पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् इति क्स्नः । 'तीक्ष्णं सामुद्रलवणे विषलोहाजिमुष्क के । क्लीवं, यवाग्रके पुंसि तिग्मात्मत्यागिनोस्त्रिषु' (इति मेदिनी) ॥ (३) ॥ * ॥ पिण्डते, पिण्ड्यते वा । 'पिडि संघाते' ( भ्वा० आ० से०) । अच् (३।१।१३४) | घञ् (३|३|१९) वा | 'पिण्डो बोले बले सान्द्रे देहागौरैकदेशयोः | देहमात्रे निवापे च गोल- सिहकयोरपि । ओण्ड्रपुष्पे च पुंसि स्यात् क्लीबमाजीवना- यसोः । पिण्डी तु पिण्डतगरेऽलाबूखर्जूरभेदयोः' ( इति मेदि- नी) ॥ (४) ॥ ॥ कालं च तदयश्च । ‘अनोश्मायःसरसाम्-’ (५॥४१९४) इति टच् ॥ (५) ॥*॥ एति, अयते वा । असुन् (उ० ४११८९) ॥ (६) ॥ ॥ अश्मनः सारः । ‘अश्मसारं च शस्त्रकम्' इत्यमरमाला ॥ (७) ॥*॥ सप्त 'लोहस्य' ॥ ( भ्वा० प० अ० ) | भावे घञ् (३|३|१८) आरं कूटयते ॥ 'कूट दाहे' ( चु० उ० से ० ) | अच् (३ | १ | १३४ ) | 'आर- कूटोऽस्त्रियां द्रव्यं रीतिस्तु रीतिकोमलम्' इति रभसः ॥ ( २ ) ॥ * ॥ द्वे 'पित्तलस्य' ॥ अथ ताम्रकम् । शुल्वं म्लेच्छमुखं यष्टवरिष्ठोदुम्बराणि च ॥ ९७ ॥ अथेति ॥ ताम्यति, तम्यते, वा । ‘तमु काङ्क्षायामू' ( दि० प० से ० ) । 'अमितम्योदीर्घश्च' ( उ० २।१६ ) इति रक् । स्वार्थे कन् (ज्ञापि० ५।४/५) । तम्यामिमां दीर्घश्च' इति रक्—इति मुकुटस्त्वपाणिनीयः ॥ (१) ॥ ॥ शलति । ‘शल गतौ’ (भ्वा० प० से० ) । 'उत्वादयश्च' (उ० ४४९५) इति, साधु । यद्वा शुल्वयति, शुल्व्यते, वा । 'शुल्व माने' ( चु० प० से०) । अच् (३।११३४) घ (३३१९) (एर.. च् (३|३|५६) वा । 'शुल्ब ताम्रे यज्ञकर्मण्याचारे जलसं- निधौ' इति हेमचन्द्रः ॥ ( २ ) ॥ * ॥ म्लेच्छदेशे मुखमुत्प- त्तिरय । म्लेच्छस्य मुखमिव, इति वा ॥ (३) ॥ ॥ द्वे हेम- रूप्ये अञ्जते स्म । 'अशु व्याप्तौ ' ( स्वा० आ० से ० ) । 'गत्यर्था-' (३।४।७२) इति क्तः ॥ ( ४ ) ॥ ॥ अतिशयेन वरम्, उरु, वा अतिशायने इष्ठन् । (५|३|५५) | ‘प्रिय स्थिर - ' (६|४|१५७) इत्युरोर्वर् । 'वरिष्ठं ताम्रके क्लीबम्' इति टवर्ग- द्वितीयान्ते रुद्रः | 'वरिष्ठं मरिचेऽपि च । ताम्रे क्लीवं तित्तिरौ ना वरोरुतमयोखिषु' इति विश्वः ( मेदिनी) ॥ ( ५ ) ॥ ॥ उं शंभुं वृणोति । 'वृञ् वरणे' ( खा० उ० से ० ) । 'संज्ञायां भृतृवृजि - ' (३।२।४६) इति खच् । 'अरुद्विषत् -' (६।३।६७) इति मुम् । उत्कृष्टमुंवरम् । प्रादिसमासः (वा० २१ २११८ ) | 'उदुम्बरस्तु देहल्यां वृक्षभेदे च पण्डके | कुष्टमेदेऽपि च पुमांस्ताम्रे तु स्यान्नपुंसकम्' (इति मेदिनी ) ॥ * ॥ प्रज्ञाद्यणि (५१४१३८) तु । 