पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ विज्ञानं नैपुण्यम् । तेन व्यवहरात | 'तेन दीव्यति-' (४|४१२) इत्यादिना ठक् – इत्यभाणि मुकुटेन । तन्न । उक्तसूत्रे 'व्यव- हरति' इत्यस्यानुपादानात् । 'कठिनात- ' (४|४|७२) इति सूत्रेऽर्थोपादानेऽपि विज्ञानस्यानुपादानात् ॥ ॥ श्रीह्यादि (५ | | २।११६) उनि 'विज्ञानिकः' इत्यपि ॥ (७) ॥ ॥ कृतं मुखमस्य । सर्वस्य कृतमुखत्वादत्र कृतशब्दस्य संस्कृतपरत्वम् ॥ (८) ॥ ॥ कृतं कर्म प्रशस्तमस्य | इनिः (५१२१११५ ) ॥ (९) ॥*॥ कुशान् लाति । कः (३|२|३) । को पृथिव्यां शलति वा । ‘शल चलने’ (भ्वा० प० से ० ) । पञ्चायच् (३) १॥१३४ ) | णिजर्थे लक्षणा वा । कौ शलति चालयति राज- कार्याणि । यद्वा 'कुः पापेषदर्थयोः' । कोः पापात् बुद्धिवैभवात् । शिक्षिते त्रिषु । क्षेमे च सुकृते चापि पर्याप्तौ च नपुंसकम्” इति विश्वमेदिन्यौ ॥ (१०) ॥*॥ दश 'कुशलस्य' || पूज्यः प्रतीक्ष्यः शलति अमरकोषः । [ तृतीयं कोहम् ७९ ) | 'जैवातृकः पुमान्सोमे कृषकायुष्मतोस्त्रिषु' इति विश्वमेदिन्यौ ॥ (१) ||| अतिशयितमायुरस्य । मतुप् (५॥ २ १९४) 'तसौ मत्वर्थे' (१९४|१९) इति भत्वान्न रुत्वम् ( ८ २१६६ ) ॥ (२) ॥ * ॥ द्वे 'सायुषः' ॥ अन्तर्वाणिस्तु शास्त्रवित् ॥ ६ ॥ अन्तेति ॥ अन्तर्वाण्यस्य | समासान्तविधेर नित्यत्वान्न कष् । (५॥४॥१५३) । ‘गोत्रियोः-’ (१।२।४८) इति हखः । यद्वा अन्तर्वाणयति । ‘वण शब्दे' (भ्वा० आ० से०)। खार्थे णिजन्तात् 'अच इः' ( उ० ४|१३९) ॥ (१) ॥ * ॥ शास्त्रं वेत्ति | 'सत्सू–' (३।२१६१) इति विप् ॥ (२) ॥ ॥ द्वे 'शास्त्रविदः' ॥ परीक्षकः कारणिकः पेति ॥ परीक्ष्यते । 'ईक्ष दर्शने' ( स्वा० आ० से ० ) । ण्वुल् (३।१।१३३) ॥ (१) ॥ * ॥ 'करणं हेतुकर्मणोः' ( इति मेदिनी) । करणैञ्चरति । 'चरति' (४४१८) इति ठक् ॥ (२) ॥ * ॥ द्वे 'परीक्षाकारकस्य ॥ प्विति ॥ पूज्यते । 'पूज पूजायाम् ' ( चु०प० से ० ) । ‘अचो यत्' (३।१।९७) । 'पूज्य: श्वशुरवन्धयोः' इति हैमः ॥ (१) ॥*॥ प्रतीक्ष्यते । ‘ईक्ष दर्शने' (भ्वा० आ० से ० ) । ‘ऋहलोर्ण्यत्' (३।१।१२४) । 'प्रतीक्ष्यः प्रतिपाल्ये स्या- त्पूज्ये च' (इति हैमः) ॥ (२) ॥ ॥ द्वे 'पूज्यस्य' ॥ वरदस्तु समर्धकः । वेति ॥ वरं ददाति । कः (३|२|३) | 'वरदः पुनः । प्रसन्ने शान्तचित्ते च वरदा तु कुमारिका' इति हैमः ॥ ( १ ) ॥*॥ समृध्नोति । ‘ऋधु वृद्धौ' (स्वा०प० से ० ) ण्वुल् (३| सांशयिकः संशयापत्रमानसः । सांशेति ॥ संशयमापनः। ‘संशयमापन्नः' (५॥१॥७३) | १|१३३) ॥ (२) ॥*॥ द्वे ‘वरदस्य’ ॥ इति ठक् ॥ (१) ॥*॥ संशयमापन्नं यस्य, यस्मिन्, वा ॥ ( २ ) ॥ * ॥ द्वे 'संदेहविषयस्य', 'संदेहाश्रयस्य' वा ॥ दक्षिणेयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ॥ ५॥ देति ॥ दक्षिणामर्हति । ‘कडंगरदक्षिणाच्छ च' (५॥१॥ ६९) इति छयतौ ॥ (१) ॥*॥ (२) ॥ ॥ दक्षिणामर्हति । ‘अर्ह पूजायाम्' (भ्वा० प० से ० ) । 'अर्हः' (३।२।१२) इत्यच् ॥ (३) ॥*॥ त्रीणि 'दक्षिणायोग्यस्य' ॥ स्युर्वदान्यस्थूललक्ष्यदानशौण्डा बहुप्रदे। स्युरिति ॥ 'मां याचख' इति वदति । 'वदेरान्यः' ( उ० ३।१०४) । 'वदान्यो दानशौण्डे स्याच्चारुवादिनि वाच्य- वत्’ (इति मेदिनी) ॥ (१) ॥ * ॥ स्थूलं कूटं लक्ष्यमस्य | स्थूलैर्महद्भिर्लक्ष्यते वा । कर्मणि ण्यत् ( ३ | २ | १२४ ) ॥ * ॥ ('स्थूललक्ष' इति) अयकारपाठे तु घन् (३।३।१९) ॥ (२) ॥ * ॥ दाने शौण्डः | 'सप्तमी शौण्डै : ' (२|१|४१) इति समासः । ‘शौण्डो मत्तेऽपि विख्याते' इति विश्वः ॥ (३) ॥*॥ बहु प्रददाति । ‘प्रे दाज्ञः’ (३१२१६) इति कः ॥ (४) ॥ * ॥ चत्वारि 'अतिदातुः ॥ जैवातृक: स्यादायुष्मान् जैवेति ॥ जीवति । जीवे: आतृकन् वृद्धिश्च ( उ० १॥ हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ ७ ॥ हेति ॥ हर्षति । 'हृषु अलीके' (भ्वा०प० से ० ) । (ता- च्छील्य-' (३।२।१२९ ) इति चानश् । यत्तु - हृष्यति- ष्यमाणः' इत्यापत्तेः ॥ (१) ॥ ॥ विकुहते | चानश् (३॥२॥ इति विगृहीतं मुकुटेन । तन्न | दैवादिकत्वाच्छयनि सति 'हृ- १२९) । शानच् (३।२।१२४) वा ॥ (२) ॥*॥ प्रकृष्टं मनो यस्य ॥ (३) ॥ * ॥ हृष्टं मानसमस्य ॥ (४) ॥*॥ चत्वारि 'हर्षितमनसः' ॥ दुर्मना विमना अन्तर्मना: स्यात् द्विति ॥ दुःस्थितं मनोऽस्य ॥ (१) ॥*॥ विगतं विविधं वा मनोऽस्य ॥ ( २ ) ॥ * ॥ अन्तर्मनोऽस्य ॥ ( ३ ) ॥ * ॥ त्रीणि ‘दुःखितमनसः' ॥ उत्क उन्मनाः । उत्क इति ॥ उद्वतं मनोऽस्य । 'उत्क उन्मनाः' (५॥२॥ ८०) इत्युद्गतमनस्कवृत्तेरुच्छन्दात्स्वार्थे कन् ॥ (१) ॥*॥ (२) ॥*॥ द्वे ‘उत्कण्ठितमनसः’ ॥ १ – वाणिरम्बु । 'व्यूतौ मूल्ये सरस्वत्याम्' इति हैमादिकोषेषु 'यद्वाणिसद्वाणिनी' इत्यादि महाकविप्रयोगेषु हस्वान्तस्यापि वाणि शब्दस्य दर्शनेन तेन समासे तु क्लेशोऽयं नाङ्गीकरणीयः ॥