पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ प्रथमं काण्डम् व्योम पक्षिणश्च विहायसः' इति शाश्वतः । 'विहायाः शकु- नौ पुंसि गगने पुंनपुंसकम्' ॥ षोडश 'आकाशस्य' ॥ इति व्योमवर्गविवरणम् ॥ मेषैः । ‘णह बन्धने’ (दि० उ० अ० ) । 'नहेर्दिवि भश्च' ( ( उ० ४१२११) इत्यसुन् अश्वान्तादेशः । न बभस्तीति वा विप् (३।२।१७८) । नभते । ' हिंसायाम्' (भ्वा० आ० (से०) । असुन (ड.० ४१८९) । सान्तम् । 'नभः लीवं व्योनि ‘पुमान् घने । घ्राणश्रावणवर्षासु विसतन्तौ पतहे' । "नभो व्योनि नभा मेघे श्रावणे च पतद्ब्रहे । प्राणे मृणाल- • सूत्रे च वर्षासु च नभाः स्मृतः' इति विश्वः ॥ ॥ 'अलवि- चमितमि–’ (उ० ३।११७) इत्यसप्रत्यये तु नभसमदन्त- मपि । नभसः पुंसि इत्युण दिवृत्तौ । ('नभसस्तु नदीपतौ । मगने प्रावृषि’) ॥ (७) ॥ ॥ यावापृथिक्योरन्तरीक्ष्यते । ‘ईक्ष दर्शने' (भ्वा० आ० से.०)। कर्मणि घन् (३।३।१९) । वेदे तु छान्दसं ह्रखत्वम् । अन्तर् ऋक्षा (णि नक्षन्ना) ण्यस्य । -पृषोदरादित्वात् (६।३।१०९) इत्वम् । अस्मिन् पक्षे 'अन्त- रिक्षम्' इति ह्रस्वमध्यः । अधिकरणव्युत्पत्तिस्तु नोचिता । ल्युटा धजो बाधप्रसङ्गात् ॥ (८) ॥॥ गच्छन्त्यनेन स्मिन्वा । ‘गमेर्गश्च' (उ० २।७७) इति युच् गश्चान्तादेशः ॥ (९) ॥ * ॥ नास्त्यन्तो यस्य । ('अनन्तः केशवे शेषे पुमाननवधौ त्रिषु । अनन्ता च विशल्यायां शारिवादूर्वयोरपि ॥ कणा दुरालभा- पथ्यापार्वत्यामळकीषु च । विश्वंभरागुडूच्योः स्यादनन्तं सुर वर्त्मनि') ॥ (०) * सुराणां वर्म ॥ (११) ॥ * ॥ खन्यते । ‘खनु अवदारणे’ ( भ्वा० उ० से ० ) । डः (वा० ३। २॥१०१) ‘खं खः संविंदि व्योमनीन्द्रिये । शून्ये बिन्दौ मुखे खस्तु सूर्ये' इति हैमः । खर्वत्यस्मिन् वा । 'खर्ब गतौ' ( भ्वा० प० से ० ) । डः (वा० ३।२।१०१ ) ॥ (१२) ॥ * ॥ वि विश्वत इति व्याप्नोति । इणः (अ० प ० अ०) शतृ ( ३ |२| १२४) । बियच्छति न विरमति वा । विपूर्वाद्यमेः (भ्वा० प॰ अ॰) ‘अन्येभ्योऽपि-’ (३१२११७५) इति क्विप् । 'क्वौ च ●गमादीनाम्' (वा० ६६४/४० ) इति मलोपे तुक् (६।१।७१) ॥ (१३) ॥ ॥ विष्णोः पदम् आस्पदम् स्वरूपं वा । विष्णोः मदं क्रमोऽत्र - इति स्वामी । तन्न | व्यंधिकरणबहुव्रीहिप्रस- जात् । ('विष्णुपदं नभोऽब्जयोः । विष्णुपदस्तु क्षीरोदे विष्णुपदी सुरापगा । संक्रान्तिर्द्वारिका चापि ) ॥ (१४) ॥ * ॥ आ समन्तात् काशन्ते सूर्योदयोऽत्र । 'काइट दीप्तौ' (भ्वा० आ० से ० ) । 'हलव' (३।३।१२१ ) इति घञ् ॥ (१५) ॥ ॥ विशेषेण हाययति गमयति विमानादीन् । 'हृय गतौ' ( भ्वा० दु० से ० ) । यन्तादू असुन ( उ० ४११८९) । विजहाति भुवं वा 'वहिाधान्भ्यश्छन्दसि ( उ० ४२२१) इत्यसुन् । णिदित्यस्यानुवृत्तेर्युक् (७३१३३) - विपूर्वाज्जहा- तेर्बाहुलकादसुन - इति मुकुटः । तन्न । असुनो धातुमात्रात (उ० ४।