पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ अमरकोषः । वागीशो वाक्पतिः समौ । वेति ॥ वाचामीशः ॥ (१) ॥ ॥ वाचां पतिः ॥ ( २ ) ॥ ॥ द्वे 'पटुवचनस्य' ॥ वाचोयुक्तिपटुर्वाग्मी वावदूकोऽतिवक्तरि ॥ ३५ ॥ वेति ॥ वाचो युक्तिः सयुक्तिकत्वम् । 'वाग्दिक्पश्य- यः - (वा० ६।३।२१) इत्यलुक् | तत्र पटुः ॥ (१) ॥ * ॥ प्रशस्ता वागस्य । ‘वाचो ग्मिनिः' (५।२।१२४) | 'वाग्मी पटौ सुराचार्ये' इति विश्वमेदिन्यौ || ( २ ) ॥ * ॥ कुर्वादिषु (ग० ४/१/१५१) 'वावदूक' शब्दपाठाद् 'वदेः' ऊकः ॥ (३) ॥ ॥ अति वक्ति | साधुकारिणि 'तृन्' (३|२|१३५ ) | तृच् (३।१।१३३) वा ॥ (४) ॥ ॥ चत्वारि 'वावदूकस्य' ॥ स्याजल्पाकस्तु वाचालो वाचाटो बहुगर्हावाक् । स्येति ॥ जल्पति । 'जल्प व्यक्तायां वाचि' ( भ्वा०प० से० ) । 'जल्पभिक्ष-' (३/२/१५५) इति षाकन् । षित्वात् स्त्रियां ङीष् ॥ (१) ॥॥ बहुगर्खा वागस्य | 'आलजाटचौ बहुभाषिणि' (५।२।१२५) । 'कुत्सायामिति वाच्यम्' (वा० ५॥२॥१२५) ॥ (२) ॥*॥ (३) ॥ * ॥ ( ४ ) ॥ ॥ चत्वारि 'बहुगर्ह्यभाषिणः' ॥ दुर्मुखे मुखराबद्धमुखौ द्विति ॥ दुर्निन्दितं मुखमस्य | 'दुर्मुखः कपिभिन्नाग- भिदोर्ना मुखरे त्रिषु' इति विश्वः (मेदिनी) ॥ ( १ ) ॥ ॥ निन्दितं मुखमस्य । 'खमुख - ' (५/२/१०७) इति रः । मुख शब्दो लक्षणयात्र वचनपरः ॥ (२) ॥ ॥ न बद्धं नियमि- तं मुखमस्य ॥ (३) ॥॥ त्रीणि 'अप्रियवादिनः' ॥ शत्रुः प्रियंवदे ॥ ३६॥ | शेति ॥ शक्नोति । 'शल 'मूशक्यबिभ्यः क्लः' (उ० वदति । 'प्रियवशे बदः द्वे 'प्रियवादिनः' || लोहलः स्यादस्फुटवाग लविति ॥ लोहनम् । 'लुह गायें' इति बोपदेवः । भावे घञ् (३।३।१८) । लोहं लाति | 'आतोऽनुप - ' ( ३|२|३) इति कः । यद्वा रोहयते हुलकादलच् । कपिलिकादित्वात् (वा० ८|२|१८) लत्वम् | 'लोहलः शङ्खलाघार्येऽव्यक्तवा- चिनि च त्रिषु' इति विश्वः (मेदिनी) हेमचन्द्रौ ॥ (१) ॥ * ॥ न स्फुटा वागस्य ॥ (२) ॥ * ॥ द्वे 'अस्पष्टभाषितुः' ॥ गर्ह्यवादी तु कद्वदः । शक्तौ' (स्वा०प० अ० ) । ४११०८) । (१) ॥*॥ प्रियं खच् ' ( ३१२१३८ ) || ( २ ) ॥ ॥ [ तृतीयं काण्डम् समौ कुवादकुचरौ सेति ॥ कुत्सितो वादोऽस्य ॥ (१) ॥ ॥ कुत्सितं चर- ति । अच् (३।१।१३४) ॥ (२) ॥ * ॥ द्वे 'कुकथनशी- लस्य' | गेति ॥ गह्यं वदति । 