पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूद्रवर्ग: १० ] कुट्टनीदुर्गयोरपि’ (इति मेदिनी ) ॥ (१) ॥ ॥ शवति । 'शव गतौ ' ( भ्वा० प० से ० ) । बाहुलकादरः । शवं राति वा । कः (३|२|३) । 'शवरो म्लेच्छभेदे च पानीये शंकरेऽपिच' इति विश्वः ( मेदिनी ) ॥ ( १ ) ॥ ॥ पोलति 'पुल महत्त्वे ' ( भ्वा० प० से ० ) । 'कुणिपुलिभ्यां किन्दच्' ( उ० ४/८५ ) इति मुकुटः । 'पुलिन्दः कथ्यते म्लेच्छे पुलिन्देऽपि निगद्य- ते' इति तारपाल: । 'पुलिन्दः पञ्चशवरः' इति रत्नकोषः ॥ ( १ ) ॥ ॥ म्लेच्छति । 'म्लेच्छ अव्यक्ते शब्दे' (भ्वा०प० से० ) अच् ( ३।१।१३४ ) म्लेच्छानां जातयोऽवान्तरभेदाः । 'गोमांसभक्षको यस्तु लोकबाह्यं च भाषते । सर्वाचारविही- नोऽसौ म्लेच्छ इत्यभिधीयते' । सूतसंहितायामपि । 'ब्राह्म- ण्यां वैश्यतो जातः क्षत्ता भवति नामतः । अस्यामनेन चौर्येण म्लेच्छो विप्रात्प्रजायते ॥” इति ॥ व्याख्यासुधाख्यव्याख्यासमेतः । व्याधो मृगवधाजीवो मृगयुर्लुब्धकोऽपि सः । व्येति ॥ विध्यति । 'व्यध ताडने' ( दि० प० अ० ) | ‘श्याव्यधा-’ (३।१।१४१ ) इति णः ॥ ( १ ) ॥ ॥ मृगवधे- नाजीवति । ‘इगुपध–’ ( ३।१।१३५ ) इति कः ॥ (२) ॥*॥ मृगान् वधार्थं याति । 'या प्रापणे' ( अ०प०अ० ) | ‘मृग - य्वादयश्च' ( उ० ११३७ ) इति कुः । 'मृगयुः पुंसि गोमा- यौ व्याधे च परमेष्ठिनि' ( इति मेदिनी ) ॥ (३) ॥*॥ लुभ्यते स्म । 'लुभ गायें' ( दि० प० से ० । क्तः (३।२।१०२) । स्वार्थे (ज्ञापि० ५।४।५)। संज्ञायाम् ( ५१३१७५ ) वा कन् ॥ (४) ॥ * ॥ चत्वारि 'व्याधस्य' || कौलेयकः सारमेयः कुक्कुरो मृगदंशकः ॥ २१ ॥ शुनको भषक: श्वा स्यात् काविति ॥ कुले भवः । 'कुलकुक्षि -' (४|२|९६ ) इति ढकञ् । 'कौलेयकः सारमेये कुलीने' इति हैमः ( मेदिनी ) ॥ (१) ॥*॥ सरमाया अपत्यम् | 'स्त्रीभ्यो ढक्' (४|१|१२० ) ॥ (२) ॥ * ॥ कोकते | 'कुक आदाने' ( भ्वा० आ० से० ) । क्विप् ( ३।२।१७८ )। कुरति । 'कुर शब्दे' ( तु०प० से ० ) | कः (३।१।१३५) । कुक् चासौ कुरश्च । 'कुक्कुरः सारमेये ना ग्रन्थिपर्णे नपुंसकम्” इति विश्वः ( मेदिनी ) ॥ ( ३ ) ॥ * ॥ | मृगान् दशति । 'दंश दशने' (भ्वा०प०अ० ) | अण् ( ३ | २।१ ) । कन् (ज्ञापि० ५॥४॥५ ) ॥ (४) ॥ ॥ शुनति | 'शुन गतौ' ( तु० प० से ० ) कुन् ( उ० २१३२ ) ॥ (५) ॥ * ॥ भ- षति । ‘भष पैशुन्ये’ ( भ्वा० प ० से ० ) कुन् ( उ० २१३२ ) ॥ (६) ॥*॥ श्वयति । ‘टु ओश्वि गतिवृद्ध्योः' ( भ्वा०प० से० ) । 'अनुक्षन् - ' ( उ० १५९ ) इति साधुः ॥ (७) ॥*॥ 'कुक्कुरस्तु शुनि श्वानः कपिलो मण्डलः शुनः' इति वाचस्पतिः ॥ * ॥ सप्त 'शुनकस्य' | अलर्कस्तु स योगितः । अलेति ॥ अलम् अते । 'अर्क स्तवने' ( चु०प० से० ) । अर्च्यते वा । 'अर्च पूजायाम्' ( भ्वा०प० से ० ) | अमर० ४४ ३४५ घञ् ( ३ | ३ | १९ ) । शकन्ध्वादिः ( वा० ६।१।९४ ) । 'अल- को धवलार्के स्यायोगोन्मादितकुक्कुरे' इति विश्वः ( मेदिनी ) ॥ (१) ॥*॥ योगो मत्ततोपायो जातोऽस्य । तारकादित्वात् ( ५ | २१३६ ) इतच् । यद्वा योग्यन्ते स्म । 'युगि वर्जने' (भ्वा० प० से ० ) | ण्यन्तः | अनित्यत्वान्न नुम् | क्तः ( ३ २ १०२ ) ॥ ॥ एकं 'मत्तशुनः ॥ श्वा विश्वकर्मृगयाकुशलः श्वेति ॥ विश्वकं सर्वं द्रवति । 'द्रु गतौ' ( भ्वा०प० अ० ) । मितवादित्वात् ( वा० ३।२।१८० ) डुः । यद्वा विश्वं कन्दति । 'कदि आह्वाने' (भ्वा०प० से ० ) । जवादिः ( उ०४|१०२ ) | 'विश्वक दुखिषु खले ध्वानाखेटशुनोः पु- मानू' ( इति मेदिनी ) ॥ (१) ॥*॥ मृगयायां कुशलः ॥ ॥ एकम् 'मृगयाकुशलशुनः ॥ सरमा शुनी ॥ २२ ॥ सेति ॥ सरति । 'सृ गतौ' ( भ्वा० प० अ० ) | बाहुल- कादमः | ( 'सरमा कुकुरीदेवशून्योः स्याद्राक्षसी भिदि' इति मेदिनी ) ॥ (१) ॥ ॥ शुनी गौरादिः ( ४ ॥१॥४१ ) ॥ (२) ॥ ॥ द्वे 'शुन्याः' | विट्चरः सूकरो ग्राम्यः वीति | विषं विष्ठां चरति । 'चर गत्यादौ ' ( भ्वा०प० से० ) | अच् ( ३ | १ | १३४ ) | मूल विभुजादिकः ( वा ० ३।२।५ ) वा । विषश्चरो वा ॥ ( १ ) ॥ * ॥ एकम् 'ग्राम्यसूकरस्य' ॥ वर्करस्तरुणः पशुः | वेति ॥ वर्कते । 'वृक आदाने' (भ्वा० आ० से० ) । बाहुलकादरन् । 'वर्करः परिहासे स्याच्छागे युवपशावपि इति विश्व: ( मेदिनी ) । 'वर्करो मेषशावकः' इति रक्षितः ॥ ( १ ) ॥ * ॥ एकम् 'तरुणपशुमात्रस्य' || आच्छोदनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम् २३ आच्छविति ॥ आच्छिद्यन्तेऽत्र | ल्युट् ( ३|३|११७)। पृषोदरादिः ( ६॥ ३॥ १०९) ॥ (१) ॥*॥ मृगा व्यय्यन्तेऽत्र | 'व्यय गतौ' ( भ्वा० उ० से ० ) । 'अन्येभ्योऽपि - ' (वा० ३॥ २|१०१ ) इति डः ॥ ( २ ) ॥ ॥ आखिट्यतेऽत्र । 'खिट त्रासे' (भ्वा०प० से ० ) । 'हलच' ( ३ |३|१२१ ) इति घञ् ॥ (३) ॥ * ॥ मृग्यन्तेऽत्र 'मृग अन्वेषणे' ( चु० आ० से ० ) । '-परिचर्या परिसर्यामृगया - ' ( वा० ३।३।१०१ ) इति साधुः ॥ (४) ॥ ॥ चत्वारि 'शिकार' इति ख्यातस्य ॥ दक्षिणारुर्लुब्धयोगाइक्षिणेर्मा कुरङ्गकः । देति ॥ दक्षिणेऽरुरस्य ॥ * ॥ दक्षिणे ईर्ममस्य । 'दक्षिणे- र्मा लुब्धयोगे' ( २॥५॥१२६ ) इति साधुः ॥ (१) ॥*॥ एकम् 'दक्षिणवणस्य' || चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥ प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः । चाविति ॥ चोरणम् । 'चुर स्तेये' ( चु०प० से ० ) ।