पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] इति रक् – इति तु मुकुटस्य प्रमादः । 'भद्रः शिवे खञ्जरीटे वृषभे तु कदम्बके । करिजातिविशेषे ना क्लीवं मङ्गलमुस्तयोः । काञ्चने च स्त्रियां रास्ना कृष्णा व्योमनदीषु च । तिथिभेदे प्र- सारिण्यां कट्फलानन्तयोरपि । त्रिषु श्रेष्ठे च साधौ च न पुंसि करणान्तरे' ( इति मेदिनी) ॥ (२) ॥ ॥ वरणम् । 'वर ईप्सायाम्’ (चु० उ० से०)। संपदादिः (वा० ३।३।१०८) । ईश्च वर् च ईवरौ । तौ ददाति । कः ( ३|२|३ ) | अतिशयि- तं बलमस्य । ‘अतः–’ (५।२/११५) इतीनिः । बली चासौ ईवर्दश्च ॥ (३) ॥ * ॥ ऋषति 'ऋषी गतौ' ( तु०प० से ० ) । ‘ऋषिवृषिभ्यां कित्' ( उ० ३।१२३) इल्यभच् ॥ (४) ॥*॥ वर्षति । ‘वृषु सेचने’ (भ्वा०प० से ० ) | अभच् ( उ० ।१२३) ‘वृषभः श्रेष्ठवृषयोः’ इति विश्वः ॥ (५) ॥ ॥ ‘इ- गुपध–' (३।१।१३५) इति कः । 'वृषो धर्मे बलीदें | ) ॥ शक्मयां पुंराशिमेदयोः । श्रेष्ठे स्यादुत्तरस्थश्च वासमूषकशुकले । वृषा मूषिकपय च' ( इति मेदिनी ) ॥ ( ६ ) ॥*॥ अनः शकटं वहति । 'अनसि वहेः क्विबनसो डच' ( (७) ॥ *|| सुरभ्या अपत्यम् । 'स्त्रीभ्यो ढक्' (४|१|१२०)।- 'इतश्चानिञः' (४।१।१२२ ) – इति मुकुटस्य प्रमादः । तत्र 'वचः' इत्यनुवृत्तेः ॥ (८) ॥ ॥ गच्छति । 'गमेड: ' ( उ० २।६७) । ‘गौ स्वर्गे च बलीवर्दे रश्मौ च कुलिशे पुमान् | स्त्री सौरमेयीदृग्वाण दिग्वाग्भूष्वप्सु भूनि च' इति विश्वमेदि- न्यौ ॥ (९) ॥*॥ नव 'वृषभस्य' || व्याख्यासुधाख्यव्याख्यासमेतः उक्षणां संहतिरौक्षकम् । विति ॥ उक्ष्णां समूहः । 'गोत्रो (४|२|३९ ) इति चुञ् ॥ (१) ॥ * ॥ एकम् 'वृषसङ्घस्य' || गव्या गोत्रा गवाम् गेति ॥ गावां संहतिः। ‘खलगोरथात् ' (४/२/५० ) इति यः ॥ (१) ॥*॥ ‘इनित्रकव्यचश्च' (४|१|५१) इति त्रः ॥ ( २ ) ॥ ॥ द्वे 'गोसमूहस्य' ॥ । उत्पन्न उक्षा जातोक्षः विति ॥ जातश्चासावुक्षा च । 'अचतुर-' (५१४१७७) इति साधुः ॥ (१) ॥*|| एकं 'भ्रष्टदम्यभावस्य' ॥ सद्यो जातस्तु तर्णकः ॥ ६१ ॥ सेति ॥ तृणोति । 'तृणु भक्षणे' (त० उ० से ० ) 1 ण्वुल् (३1919३३) ॥ ( १ ) ॥ * ॥ एकम् 'सद्योजातवत्सस्य' || शकृत्करिस्तु वत्सः स्यात् शेति ॥ शकृत् करोति । 'स्तम्बशकृतोरिन्' (३|२|२४ ) ॥ (१) ॥*॥ वदति | 'वद व्यक्तायां वाचि' (भ्वा०प० से०) 'तू वहिनिक मिकपिभ्यः सः' ( उ० ३१६२) । 