पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्य निम्नवर्गः १ ] पादित्वात् ( उ० १।१०६) कलच् । 'चपलश्चोरणे चले । क्षणिके चिकुरे शीघ्रं पारदे प्रस्तरान्तरे । मीनेऽपि चपला तु स्यापिप्पल्यां विद्युति श्रियाम् | पुंश्चल्याम्' इति हैमः ॥ ( १ ) ॥ ॥ 'चि' इति अव्यक्तं कुरति । 'कुर शब्दे' ( तु० प० से॰) । ‘इगुपध—’ (३।११३४) इति कः | 'चिकुरो- sहौ गृहबभ्रौ केशे चञ्चलशैलयोः । पक्षिवृक्षभिदोश्चापि ' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे 'दोषमनिश्चित्य वधादिकमा चरतः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । दोषैकहकू पुरोभागी दविति ॥ दोषे एकस्मिन् दृक् ज्ञानं यस्य ॥ (१) ॥*॥ पुरः पूर्वं भजते । ‘भज सेवायाम्' । 'संवृचा' (३|२|१४२) इति घिनुण्ण ॥ (२) ॥*॥ द्वे 'दोषैकग्राहकस्य' || निकृतस्त्वनृजुः शठः ॥ ४६ नीति ॥ निकृन्तति । ‘कृती छेदने' (तु० प० से ० ) । 'इगुपध-' (३।१।१३५) इति कः । 'निकृतं विप्रलब्धे स्या- च्छठे विप्रकृते त्रिषु’ (इति मेदिनी ) ॥ ( १ ) ॥*॥ ऋजुवि- रुद्धः । ‘नञ्’ (२।२।६) इति तत्पुरुषः । ‘नलोपो नञः' (६। ३॥७३) ॥ (२) ॥ ॥ शठति 'शठ कैतवे च' (भ्वा०प० से०)। ' पचाद्यच् (३।१।१३४ ) | 'शठो मध्यस्थ पुरुषे धूर्ते धत्तूरकेऽपि च' इति हेमचन्द्रः ॥ (३) ॥ * ॥ त्रीणि 'वक्रा- शयस्य' ॥ कर्णेजपः सूचकः स्यात् केति ॥ कर्णे जपति । 'जप व्यक्तायां वाचि' (भ्वा०प० से०) । 'स्तम्बकर्णयोः-’ (३|२|१३) इत्यच् | 'हलदन्तात् - ' (६।३।९) इत्यलुक् ॥ (१) ॥*॥ सूचयति । ‘सूच पैशुन्ये' (चु०) दन्त्यादिरदन्तः । ण्वुल् (३ | १ | १३३) | 'सूचकः शुनि दुर्जने । कथके सीवनद्रव्ये मार्जारे वायसेऽपि च' इति हैमः ॥ (२) ॥ ॥ द्वे 'कर्णेजपस्य' || पिशुनो दुर्जनः खलः । पीति | पिंशति । 'पिश अवयवे' ( तु०प० से ० ) । ‘क्षुधिपिशिमिथिभ्यः कित्’ ( उ० ३१५५) इत्युनन् | - बा- हुलकादुनन्—इति मुकुटोक्तिस्त्वेतत्सूत्रास्मरणमूलिका | पि- शुनं कुङ्कुमेऽपि च । कपि च काके ना सूचकक्रूरयोस्त्रिषु । पृक्कायां पिशुना स्त्री स्यात्' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ दुष्टो जनः । 'कुगति-' (२|२|१८ ) इति समासः ॥ (3) ॥*॥ खलति | ‘खल संचये’ (भ्वा०प० से ० ) | अच् (३ | १।१३४)। खं छिद्रं लाति वा । 'खलः कल्के भुवि स्थाने क्रूरे कर्णेजपेऽधमे' इति हैममेदिन्यौ || ( ३ ) | || त्रीणि 'परस्परभेदकस्य' ॥ स्वामी तु सूचकपर्याय एवैतानाह ॥ नृशंसो घातुकः क्रूरः पापः से०) । ‘कर्मण्यण्’ (३।२।१ ) |-अजन्तः इति मुकुटोक्तं न स म्यक् | अजपवादस्याणो जागरूकत्वात् ॥ (१) ॥ ॥ हननशीलः । 'लषपत - (३।२।१५४) इत्युकज् ॥ ( २ ) ॥ * ॥ कृन्तति । 'कृती छेदने' (तु० प० से ० ) । 'कृतेश्छः क्रू च' ( उ० २ | २१) इति रक् प्रत्ययो धातोः क्रू आदेशश्च । यत्तु मुकुटेन— कृणाति — इति विगृह्य कृतेः 'दूरादयश्च' इति रक्कू आदे- शव, क्रुडो वा दूरादित्वाद्रक् दीर्घः - इत्युक्तं तदुपयुक्तसूत्रा- स्मरणमूलकम् परस्परविरुद्धं च । 'दूरादयश्च' इति सूत्रं च नास्ति । 'क्रूरस्तु कठिने घोरे नृशंसेऽप्यभिधेयवत्' इति विश्वः (मेदिनी) ॥ (३) ॥ ॥ पापमस्यास्ति | अर्शआद्यच् (५१२/१२७) ॥ ( ४ ) ॥ * ॥ चत्वारि 'परद्रोहकारिणः' ॥ धूर्तस्तु वञ्चकः ॥ ४७ ॥ ध्विति ॥ 'ध्रुति | 'धुर्वी हिंसायाम् ' ( भ्वा०प० से ० ) | 'हसिमृग्रिण्- ' ( उ० ३१८६) इति तन् । राल्लोपः (६।४।२१) । 'धूर्त तु खण्डलवणे धूर्तो धत्तूरमायिनोः' इति हेमचन्द्रः ॥ (१) ॥ ॥ वञ्चयति । 'वञ्च गतौ' ( भ्वा०प० से ० )। बत्रौ च जम्बुके' इति विश्वमेदिन्यौ ॥ (१) ॥*॥ द्वे पर- यन्तः | ण्वुल् (३|१|१३३ ) | 'वञ्चकस्तु खले धूर्ते गृह- प्रतारकस्वभावस्य' ॥ अज्ञे मूढयथाजातमूर्खवैधेयवालिशाः । अज्ञ इति ॥ न जानाति । 'इगुपध- ' (३।१।१३५) इति कः । 'अज्ञस्तु जडमूर्खयोः' इति विश्वः ॥ (१) ॥ ॥ मुह्यति स्म । ‘मुह वैचित्ये' (दि० प० अ० ) । गत्यर्थ - (३१४| ७२) इति क्तः । 'मूढस्तन्त्रितबालयोः' इति विश्वः ॥ ( २ ) ॥॥ जातं जन्मकालविशेषमनतिक्रम्य वर्तते । पदार्थानति- वृत्तावव्ययीभावः (२|१|६) तदस्यास्ति । अर्शआयच् (५॥२॥ १२७) ॥ (३) ॥ ॥ मुह्यति । ‘मुहेः खो मूर्च’ (उ० ५। २२ ) ॥ (४) ॥ * ॥ विधेयं विधानम् । तस्यायमधिकारी । अविद्यावद्विषयत्वाच्छास्त्राणाम् । 'तस्येदम्' ( ४ | ३|१२० ) इत्यण् ॥ (५) ॥*॥ बलिशस्य मत्स्यवेधनस्यायम् | मूर्खला- दपूज्यत्वात् । 'बालिशस्तु शिशौ मूर्खे' ( इति मेदिनी) ॥ (६) ॥॥ षट् 'मूर्खस्य' ॥ कर्ये कृपणक्षुद्रकिंपचान मितंपचाः ॥ ४८ ॥ केति ॥ कुत्सितोऽर्थः स्वामी । 'कुगति' (२|२|१८) इति समासः । 'कोः कत्तत्पुरुषेऽचि’ (६।३।१०१) ॥ (१) ॥ * ॥ कृपां करोति । 'तत्करोति - ' ( वा० ३।१।२६) इति णिच् । कृप्यते ‘कृयल्युटो-’ (३|३|११३ ) इति कर्मणि ल्युट् | अजादेशस्य स्थानिवत्त्वाचन गुणः (७|३|८६) । यद्वा कृप्यते कृपाविषयीक्रियते । ‘कृपू सामर्थ्य' (भ्वा० आ० से॰) । बाहुलकात्म्युन् । ल्युटि (३|३|११३) वा संज्ञापूर्वकत्वाद्रुणा- भावः । बाहुलकालत्वाभावः । यद्वा 'क्रप कृपायां गतौ च' नीति || नॄन् शंसति 'शंसु हिंसायाम्' ( भ्वा०प० । ( भ्वा० आ० से० ) इत्यस्य बाहुलकात्संप्रसारणम् । यद्वा