'सुप्यजातौ ' (३।२।७८) इति णिनिः ॥ (१) ॥*॥ कुत्सितं वदति । 'रथवदयोश्च' (६|३| १०२) इति कोः कत् ॥ (२) ॥ * ॥ द्वे ‘दुर्भाषिणः' ॥ •स्यादसौम्यस्वरोऽस्वरः ॥३७॥ स्येति ॥ असौम्यो रूक्षः खरो यस्य ॥ ( १ ) ॥ ॥ अप्र- शस्तः खरो यस्य ॥ (२) ॥*॥ द्वे 'काका दिवदूक्षखरस्य' ॥ - |रवणः शब्दनः रेति ॥ रवणशीलः | ‘रु शब्दे' (अ०प०अ०) । 'चल- नशब्दार्थात् -' (३।२।१४८) इति युच् ॥ (१) ॥ ॥ शब्द नशील: । 'शब्द शब्द क्रियायाम्' ( चु० उ० से ० ) युच् ( ३ | ३।१४८) ॥ (१) ॥*॥ द्वे 'शब्दकरणशीलस्य' || नान्दीवादी नान्दीकरः समौ । नेति ॥ नान्दीवदनशीलः | 'सुपि' (३|२|७८ ) इति वदेर्णिनिः ॥ (१) ॥ * ॥ नान्दीं करोति वदति 'दिवाविभा- ' (३।२।२१) इति टः ॥ (२) ॥ ॥ 'आशीर्वचन संयुक्ता स्तुति - र्यस्मात्प्रवर्तते । देवद्विजनृपादीनां तस्मान्नान्दीति कीर्त्यते' इति भरतः ॥ * ॥ 'नाटकादौ मङ्गलार्थ मेर्यादिवादकस्य' द्वे ॥ जडोsशे जेति ॥ जलति । 'जल घातने ' ( भ्वा०प० से ० ) । पचा यच् (३।१।१३४) । डलयोरभेदः । 'इष्टं वानिष्टं वा सुखदुःखं वा न वेत्ति यो मोहात् । परवशगः स भवेदिह नित्यं जडसं- ज्ञकः पुरुषः', 'जडा स्त्रियाम् | शूकशिम्ब्यां हिमग्रस्तमूका- प्रज्ञेषु’ इति विश्वमेदिन्यौ ॥ (१) ॥ ॥ न जानाति । ‘इगुप- ध - ' (३॥१॥१३५) इति कः ॥ ( २ ) ॥ * ॥ 'जडमतेः' ॥ एडमूकस्तु वक्तुं श्रोतुमशिक्षिते ॥ ३८ ॥ एडेति ॥ एडो बधिरश्चासौ मूकञ्च | ('एडमूकोऽन्य- | लिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते' इति मेदिनी) ॥ ॥ (‘अने- डमूकः' इति पाठान्तरे ‘नास्येडमूकोऽस्मात्' इत्यर्थः । 'त्रिलि झोऽनेडमूक: स्याच्छठे वाक्श्रुतिवर्जिते' इति रभसः ॥ (१) ॥॥ एकम् 'भाषणश्रवणयोरनर्हस्य' ॥ तूष्णींशीलस्तु तूष्णीकः त्विति ॥ तूष्णीं शीलमस्य ॥ (१) ॥ * ॥ 'शीले को म लोपञ्च' (वा० ५।३।७१ ) । 'केऽण : ' (७१४|१३) इति नाणो हवः मलोपसामर्थ्यात् । अन्यथा ठमेव विदध्यात् । - 'शी- लम्' (४१४१६१) इति ठकि 'अव्ययानाम्-' (वा० ६१४१ १४४ ) इति टिलोपेन सिद्धत्वात् — इति मुकुटः | तैन । क- १- ङीप्ङीषोः फलामेदं वदता स्वरंकृतभेदस्यानङ्गीकृतत्वेन पूर्वापरविरुद्धमेतत् | बहुत्र 'संज्ञापूर्वकत्वेन वृज्यभावस्य स्वयमप्यङ्गी- कृतत्वादकिंचित्करं च ॥