पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विशेष्यनिघ्नवर्गः १ ] क्तः दीर्घश्च – इति वचनमुपन्यस्तं मुकुटेन । तत् पञ्चपाद्या- दौ न लभ्यते ॥ (४) ॥*॥ चत्वारि 'दयालो : ' || स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ १५ ॥ स्वेति ॥ स्व आत्मा तन्त्रं प्रधानमस्य ॥ (१) ॥ ॥ अ- पगतमावृतमावरणमस्य । ‘अपावृतस्तु पिहिते स्वतन्त्रेऽपि च वाच्यवत्' (इति विश्वमेदिन्यौ) ॥ (२) ॥ * ॥ स्वेनेरितुं शीलमस्य | ‘ईर गतौ’ ( अ० आ० से ० ) । 'सुप्यजातौ – (३।२।७८) इति णिनिः । ‘वादीरेरिणोः' (भ्वा० ६ | १८९) इति वृद्धिः ॥ (३) ॥ ॥ स्वः छन्दोऽमिलाषो यस्य ॥ (४) ॥ * ॥ निष्क्रान्तोऽवग्रहान्नियमात् । 'निरादयः -' (वा० २। २।१८) इति समासः ॥ ( ५ ) ॥ * ॥ पञ्च 'स्वतन्त्रस्य' || परतन्त्रः पराधीनः परवान्नाथवानपि । व्याख्यासुधाख्यव्याख्यासमेतः । पेति ॥ परस्तन्त्रं प्रधानं यस्य ॥ (१) ॥ ॥ परस्मिन्नधि । ‘सप्तमी शौण्डै:’ (२।१४०) इति समासः ।' 'अषडक्ष -' (५॥ ४|४१७ ) इति खः । यत्तु - परोऽध्युपर्यस्य - इति विगृहीत- म् । तन्न । शौण्डादिष्वधिपाठवैयर्थ्यापातात् ॥ (२) ॥ ॥ परः स्वाम्यस्यास्ति । मतुप् (५॥२९४) ॥ (३) ॥ ॥ नाथो- Sस्यास्ति ॥ ( ४ ) ॥ * ॥ चत्वारि 'परतन्त्रस्य' || अधीनो निम्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ १६ अधीति ॥ इनमधिगतः । 'अत्यादयः -' (वा० २१ २ ३ १८) इति समासः । अधि उपरि, इनोऽय इति वा ॥ (१). ॥*॥ निहन्यते निगृह्यते । हृन्तेः ‘घञर्थे कः? (वा० ३।३। ५८) ॥ (२) ॥ ॥ आयतते स्म । 'यती प्रयत्ने' (भ्वा० आ० से० ) । अकर्मकत्वात् (३।४।७२) तः ॥ (३) ॥ * ॥ न खः छन्दोऽस्य ॥ (४) | | गृह्यते । 'ग्रह उपादाने' ( क्या० उ० से ० ) | ‘पदास्वैरि-' (३।१।११९) इति क्यप् | स्वार्थ कन् (ज्ञापि० ५९४१५)। 'गृह्यको निम्न के छेके' इति विश्वमेदिन्यौ ॥ (५) ॥*॥ पञ्च 'अधीनसामान्यस्य' ॥ एके तु नवमिः पर्यायमाहुः ॥ खलपूः स्याद्वहुकरः खेति ॥ ‘खलं भूस्थानकल्केषु' इति विश्वः । खलं पुना- ति । 'पूज् पवने' ( ऋया० उ० से० ) । किप् ( ३।२।७६) ॥ (१) ॥ ॥ बहु करोति, भुवं संमार्ष्टि | किंयत्तद्वहुष्वज्विधा- नम्' (वा० ३।२।२१) इत्यच् । स्त्रियां बहुकरा । यत्तु ताच्छील्यविवक्षायां तु टः (३१२/२० ) एव । स्त्रियां 'बहु- करी' – इत्युक्तं मुकुटेन । तन्न | टापवादत्वेनाज्विधानात् ॥ (२) ॥ * ॥ द्वे 'भुवं मार्जयतः' ॥ दीर्घसूत्रश्चिरक्रियः | । दीति || 'सूत्रं तन्तुव्यवस्थयोः' इति विश्वः | दीर्घं सूत्रं व्यवस्था यस्य ॥ (१) ॥ * ॥ चिरा क्रिया यस्य ॥ (२) ॥*॥ द्वे 'अतिविलम्बेन क्रियासंपादकस्य' || ३५७ जाल्मोऽसमीक्ष्यकारी स्यात् जेति ॥ जालयति, जाल्यते वा । 'जल अपवारणे' ( जु० प० से ० ) । बाहुलकानमः । - धूमवन् मः— इति मु कुटस्तु चिन्त्यः | 'इषियुधि - ' ( उ० १९४५) इति सूत्रे जले.. रग्रहणात् । धूमेऽपि गुणप्रसङ्गात् 'मक्' इति वक्तुं युक्तत्वा-- च । 'जाल्मस्तु पामरे | असमीक्ष्यकारिणि च' इति हैमः ॥ (१) ॥॥ असमीक्ष्याविचार्य कर्तुं शीलमस्य | 'सुपि-' (३॥ २१७८) इति णिनिः ॥ (२) ॥ ॥ द्वे 'अविचारिणः ॥ कुण्ठो मन्दः क्रियासु यः ॥ १७ ॥ क्विति ॥ कुण्ठति । 'कुठि प्रतिघाते आलस्ये च' ( भ्वा० प० से० ) । पचाद्यच् (३|१|१३४) | (कुण्ठोऽकर्मण्यमू- र्खयोः' इति मेदिनी) ॥ (१) ॥ * ॥ एकं 'मन्दक्रियस्य' ॥ : कर्मक्षमोऽलंकर्मीण: केति ॥ कर्मसु क्षमः ॥ (१) ॥ * ॥ 'सप्तमी' (२।१९४०) इति योगविभागात्समासः ॥ ( १ ) ॥ * ॥ कर्मणे क्रियायै अलं समर्थः | ‘प्राप्तापन्नालंपूर्व-' (वा० २१४ | २६) इति परवल्लि - ङ्गनिषेधात्समासः | ‘पर्यादयः-' (वा० २१२/१८) इति वा । 'अषडक्ष-' (५४१७) इति खः ॥ ( २ ) ॥ ॥ द्वे 'क्रिया- करणे समर्थस्य' ॥ क्रियावान् कर्मसूद्यतः । क्रीति || क्रियास्यास्ति । मतुप् (५/२/९५ ) ॥ (१) ॥ * ॥ एकम् 'उद्योगोद्यतस्य' ॥ स कार्म: कर्मशीलो यः स इति ॥ कर्म शीलमस्य । 'छत्रादिभ्यो णः' (४४६२) वा | स्त्रियां का ॥ (१) ॥॥ ( २ ) ॥ ॥ द्वे 'कर्मसु फलमनपेक्ष्य प्रवृत्तस्य' ॥ कर्मशूरस्तु कर्मठः ॥ १८ ॥ केति ॥ कर्मणि शूरः । सप्तमीसमासः (२|१|४०) ॥ (१) | || 'कर्मणि घटोSठच्' (५१२१३५) | (२) ॥ ॥ द्वे 'प्रयत्नेन प्रारब्धकर्मपरिसमापकस्य' ॥ भरण्यभुक्कर्मकरः भेति ॥ भरण्यं वेतनं भुङ्क्ते । विप् (३|२|७६ ) ॥*॥ क्व चित् 'कर्मण्यभुक्' इति पाठः । तत्र कर्मणि साधु । 'त साधुः (४|४|१८) इति यत् । कर्मण्यं वेतनम् ॥ (१) ॥॥ कर्म करोति । 'कर्मणि भृतौ ' ( ३ | २ | २२ ) इति टः ॥ ( २ ) ॥ * ॥ द्वे 'मूल्येन कर्म कुर्वतः' अयं शूद्रवर्गे उक्तोऽपि 'भरण्यभुग्' इति पर्यायान्तरकथनार्थमनूदितः ॥ कर्मकारस्तु तत्क्रियः । केति ॥ कर्म करोति । 'कर्मण्यण' (३।२।१ ) ॥ ( १ ) ॥ ॥ 'तत्कियः कर्मकारक्रियः' 'अभृतक्रियः' इत्यर्थः ॥ ॥ 'यो वेतनं विना कर्म करोति तस्य एकम् ॥