ्वा आ० से ० ) । 'प्रथेरमच्' (उ० ५१६८ ) । 'प्रथमस्तु भवेदादौ प्रधानेऽपि च वाच्यवत् ' ( इति मेदिनी) ॥ ( ४ ) ॥ * ॥ आदौ भवः । विगादित्वात् (४१३१५३) यत् ॥ (५) ॥ * ॥ पञ्च 'आद्यस्य' || १- प्रथमम् आदीयते गृह्यते - इति मुकुटपाठ एव साधी: यान् । भवलिखितपाठे 'आ' इत्यस 'प्रथमम्' इत्यर्थकत्व संभवेऽपि 'दीयते' इत्यस्य 'गृह्यते' इत्यर्थकताया विना लक्षणं सर्वसुबोध्य- त्वाभावात् ॥