पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०८ नी) ॥ (१) ॥*॥ क्षुधामभिजनयति । नन्दादिः (३|१| १३३) ॥*॥ — क्षुतमभिजनयति । 'क्षुताभिजननः- इति स्वामी ॥ (२) ॥*॥ राजति, राजयति वा । कुन् ( उ० २॥३२) ॥ (३) ॥ ॥ कृष्णैव । 'संज्ञायां कन्' (५॥३७५) (४) ॥*॥ असुरस्येयम् । अण् (४|३|१२१) । अस्यति वा । ' असेरुरन्' ( उ० १॥४२) । प्रज्ञाद्यण् (५॥४॥३८) ॥ (५) ॥*॥ पच 'कृष्णसर्षपस्य' 'राई' इति ख्यातस्य || स्त्रियौ कङ्गुप्रियङ्ग् द्वे अमरकोषः । ‘माङ् माने’ ( जु० इति कः । अवते, अ० ) । ‘विभाषा स्त्रीति ॥ कमङ्गति । 'अगि गतौ' ( भ्वा०प० से ० ) । ण्यन्तो वा । मृगय्वादित्वात् ( उ० ११३७) कुः । शकन्ध्वादिः ( वा० ६।१।९४) | कं सुखं गच्छति । 'गम्ऌ गतौ' ( भ्वा० प० अ० ) । मितवादित्वात् (वा० ३।२।१८०) डः ॥ (१) ॥*॥ एवं प्रियं गच्छति ॥ (१) ॥ * ॥ द्वे 'प्रियङ्गोः' ॥ अतसी स्यादुमा क्षुमा । अतेति ॥ अतति । ‘अत सातत्यगमने' (भ्वा०प० से ० ) । 'अत्यविचमि - ' ( उ० ३।११७) | गौरादिः (४११॥४१ ) ॥ (१)॥*॥ उं शिम्बं माति, सिमीते, वा । 'मा' (अ० प० अ०) आ० अ० ) । 'आतोऽनुप-' (३१२१३) ऊयते, वा 'ऊङ् शब्दे' (भ्वा० आ० तिलमाषोमा -' (५२१४) इति निपातना- न्मक् इति वा । 'उमातसी हैमवतीहरिद्राकीर्तिकान्तिषु' (इति मेदिनी) ॥ (२) ॥ * ॥ क्षौति, क्षूयते, वा । 'टुक्षु शब्दे' ( अ० प० अ० ) । बाहुलकान् मक् । 'अर्तिस्तुसु हु सृ~~' ( उ० १।१४०) इति मन् वा । संज्ञापूर्वकत्वान्न गुणः - ध्रुवते - इति मुकुटस्य प्रमादः । क्षौतेरादादिकत्वात् । 'क्षु- मातसीनीलिकयोः' इति विश्वः ॥ (३) ॥ ॥ त्रीणि 'अ- तस्याः ॥ मातुलानी तु भङ्गायाम् मेति ॥ मायास्तुला । मातुलामानयति । 'अन प्राणने' ( अ० प० से० ) गतौ वा । 'कर्मण्य' (३|२|१) | ङीष् (४|१|१४) । मातुलस्य धत्तूरस्य स्त्रीव वा । 'मातुलोपाध्या- ययोडा' (०४१४९॥ (१) ॥ ॥ भज्यते । अनया वा । 'भञ्जो आमर्दने' ( रु०प० से ० ) । 'अकर्तरि च' (३|३|१९) इति 'हलच' (३।३।१२१) इति वा घञ् । 'तरङ्गभेदयोभङ्गो भङ्गा शस्यशणाह्वये' इति रुद्रः ॥ (२) ॥ * ॥ द्वे शणाख्यशस्य मेदस्य' ॥ व्रीहि भेदस्त्वणुः पुमान् ॥ २० ॥ व्रीति ॥ त्रीहिविशेषः । अणति । 'अण शब्दे' ( भ्वा० से० ) । 'अणश्च' । 'धान्ये नित्' (१९८१९) इत्युः । मयल्पयोः' इति हैमः ॥ (१) ॥ * ॥ एकम् 'चीना' +ख्यातस्य || " [द्वितीयं काण्डम् किंशारुः शस्यशूकं स्यात् किमिति ॥ किंचित् कुत्सितं वा शृणाति । 'शू हिंसा- याम्' (त्र्या० प० से ० ) । 'किंजरयोः श्रिण: ' (उ० १४) इत्यु | 'अथ किंशारुन्यशूके शरेऽपि च' इति हैमः ॥ (१) ॥ ॥ शस्यस्य शूकम् । – शस्यस्य शूकः इति मुकुटः ॥ (२) ॥ ॥ द्वे 'यवाद्यग्रस्य || कणिशं शस्यमञ्जरी। केति ॥ कणयः कणाः सन्त्यस्य । लोमादित्वात् (५॥२॥ १०० ) शः । कणिनं स्वावयवं श्यति वा । 'शो तनूकरणे' (दि० प० अ० ) । 'आतोऽनुप-' (३|२|३) इति कः । 'कणिशो धान्य शीर्षके' इति तालव्यान्ते रत्नकोषः ॥ (१) ॥*॥ शस्यस्य मञ्जरी ॥ (२) ॥ ॥ द्वे 'धान्यमञ्जर्याः' ॥ धान्यं व्रीहिः स्तम्बकरिः घेति ॥ धाने पोषणे साधुः । 'तत्र साधुः' (४४१९८) इति यत् । 'धान्यं तु व्रीहौ धान्याके' इति हैमः ॥ (१) ॥ * ॥ त्रीणाति । 'त्री वरणे' ( क्या० पं० अ० ) । 'व्रीहिशा- ल्यो' (५१२१२) इति ज्ञापकाद् हिक्। ‘व्रीहिः सामान्य- धान्ये स्यादाशुधान्ये च पुंस्ययम्' इति विश्वः (मेदिनी) ॥ (२) ॥ ॥ स्तम्बं करोति | 'स्तम्बशकृतोरिन्’ (३।२।२४)। ब्रीहिसाहचर्यात्पुंस्त्वम् ॥ (३) ॥*॥ त्रीणि 'धान्यसामा- न्यस्य || स्तम्बो गुच्छस्तृणादिनः ॥ २१ ॥ स्तेति ॥ तिष्ठति । अत्र वा । 'ष्ठा गतिनिवृत्तौ' ( भ्वा० प० अ० 'स्यः स्तोऽम्बजबकौ' ( उ० ४।९६) ॥ (१) ॥ * ॥ गवनम् | ‘गुड् शब्दे' ( भ्वा० आ० अ० ) । 'संपदादिक्विप्’ ( वा० ३/३/१०८ ) | तुक् ( ६ | १ |७१ ) | गुतं छ्यति । ‘छो छेदने' (दि० प० अ०) । 'आतोऽनुप-' (३|२|३) इति कः ॥ (२) ॥ * ॥ आदिना ब्रीहियवादिग्रहः ॥ ॥ द्वे 'यवादीनां मूलस्य' ॥ नाडी नालं च काण्डोऽस्य नेति ॥ नलत्यनेन । 'जल गन्धे' ( भ्वा० प० से ० ) । 'हलच' (३।३।१२१) इति घन् । नालयति । अच् (३।१।१३४) वा । डलयोरेकत्वम् । गौरादिः (४|१४१) । 'नाडी कुहन- चर्यायां घटिकागण्डदूर्वयोः | नाले गुणान्तरे स्नायौ' इति हैम: १२ - धान्यपदेन सप्तदश धान्यान्युच्यन्ते । व्रीहि (१) यव (२) मसूर (३) गोधूम (४) मुग (५) माष (६) तिल (७) चणक (८) अणु (९) प्रियंगु (१०) कोद्रव (११) मकुष्ठक (१२) कला (१३) कुलत्थ (१४) शठ (१५) सर्षप (१६) अतसी (१७) इति सप्तदश - इति मुकुटः ॥ महाभाष्ये (५॥२॥४) सूत्रे तु 'शणसप्त- दशानि धान्यानि' इत्युक्तम् । २ गुणान्तरं चर्मरज्जुविशेषः । तत्र यथा 'नाडीभिर्नह्यते युगम्' –इत्यनेकार्थकैरवाकरकौमुदी । 'त्रणान्तरे' इति पाठ आसीत् ॥