पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शूद्रवर्गः १० ] द्वौ वारिकजालिकौ । द्वाविति ॥ वागुरया (१) जालेन (२) च चरति । 'च- रति' (४४१८) इति ठक् ॥ (२) ॥ ॥ द्वे 'जालेन मृगा. बनतः ॥ व्याख्यासुधाख्यव्याख्यासमेतः । (१) वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम् ॥ १४ ॥ वायिति ॥ वीतंसेन मृगपक्ष्यादिबन्धनोपायेन चरति ॥ ॥ * ॥ कूटेन मृगादिबन्धनयन्त्रेण चरति ॥ (२) ॥ ॥ मांसं पण्यमस्य । ‘तदस्य पण्यम्' (४१४१५१) इति ठक् ॥ (३) ॥ * ॥ त्रीणि 'मांस विक्रयजीविनः' ॥ भृतको भृतिभुक्कर्म करो वैतनिकोऽपि सः । भ्रिति ॥ भ्रियते स्म । ‘भृञ् भरणे' (भ्वा० उ० अ०) । तः (३।२।१०२)। खार्थे कन् (ज्ञापि ० ५१४१५ ) । यद्वा भृतिं करोति । ‘तत्करोति–’ (३|१|२६) इति णिजन्ताकुन् ( उ० २॥३२) ॥ (१) ॥*॥ भृतिं वेतनं भुङ्क्ते । विप् (३ | २|७६ ) ॥ (२) ॥*॥ कर्म करोति । ‘कर्मणि भृतौ' (३१२१२२) इति टः ॥ (३) ॥*॥ वेतनेन जीवति । 'वेतनादिभ्यो जीवति' (४|४| १२) इति ठक् ॥ (४) ॥ * ॥ चत्वारि 'वेतनोपजीविनः' ॥ वार्तावहो वैवधिकः वेति ॥ वार्ताया वहः ॥ (१) ॥ * ॥ विवधं वीवधं वा वहति । 'विभाषा विवधात्' (वा० ४१४११७) इति ठन् । पक्षे ठक् ॥ (२) ॥ ॥ द्वे 'वार्ताया वाहकस्य' 'कव- डिया' इति ख्यातस्य ॥ रिणि च’ इति हैमः ॥ (८) ॥ * ॥ क्षुधं लाति | कः (३|२|३) स्वार्थे कन् ( उ० २१३२ ) वा । यद्वा क्षुणत्ति, क्षुद्यते वा 'क्षुद क्षोदे' (रु० उ० अ० ) । 'स्फायितश्चि' ( उ० २।१३) इति रक् । कपिलिकादिः (८|२|१८ ) | यद्वा क्षुदा लक्यते । 'लक आस्वादने' ( ) । 'पुंसि -' (३।३।११८) इति घः ॥ * ॥ कवर्गद्वितीयादिरपि । 'खुलकत्रिषु नीचेऽल्पे' इति रभसात् । खदनम् । 'खद हिंसायाम्' ( भ्वा०प० से ० ) । खुदं लाति । हुन् (उ० २ १ ३२ ) ॥ (९) ॥ ॥ इना कामेन संपदादिः (वा० ३।३।१०८ ) | पृषोदरादिः (६|३|१०९) । तीर्यते । 'तू' (भ्वा० प० से ० ) | ‘ऋदोरप्’ (३|३|५७) । इतं गमनं करोति वा । 'तत्करोति' (वा० ३।१।२६ ) इति णिच् | यद्वा इतेन ज्ञानेन क्षीते । 'प्रातिपदिकाद्धात्वर्थे (चु० सू०) इति णिच् । बाहुलकादरः । यद्वा 'इ' इत्यव्यय- मपकर्षे | 'द्विवचन-' (५१३१५७) इति तरप् | द्रव्यप्रकर्ष- त्वान्नामुः ॥ (१०) ॥ * ॥ दश 'नीचस्य' ॥ भृत्ये दासेयदासेरदासगोप्यकचेटकाः । नियोज्य किंकरप्रेष्यभुजिष्यपरिचारकाः ॥ १७ ॥ भ्रिति ॥ भ्रियते । 'भृज् भरणे' (भ्वा० उ० अ०) । ‘भृञोऽसंज्ञायाम्’ (३।१।११२) इति क्यप् | 'भृत्यः दासे भृतौ भृत्या' इति विश्वः ॥ (१) || दास्या अपत्यम् । 'यचः' (४।१।१२१) इति ढक् ॥ ( २ ) ॥*॥ 