१८९) चिह्नितत्वेन बाहुलकस्यानुपयोगात | यकार- स्याश्रवणप्रसङ्गाच्च ॥ (१६) ॥ ॥ ‘वा तु पुंसि -' इति तुश- ब्दादुत्तरान्त्रयि । तेन आकाशः विहायाश्च 'विदुर्विहायसं दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः । ( दिश इति ॥ ) दिशत्यवकाशम् । 'दिश अतिसर्जने' ( तु० उ० अ० ) क्विन् 'ऋत्विग्दधृक् -' (३।२।५९) इत्यादिना निपा- तनात् । यत्तु मुकुटः कर्मण्येव क्किन्, कर्तरि तुक्किबेव इत्याह । तन्निर्मूलम् आकरविरुद्धं च ॥ ॥ भागुरिमतेन टापि दिशा | 'दिक् तु स्त्रियां दिशा दान्ती कब्र देव- वधूः पविः' इति शब्दार्णवः ॥ (१) ॥*॥ क़कते । ‘कक लौल्ये' (भ्वा०प० से ० ) बाहुलकादुभ् प्रत्ययः । यद्धा-कं वातं स्कुनाति विस्तारयति । 'स्कुभु' इति सौन्त्राद्धातोः क्विप् (३|२|१७८ ) | पृषोदरादित्वात् (६।३।१०९) सलोपः । 'ककुपू स्त्रियां प्रवेणीदिक्शोभासु चम्पकसजि' ।— केनादि- त्येन जलेन वा कुत्सितानि भानि नक्षत्राण्यत्रेति टावन्तोऽपि इति कश्चित् । तन्न । व्यधिकरणबहुव्रीहिप्रसङ्गात् ॥ (२) ॥॥ काशते । 'कास्ट दीप्तौ' (भवा० आ० से ० ) । 'हनिकुचि- ' (उ० २१२) इति क्थन् । ('काष्ठा दारुहरिद्रायां कालमान- प्रकर्षयोः । स्थानमात्रे दिशि च स्त्री दारुणि स्यान्नपुंसकम् ) ॥ (३) ॥ * ॥ आ समन्ताद् अश्नुते व्याप्नोति । 'अशु व्याप्तौ (स्वा० आ० से ० ) | अच् (३ | १ | १३४) । ('आशा तृष्ण/दिशोः स्त्रियाम्') ॥ ( ४ ) ॥ ॥ हरन्ति नयन्त्यनया | 'हृसृरुहियुषि- भ्य इतिः' ( उ० १९९७ ) | ‘हरिद्दिशि स्त्रियां पुंसि हयवर्णवि- शेषयोः । अत्रियां स्यात्तृणे ॥ (५) ॥ * ॥ ता इत्यनेन स्त्रीत्वं व्यनक्ति | दिशां बहुत्वाद्बहुवचनम् ॥ पञ्च 'दिशः' ॥ प्राच्यपाचीप्रतीच्यस्ताः पूर्वदक्षिणपश्चिमाः ॥ १ ॥ उत्तरा दिगुदीची स्यात् ( प्राच्येति ॥ ) प्राथम्ये प्रशब्दोऽत्र | प्राञ्चति प्राप्नोति सूर्यम् । 'अञ्जु गतिपूजनयोः' (भ्वा०प० से ० ) । 'ऋत्विग्-' (३१२१५९) इत्यादिना क्विन् प्रत्ययः । प्राञ्चति रविरस्याम् । बाहुलकादधिकरणे क्विन्- इति मुकुटः | तन्न | बाहुलकस्या- गतिकगतित्वात् । एवमग्रेऽपि बोध्यम् ॥ ( १ ) ॥*॥ अह्नो मध्येऽञ्चत्यस्याम् | अपाची । 'अप' इत्यव्ययं मध्यार्थेऽपदि- शमितिवत् । अपाञ्चति सूर्यम् इत्युचितम् । कर्तरि कृद्विधा- नातू । अवाची - इत्यपपाठ एव । अवपूर्वस्याश्च तेरधोमुखी भावे वृत्तेः । स्वामी त्ववशब्दस्य मध्यार्थतामाह ॥ ( १ ) ॥ ॥ प्रति पश्चाद् दिनान्तेऽञ्चति सूर्यम् । सूर्योऽस्याम् इति तु दुष्टम् ॥ ( १ ) ॥ * ॥ पूर्वदक्षिणेत्यत्र 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा० ५१३१२८) | उद्य प्लवनसंतरणयोः' (भ्वा०प० से ० ) 'ऋदोरप्' (३।३।५७) । ( 'उत्तरा दिविशेषे च खुषायामर्जुनस्य च' ) ॥ ॥ उत्