पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । [ द्वितीयं काण्डम् ३१२ मुल्मुके न स्त्री पुंलिङ्गस्तु महीसुते' इति विश्वः (मेदिनी ) ॥ भाण्डभेदे ना दर्पणे कठिने त्रिषु' इति विश्वः (मेदिनी) ॥ (१) ॥ * ॥ एकम् 'अङ्गारस्य' || (१) ॥ * ॥ आ लुनाति । 'लूञ् छेदने' ( क्या० उ० से० ) । क्विप् (३।२॥७६) ॥*॥ ह्रखपाठे आलाति 'ला दाने' ( अ० प० से० ) । मितादित्वात् (वा० ३।२।१८०) डः । 'आलु र्गलन्तिकायां स्त्री क्लीबं मूले च भेलके' इति विश्वः (मेदिनी) ॥ (२) ॥ ॥ गलति | 'गल अदने' ( भ्वा०प० से ० ) । शता ( ३ | २|१२४) । 'उगितच' इति डीप् (४११॥६) । शप्- श्यनोः-' (७।११८१) इति नुम् । स्वार्थे कन् । (ज्ञापि ० ५।४। ५) ॥ (३) ॥*॥ त्रीणि 'गलन्तिकायाः' 'करवती' इति ।- कन्दोघृतपक्कनिष्काशनसाधनस्य - ख्यातायाः इत्येके ॥ अलातमुल्मुकम् । अलेति ॥ लानम् । 'ला दाने' ( अ० प० अ० ) | क्तः (३।३।११४)। न लातमस्य ॥ (१) ॥*॥ ओषति | 'उष दाहे' ( भ्वा०प० से ० ) । 'उल्मुकदवि - ' ( उ० ३१८४ ) इति साधुः ॥ (२) ॥ ॥ द्वे 'अर्धदग्धकाष्ठस्य' । —त्रयोऽपि पर्यायाः - इति मुकुटः ॥ लीबेम्बरीषं भ्रष्ट्रः कीति ॥ अम्ब्यतेऽत्र वा । 'अबि शब्दे' (भ्वा० आ० से० ) । 'अम्बरीष: ' ( उ० ४ | २९ ) इति साधुः -- 'शिरीषा दयश्च’ — इति त्वपाणिनीयम् । 'अम्बरीषपुरुषोषरौषधम्' इति षभेदान्मूर्धन्यान्तोऽयम् । 'अम्बरीषं रणे भ्राष्ट्रे क्ली पुंसि नृपान्तरे | नरकस्य प्रभेदे च किशोरे भास्करेऽपि च । आम्रातकेऽनुतापे च' 'ॲनिमिषो मत्स्यदेवयोः' ( इति मे - दिनी ) ॥ (१) ॥*॥ भृज्यतेऽत्र | 'भ्रस्ज पाके' ( तु० उ० अ० ) । ‘भ्रस्जिगमिनमि–’ (उ० ४|१६०) इति ष्ट्रवृद्धी ॥ ( २ ) ॥ * ॥ द्वे 'भर्जनपात्रस्य' ॥ ना कन्दुर्वा स्वेदनी स्त्रियाम् ॥ ३० ॥ नेति ॥ स्कन्दिति । ‘स्कन्दिर् गतिशोषणयोः' (भ्वा०प० ० ) । 'स्कन्दे: सलोपश्च' (उ० १११४) इति कुः | ‘वा’ इत्यस्यात्राप्यन्वयः । पक्षे स्त्रीसाहचर्यात् ॥ (१) ॥॥ खियते- ऽस्मात् । अधिकरणे ॰ल्युट् (३।३।११७) | - ‘वा यिाम्' इत्यन्वयात् ‘स्वेदनः' अपि - इति मुकुटः ॥ ( २ ) ॥*॥ द्वे 'मद्यनिर्माणोपयोगिपात्रस्य' 'कराही' इति ख्यातस्य ॥ अलिंजरः स्यान्मणिकः अलीति || अलनम् | 'अल भूषणादौ' ( भ्वा०प० से॰ ) । ‘इकृष्यादिभ्यः' (वा० ३१३/१०८) इन् (उ० ४। ११८) वा । अलिं सामर्थ्य जरयति, नृणाति, वा । 'जूषु वयोहानौ' ( भ्वा०प० से ० ) । ‘जू वयोहानौ' ( क्या ० ० से० ) वा । अण् (३।