'वत्सः पु. त्रादिवर्पयोः । तके नोरसि क्लीयम्' इति विश्वः (मेदिनी) ॥ (२) ॥ * ॥ द्वे 'वत्सस्य' ॥ वत्सधेन्वोर्वात्सक धैनुके || ६०॥ वेति ॥ वत्सानां समूहः । ‘गोत्रोक्षोष्ट्र - (४|२|४९) इति बुञ् ॥ (१) ॥*॥ धेनूनां समूहः । 'अचित्तहस्ति- (४) २।४७) इति ठक् ॥ (१) ॥ * ॥ 'वत्सधेनुसमूहयोः' प्र- त्येकमेकैकम् ॥ उक्षा महान्महोक्षः स्यात् वृद्धोक्षस्तु जरगवः । विति ॥ वृद्धश्वासाबुक्षा च । पूर्ववत् ॥ (१) ॥*॥ जरं- श्चासौ गौश्च। ‘पूर्वकालैक - ' (२११९४९) इति समासः 'गो- रतद्धितलुकि' (५४९२) इति टच् ॥ ( २ ) ॥ * ॥ द्वे 'वृद्ध- वृषभस्य' || ३२३ दम्यवत्सतरौ समौ । देति ॥ दमनाई । 'दमु शमने' (दि० प० से ० ) । ‘अर्हे कृत्यतृचश्च’ (३१३११०९) इत्यर्थे 'पोरदुपधात्' (३॥१॥ ९८) इति यत् ॥ (१) || || तनुर्वत्सः | 'वत्सोक्षाश्व - ' (५१३१९१ ) इत्यादिना टरच् ॥ ( २ ) ॥ ॥ द्वे 'वत्सभाव मतीत्य द्वितीयं वयः स्पृटस्य || आर्षभ्यः पण्डतायोग्यः आर्मेति ॥ ऋषभस्य प्रकृतिः । 'ऋपभोपानहोर्थः' (4191 १४) ॥ (१) ॥*॥ पण्डताया योग्यः ॥॥ एकम् 'स्पष्टता- रुण्यस्य' || || 'अचतुर-' (५१४१७७) स्कन्धप्रवेशस्तु वहः इति साधुः ॥ (१) ॥*॥ एकम् 'महोक्षस्य' ॥ पण्डो गोपतिरिवरः ॥ ६२ ॥ पेति ॥ सनोति । सन्यते वा 'षणु दाने' ( तु० उ० से ० ) । 'अमन्ताः' ( उ० १११४) | बाहुलकान सलम् । 'पण्डं पद्मादिसंघाते न स्त्री स्याद्रोपती पुमान् इति मूर्धन्यादौ डान्ते (मेदिनी ) ॥ * ॥ 'शण्डः' इति पाठे 'शमेर्ट:' ( उ० १ | ९९ ) 'शष्ट: स्यात्पुंसि गोषतौ । आ( अ )कृष्टाण्डे वर्षवरे तृतीयप्रकृतावपि (इति मेदिनी) ॥ (१) ॥ * ॥ गवां पतिः ॥ (२) ॥ ॥ एषणम् इद | ‘इषु इच्छाम्' (तु॰ प० से०)। केचित् 'इत्वरः' इति पठन्ति । एति तच्छीलः । ‘इणूनश- (३।२।१७८) | इया चरति अच् (३।१।१३४ ) ॥ ॥ जि-' (३।२।१६३) इति करप् | तुक् (६।१।७१ ) ॥ (३) ॥ * ॥ त्रीणि 'सांड' इति ख्यातस्य || 11 कितू स्केति ॥ वहति युगमनेन । 'गोचरसंचर-' (३।३।११९) इति साधुः । 'वहः स्याद्वृषभस्कन्धे वाहे गन्धवद्देऽपि च' इति बिश्वः (मेदिनी) ॥ (१) ॥*॥ एकम् ॥ सास्ना तु गलकम्बलः । सेति ॥ सस्ति । 'पस स्वप्ने' ( अ० प० से ० ) । 'राम्रा- १- 'स्कन्ध देशरत्वस्य वहः' इति पाठान्तरम् ॥