'क्षुद्राभ्यो' वा' (४११ | १३१) इति क् च ॥ (३) ॥ ॥ दंसयति दं- स्यते वा । 'दसि दीप्तौ' (चु०प० से ० ) | 'दं सेटटनौ न आ भारवाहस्तु भारिकः ॥ १५ ॥ च' (उ० ५/१०) । यद्वा दास्यते । 'दास दाने' (भ्वा० उ० भेति ॥ भारं वहति । अन् (३।२।१ ) ॥ ( १ ) | | | ० ) | घञ् ( ३ ॥३॥१८ ) ॥ * ॥ ( दाश, इति) तालव्यान्त- भारोऽस्ति वाह्यत्वेनास्य । 'अतः - ' (५॥२॥११५) इति ठन् ॥ (२) ॥ * ॥ द्वे 'भारवाहकस्य' ॥ पक्षे 'दशेश्च' (उ० ५/११) ॥ (४) ॥ * ॥ गुप्यते । 'गुपू रक्षणे' (भ्वा०प० से० ) । ण्यत् (३|१|१२४ ) | स्वार्थे कन् (ज्ञापि ० ५॥४/५) गोप्यं कायति वा । 'कै शब्दे' (भ्वा०प० अ०) । 'आतोऽनुप-' ( ३ | २|३) इति कः ॥ (५) ॥*॥ चे- ट्यते । 'चिट परप्रेष्ये' (भ्वा०प० से ० ) | कृयादिभ्यो बुन् (उ० ५/३५) ॥ (६) | || नियुज्यते । ‘युजिर् योगे' ( रु० उ० अ० ) । ण्यत् (३।१।१२४) । 'प्रयोज्यनियोज्यौ शक्यायें' ( ७|३|६८ ) इति साधुः ॥ (७) ॥ ॥ 'किंचित्' कुत्सितं वा करोति । 'दिवाविभा-' (३|२|२१) इत्यत्र 'किंयत्तद्वहुषु' इति (वार्तिकेन) अच् ॥ (८) ॥ * ॥ प्रेष्यते । 'इष गतौ' (दि० प० से ० ) आभीक्ष्ण्ये (ऋया०प० से ० ) वा । ण्यत् (३|१|१२४) । 'प्रादूहो- ' (वा० ६ | १ |८९) इति बृद्धिः ॥ (९) ॥॥ भुङ्क्ते खाम्युच्छिष्टम् । भुज्यते वा । 'रुचिभुजिभ्यां किष्यन्' (उ० ४१७९) ॥ (१०) ॥ ॥ परिचरति । 'चर गत्यादौ' (भ्वा० प० से ० ) | ण्वुल् (३।१।१३३) ॥ (११) ॥*॥ एकादश 'दासस्य' ॥ पराचितपरिस्कन्दपरजात परैधिताः । पेति ॥ परेणाचितः । 'चिञ् चयने' ( स्वा० उ० अ० ) विवर्णः पामरो नीचः प्राकृतश्च पृथग्जनः । निहीनोऽपसदो जाल्मः क्षुल्लकश्चेतरश्च सः ॥ १६ ॥ वीति | विगतो वर्णो यस्य यस्माद्वा । 'वर्णो द्विजादौ शुक्लादौ स्तुतौ रूपयशोऽक्षरे' इति विश्वः ॥ ( १ ) ॥॥ पा- मानं राति । कः ( ३|२|३) | यद्वा पा धर्मः म्रियते येन । 'मृङ्' (तु० प० अ०) । 'पुंसि -' (३|३|११८) इति घः ॥ (२) ॥ * ॥ निकृष्टाम लक्ष्मी चिनोति । 'चिञ्' ( स्वा० उ० अ०) । 'अन्येभ्योऽपि दृश्यते' (वा० ३।२।१०१ ) इति ङः ॥ (३) ॥*॥ प्रकृतौ भवः । अण् ( ४ | ३ | ५३ ) | यद्वा प्रकृष्टमकृ- तम कार्यमस्य ॥ (४) ॥॥ सज्जनेभ्यः पृथग्भूतो जनः । शाक- पार्थिवादिः (वा० २।१।७८) ॥ (५) ॥ * ॥ निश्चयेन हीनः । ‘कुमति-’ (२।२।१८) इति समासः ॥ ( ६ ) ॥ * ॥ अपकृष्ट- मपकृष्टे वा सीदति । ‘षढ् विशरणादौ' (भ्वा०प० अ०) । अच् (३।१।१३४) ॥ ) ॥ * ॥ जालयति । 'जल आच्छा- दने' (चु० प० से ० ) । जालं करोति । बाहुलकान्मः । 'नेड् वशि कृति' (७७२१८) । 'जाल्मस्तु पामरे | असमीक्ष्यका-