सामग्री पर जाएँ

पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] टच् । – महदनोऽस्य — इति स्वामी | तन्न । 'अनोश्मायः - इति तत्पुरुषसमासान्तोपन्यासविरोधात् ॥ (३) ॥ ॥ त्रीणि 'पाकस्थानस्य' ॥ व्याख्यासुधाख्यव्याख्यासमेतः । पौरोगवस्तध्यक्षः पाविति ॥ पुरः पूजिता गौर्भूमिः । पुरोगवी । 'गोरत- द्धित’ (५॥४॥९२) इति ट्च् | तस्या अयम् 'तस्येदम्' (४) ३।१२१) इत्यण् । यद्वा पुरः प्रथमं याच्यवस्तुषु गौर्नेत्रमस्य । पुरोगुः। ‘गोस्त्रियोः–’ (१।२।४८) । ततः ‘प्रज्ञावण्’ (५॥४॥ ३८) ॥ (१) ॥*॥ तस्याध्यक्षः ॥ (२) ॥ * ॥ द्वे 'महानसा- धिकृतस्य' || सूपकारास्तु बल्लवाः ॥ २७ ॥ आरालिका आन्धसिकाः सूदा औद्धिका गुणा: । स्विति ॥ शोभैना आपोऽस्मिन् । 'ऋक्पूर्-' (५॥४॥७४) इत्यः । ‘कुसुयुभ्यश्च' इत्यपोऽत ऊत् । सवति रसान् । 'षु प्रसवादौ’ ( भ्वा० प० से० ) | 'सुभ्यां मिच्च' ( उ० ३१२६) इति पो दीर्घश्च । — 'युकुसूनां किञ्च' – इत्यपाणिनीयम् । सूपं करोति । ‘कर्मण्यण्’ (३|२|१) ॥ (१) ॥ ॥ वलनम् | 'वल्ल संवरणे' (भ्वा० आ० से० ) । 'वलिः ' सौत्रो वा प्रीतौ । भावे घञ् (३।३।१८) । वल्लोऽस्यास्ति । 'अन्येभ्योऽपि -' ( वा० ५१२।१०९) इति वः । वलं वाति । 'आतोऽनुप-' (३|२|३) इति कः । 'बल्लव: सूपकारे स्याद्भीमसेने च गोदु- ‘हि’ इति विश्वः ॥ (१) ॥* ॥ अरालं कुटिलं चरन्ति 'चरैति' (४१४१८) इति ठक् ॥ (३) ॥ * ॥ अन्धो भक्तं शिल्पं येषाम् । ‘शिल्पम्' (४|४|५५) इति ठक् ॥ (४) ॥ ॥ सूदन्ति छागा- दीन् । ‘षूद हिंसायाम्’ ( चु० उ० से ० ) | अच् (३॥१॥ १३४) । कः (३।१।१३५) वा । 'सूदस्तु कथितः सूपकारे च व्यञ्जनान्तरे' इति विश्वमेदिन्यौ ॥ ( ५ ) ॥ * ॥ ओदनं शिल्पं येषाम् । ‘शिल्पम्’ (४।४।५५) इति ठक् ॥ (६) ॥ ॥ गुणयते । 'गुण निमन्त्रणे ( चु० उ० से ० ) अदन्तः । अच् (३|१|१३४ ) | 'गुणो मौर्व्यामप्रधाने रूपादौ सूद इन्द्रिये । त्यागे शौर्यादिसंध्या दिसत्त्वाद्यावृत्तिरज्जुषु । शुक्लादावपि बुद्ध्यां च' (इति मेदिनी) ॥ (७) ॥ ॥ सप्त 'पाककर्तुः' - आद्यद्वयं व्यञ्जनकारस्य - इति स्वामी ॥ आपूपिकः कान्दविको भक्षकार: आध्विति || अपूपाः पण्यमस्य | 'तदस्य पण्यम्' ( ४ | ४१५१ ) इति ठक् ॥ (१) | || कन्दौ संस्कृतम् । 'संकृतं ३११ भक्षाः' (४|२|१६) इत्यण् | कान्दवं पण्यमस्य | ठक् (४ | ४॥५१) ॥ (२) ॥ ॥ भक्षं करोति । 'कर्मण्यण' (३२११ ) ॥ (३) ॥ * ॥ त्रीणि 'भक्ष्यकारस्य' ॥ इमे त्रिषु ॥ २८ ॥ इम इति ॥ इमे पौरोगवादयः ॥ अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका । अश्मेति ॥ अश्मनोऽप्यन्तोऽत्र | शकन्ध्वादिः (वा० ६ | १॥९४) । 'अश्मन्तमशुभेचुलयां मरणेऽनवधावपि । क्षेत्रेऽ- पि' इति विश्वः (मेदिनी ) ॥ * ॥ 'अस्वन्तः' इति पाठे असूं- नामन्तोऽत्र ॥ (१) ॥ * ॥ उद् धीयतेऽत्र 'धाञः' ( जु० उ० अ०) ल्युट् (३।३।११७) । 'उद्ध मुद्गते वाच्यलिङ्गं चुल्यां नपुंसकम्' इति विश्वः ( मेदिनी) ॥ ॥ 'उद्ध्मानम्' इति पाठे तु – उद्ध्मायतेऽत्र । 'धमा शब्दादौ ' ( भ्वा०प० अ० ) । ल्युट् (३।३।११७) | ( २ ) ॥ ॥ अघिश्रीयतेऽत्र 'श्रीज् पाके ( या० उ० अ० ) | अधिकरणे ल्युट् ( ३ | ३ | ११७) । ङीप् (४/१1१५ ) ॥ (३) ॥ ॥ चुलयतेऽत्र | ‘चुल्ल भावक- रणे' ( भ्वा० प० से० । इन् ( उ० ४|११८) । 'चुद्यतेऽत्रा- निरिति वा' | ‘चुद प्रेरणे' (चु०प० से ० ) | बाहुलकाल्लिक् । 'कृदिकारात्' (ग० ४११९४५) इति वा ङीष् ॥ (४) ॥॥ अन्त्यतेऽत्र । 'अति बन्धने' ( भ्वा० आ० से० ) | ण्वुल् (३।३।१०९) । 'अन्तिकं निकटे वाच्यलिङ्गं स्त्री शातलौषधौ । चुलयां ज्येष्ठभगिन्यां च नाट्योत्तौ कीर्त्यतेऽन्तिका' (इवि मेदिनी) ॥ (५) ॥ ॥ पश्च 'चुलधाः' ॥ अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि ॥ २९ ॥ हसन्यपि अङ्गेति ॥ अङ्गारा घीयन्तेऽस्याम् । धाञः ( जु० उ० अ० ) ल्युट (३।३।११६) | 'टिड्डा-' (४।१।१५) इति ङीप् । कन् (ज्ञापि० ५॥४/५) ॥ (१) ॥ * ॥ अङ्गाराणां शकटी ॥ (२) ॥ * ॥ हसति । 'हसे हसने' (भ्वा० प० से ० ) । 'लटः शतृ-' (३।२।१२४) । ‘शप्श्यनोः' (७७ १९८१) इति नुम् | 'हंस' न्त्यकारधान्यां च मल्लिकाशा किनी मिदोः' इति विश्वः ॥ (३) ॥ * ॥ 'कृत्यल्युट:' (३|३|११३) इति ल्युट् | 'टिड्ढ़ा-' (४।१॥१५) इति ङीप् ॥ (४) ॥ ॥ चत्वारि 'अङ्गारशक- ट्याः' 'बोरसी' इति ख्यातायाः ॥ अथ न स्त्री स्यादङ्गारः अथेति ॥ अङ्गति । 'अगि गतौ ' ( भ्वा०प० से ० ) । 'अ- १ - इदं च 'अत उत्' इत्यन्तमसंगतम् । 'न पूजनात्' (५1 मिदिमन्दिभ्य आरन्' ( उ० ३।१३४) । अङ्गमियर्ति वा । ४१६९) इत्यनेन समासान्तनिषेधस्य दुर्वारत्वात् । 'कुसुयुभ्यश्च' । 'ऋगतौ' (जु०प० अ०) । 'कर्मण्यण्’ (३।२।१ ) । 'अज्ञा इति वार्तिकस्यापि भाष्यादावभावात् 'निर्मूलत्वात् । अत एवैतजन- केनापि सिद्धान्तकौमुद्यां हलन्तनपुंसकप्रकरणे 'स्वप्' शब्द उदा- हृतः ॥ २–'चरति' इत्यत्र 'तेन' इत्यनुवृत्ते: सर्वसंमतत्वेन चि- न्त्यमेतत् ॥ १ - स च सान्निर्निरग्निश्च । तत्र साझौ यथा - अङ्गारचुम्बितमिक व्यथमानमास्ते' इति । निरनौ यथा - 'कलङ्कस्तत्रत्यो व्रजति मलिना- भारतुलनाम्' इत्यादिप्रयोगः-शति मुकुटः ।