'औदुम्बरं भवेत्तात्रे फलादौ यज्ञशाखिनः' इत्यजयः ॥ (६) ॥ * ॥ षट् 'ताम्रस्य' || विकारस्त्वयसः कुशी । लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी । अश्मसार: वीति ॥ कुं भूमिं श्यति । 'शो तनूकरणे' ( दि० प० अ॰) । ‘अन्येभ्योऽपि-’ (वा० ३।२।१०१) इति डः । 'जा- नपद --' (४|१|४२) इति ङीष् । 'कुशी फालेऽपि वल्गायां ( कुशा, पापिष्ठमत्तयोः । कुशो वाच्यवदाख्यातः ) ' इति विश्वः । 'कुश रामसुते दर्भे पापिष्ठे योक्रमत्तयोः । कुशी लोहविकारे स्यात्कुशा चल्गा कुशं जले' (इति हैमः ॥ (१) ॥*॥ एकम् 'अयोविकारस्य' ॥ क्षारः काचः लोह इति ॥ लोहति, लुह्यते, वा । 'लुह गायें' ( ) । अच् (३।१।१३४) । घञ् (३ | ३ | १९ ) वा | लूयतेऽनेन वा । ‘लूज् छेदने’ ( क्र्या० उ० से ० ) । बाहुलका हः । रुह्यते, रोहति वा 'रुह प्रादुर्भावे ( वा० प० अ० ) | घञ् ( ३ | ३।१९) । अच् (३।१।१३४) वा | कपिलिकादित्वात् (वा० क्षेति ॥ क्षरति । 'क्षर संचलने' ( भ्वा० प ० से ० ) | ८|२|१८) लत्वम् । 'लोहोऽत्री शस्त्र के लोहं जोङ्गके सर्व- | 'ज्वलिति - ' ( ३ | १ | १४०) इति णः । 'क्षारः काचे रसे तैजसे' (इति मेदिनी) ॥ * ॥ प्रज्ञायणि 'लौहम्' ॥ (१) ॥*॥ शस्यतेऽनेन | ‘शसु हिंसायाम् ( भ्वा० प० से० ) । 'दाम्नीशस्- ' (३|२|१८२ ) इति हुन् । स्वार्थे कन् (ज्ञापि० ५॥४/५ ) ॥ (२) ॥ ॥ तेजयति तेज्यते वा, अनेन वा । 'तिज निशाने ' ( चु०प० से ० ) । 'तिजेदर्दीर्घश्च' ( उ० ३३१८ ) | विश्वः (मेदिनी) ॥ (२) ॥ * ॥ द्वे 'काचस्य' ॥ गुडे | भस्मनि धूर्ते लवणे' इति हेमचन्द्रः ॥ (१) ॥*॥ क- चते । 'कच बन्धने दीप्तौ च ' ( भ्वा० आ० से ० ) | अच् ( ३ | ११३४) । प्रज्ञायण (५१४१३८) काचयति वा । अच् (३| १।१३४ ) । 'काचः शिक्ये मणौ नेत्ररोगभेदे मृदन्तरे' इति अथ मण्डूरं शिङ्खाणमपि तन्मले ॥ ९८ ॥ अथेति ॥ मण्डते (ति) । 'मडि भूषायाम्' ( भ्वा०प० से० ) । खर्जादित्वात् ( उ० ४१९०) ऊरच् ॥ ( १ ) ॥ ॥ शियते । 'शिघि आघ्राणे' (भ्वा०प० से० ) । 'आणको लधूशिविधाञ्भ्यः' ( उ० ३१८३ ) | पृषोदरादिः (६|३| १०९ ) । सिंहमाणयति वा । कर्मण्यण् ('शिङ्खाणं काचपात्रे च लोहनासिकयोमैले' इति मेदिनी) ॥ ॥ 'सिंहानम्' इति पाठे सिंहवदनिति । 'अन प्राणने' ( अ० प० से ० ) । अच् (३|१|१३४ ) | सिंहमानयति वा । 'कर्मण्यण्' (३॥२॥१) ॥ | (२) ॥ ॥ तस्य लोहस्य मले ॥ ॥ द्वे 'लोहकिट्टस्य' ॥ सर्व स्यात्तैजसं लोहम् सेति ॥ तेजसो विकारः | 'तस्य विकार : ' ( ४ | ३ | १३४) इत्यण् । यद्वा तेजोऽस्त्यस्य | ज्योत्स्नायण (वा० ५॥ २॥ १०३) ॥ * ॥ एकं 'सर्वधातूनाम् ॥