२।१ ) | अच् (३|१|१३५) वा ॥ (१) ॥॥ मणति । 'मण शब्दे' ( भ्वा० प० से० ) । 'सर्वधा- तुभ्य:- (उ० ४११८) इतीन् । स्वार्थे कन् (ज्ञापि० ५४ ५) ‘संज्ञायां कन्’ (५।३।७५) वा ॥ (२) ॥ * ॥ द्वे 'महा- कुम्भस्य' 'माट' इति ख्यातस्य || पिठर: स्थाल्युखा कुण्डम् पीति ॥ पेठति | 'पिठ बन्धे' ( भ्वा०प० से ० ) 'इगु- पध-' (३।१।१३५ ) इति कः । पिठं राति । 'रा दाने' ( अ ० प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः ॥ (१) ॥*॥ तिष्ठत्यत्रौदनादि । 'ष्टा गतिनिवृत्तौ' ( भ्वा०प०अ० ) । 'स्थाचति - ' ( उ० ११११६) इत्यालच् | स्थलयत्र वा । 'छल स्थाने ( भ्वा० प० से ० ) । ज्वलादण् (३।१।४०) । ‘जातेः' (४|११६३) इति । स्थालं च । 'स्थालं भाजनमेदेऽपिं ओखति । 'उस गतौ' (भ्वा०प० से ० ) । 'इगुपध-' (३।११ स्थाली स्यात्पाटलोखयोः' ( इति मेदिनी) ॥ (२) ॥ ॥ १३५) इति कः ॥ ॥ ('उषा' इति) मूर्धन्यपाठे ‘उष दाहे’ (भ्वा०प० से ० ) ॥ (३ ) ॥ ॥ कुण्डयति । ‘कुडि रक्षायाम्’ ( चु० प० से० ) | अच् (३|१|१३४) |--कुणति । 'कुण शब्दोपतापयोः' ( तु० प० से० ) । 'कुणादिभ्यः कित्' इति डः - इति मुकुटः । तन्न । उक्तसूत्राभावात् । 'क्कादे: कित्' ( उ० ११११५) इति सूत्रस्य सत्त्वा । 'कुण्डमम्यालये मानभेदे देवजलाशये । कुण्डी कमण्डलौ जारात्पतिवत्नीसुते पुमान् | पिठरे तु न ना' इति विश्वः (मेदिनी) ॥ (४) ॥*॥ चत्वारि 'ओदनादिपचनपात्रस्य ॥ कलसस्तु त्रिषु द्वयोः ॥ ३१ ॥ कर्कर्यालुर्गलन्तिका । ! केति ॥ कर्कणम् । 'कर्क हासे' ( ) । घञ् (३|३| १८) । कर्क राति । 'रा दाने' (अ०प० अ० ) । 'आतो- ऽनुप–’ (३।२।३) इति कः । गौरादिः (४२११६१) 'कर्करी घटः कुटनिपौ केति ॥ केन जलेन लसति । 'लस श्लेषणक्रीडनयोः' ( भ्वा०प० से ० ) | पचायच् (३॥१॥१३५ ) ॥ ॥ तालव्या- न्तपाठे कलं शवति । 'शु गतौ' ( ) । 'अन्येभ्योऽपि ' ( बा० ३।२।१०१ ) इति डः । 'तालव्या अपि दन्त्याच शम्ब- शूकरपांशवः । कलशः शम्बलं चैव जिह्वायां रशना तथा ' इति शभेदः । स्त्रियां जातिवान्डी (४|१|६३) ॥ (१) ॥॥ घटति । 'घट चेष्टायाम्' ( भ्वा० आ० से ० ) । अच् (३१1१३४) | स्त्रियां घटी। 'घटाः समाधिभेदे ना शिरः २१– उचितमिदम् । उक्त मेदिन्याङ्गारस्योल्मुकार्थंकतोक्तेः कूटकुटेषु च । घटा घटनगोष्टीभघटनासु च योषिति' (इति ३—‘अनिमिषशब्द।र्थपरमिदंः प्रसङ्गेनोक्तम् । न त्वस्यात्रोपयोगः ॥ | मेदिनी) ॥ (२) ॥ ॥ कुटति 'कुट कौटिल्ये' (तु०प० से ० ) ।