पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमरकोषः । १३३) ल्युर्वा मुकुटः । तन्न । त्योः कर्तरि विधानात्करणेऽसंभ- वात् ॥ (३) ॥*॥ सिनोति, सीयते, वा । “षिज् बन्धने' (खा० उ० अ०)। ‘सूसिमिचीनां दीर्घश्च' (उ० २१२५) इति दीर्घत्वं च । 'हतिग्मकरौ सीरौ इति दन्त्यादौ रभसः। ‘सीरः स्यादंशुमालिनि । लाङ्गले' इति हैमः ॥ (४) ॥ * ॥ चत्वारि 'हलस्य' | अथ शम्या स्त्री युगकीलकः । अथेति ॥ शम्यतेऽनया । 'शम उपशमे' ( दि० प० से०) अनन्यादिः (उ० ४।११२ ) ॥ (१) ॥ ॥ युगस्य कीलः स्वार्थे कन् (ज्ञापि० ५१४१५) ॥ (२) ॥ * ॥ द्वे 'युगस्य कीलके' ॥ ईशा लाङ्गलदण्डः स्यात् ईशेति ॥ ईष्टे ‘ईश ऐश्वर्ये' (अ० आ० से ० ) | 'इगु - पध-' (३।१।१३५) इति कः । 'प्रभुशंकरयोरीशः स्त्रियां लाङ्गलदण्डके' इति तालव्यान्ते रुद्ररभसौ । 'ईशः स्वामिनि रुद्रे च स्यादीशा हलदण्डके' इति शान्ते विश्वः ॥ * ॥ ईषते । ‘ईष गत्यादौ’ (भ्वा० आ० से०)। 'इगुपथ - (३1१1१३५) उभयत्र करणे ‘गुरोश्च’ (३।३।१०३) इत्यो वा । 'ईषा पेटी मञ्जूषा’ इति मूर्धन्यान्ते चन्द्रगोमी ॥ (१) ॥ ॥ लाङ्गलस्य दण्डः ॥ (२) ॥*॥ द्वे ‘हलयुगयोर्मध्यकाष्ठस्य' ॥ सीता लाङ्गलपद्धतिः ॥ १४ ॥ सीति ॥ सीयते । ‘षि॑िज् बन्धने' । (खा० उ० अ०) कः (३।२।१०२) पृषोदरादिः (६।३।१०९ ) |– स्यति भुव- म् । 'षोऽन्तकर्मणि' (दि० प० अ०) (बाहुलकात् ) तः । 'घुमास्था-' (६४/६६) इतीत्वम् इति मुकुटः । तन्न । 'यतिस्य तिमास्था-' (७१४१४०) इति विशेषविहितेने त्वेन बाधात् । 'सीता लाङ्गलरेखा स्याश्योमगङ्गा च जानकी' इति दन्त्यादौ रभसः । 'सीता जनकजागङ्गामेदयोर्हलप- द्धतौ' इति दन्त्यादौ हैमः ॥ ॥ शेते स्म । 'शीङ् खप्ने' ( अ० आ० से ० ) । 'गत्यर्था-' (३१४१७२) इति तः । 'शीता नभःसरिति लाङ्गलपद्धतौ च शीता दशानन रिपोः सहधर्मिणी च । शीतं स्मृतं हिमगुणे च तदन्विते च शीतोऽलसे च बहुवारतरौ च दृष्टः' इति तालव्यादौ घर णिः ॥ (१) ॥*॥ लाङ्गलस्य पद्धतिः ॥ ( २ ) ॥ * ॥ द्वे 'लाङ्गलकृतरेखायाः' ॥ पुंसि मेधिः खले दारु न्यस्तं यत्पशुबन्धने | प्विति ॥ मेध्यन्ते पशवोऽत्र | 'मेधू संगमे' (भ्वा० उ० से०) इन् ( उ० ४।११८ ) | खामी तु– 'मेथिः' इति पठति । तत्र 'मेथू संगमे' इति धातुर्बोध्यः ॥ (१) एकम् 'धान्यखले पशुबन्धनस्तम्भस्य ॥ [ द्वितीयं काण्डम् आशुव्रहि: पाटलः स्यात् आश्विति ॥ अश्नुते । 'अशु व्याप्तौ' (स्वा० आ० से ० ) । 'कृवापा- ' (उ० १११) इत्युण् । ‘आशुस्तु श्री हिशीघ्रयोः' इति हैमचन्द्रः । 'तृणबीजं तु श्यामाको, ब्रीहिराशु च पाटलः' इति (पर्याये) क्लबमाशु । 'आशु स्याद्री हिशीघ्रयोः' इति रत्नमालायामपि क्लीबम् ॥ ( १ ) ॥ ॥ वर्हत्युपचयं गच्छति । 'वृह वृद्धौ' (भ्वा० प० से ० ) । 'इगुपधात् कित्' (उ० ४ १२०) इति इन् । पृषोदरादिः (६|३|१०९) । त्रीयते । ‘ब्रीङ् गलाम्' (दि० आ० अ०) । बाहुलकाद् हिक्, वा ॥ (२) ॥ * ॥ पाटं लाति | कः (३|२|३) | पाटलो वर्णोऽस्या- ति, इति वा ॥ * ॥ पाटलः, व्रीहिः, आशु, च इति नामत्रयम् । आशुनामा व्रीहिः पाटल उच्यते इति नामद्वय- म् इति सुभूतिः । 'आशुव्रीहौ पाटलो ना श्वेतरतेऽन्यलि- नवान्' इति रुद्रः ॥ * ॥ त्रीणि 'षष्टिकादेः' ॥ सितशूकयवौ समौ ॥ १५ ॥ सीति | सितं शुकं यस्य इति मध्यतालव्यः ॥॥ - ( शितशूकः) द्वितालव्यः - इति खामी ॥ (१) ॥*॥ यौति ॥ यूयते वा । अच् (३।१११३४) | अप् (३|३|५७) वा० । 'यवो धान्येऽपृथकृतौ' इति हैमः ॥ ( २ ) ॥ * ॥ द्वे 'यवा- नाम्' ॥ तोक्मस्तु तत्र हरिते तविति ॥ तकति । तक्यते वा 'तक सहने हासे च ( भ्वा०प० से ० ) | बाहुलकान्मः, ओल्लम् च । ('तोक्मं कर्णमले, पुंसि हरिते च हरिद्रवे' इति मेदिनी) ॥ (१) ॥*॥ एकम् 'अपक्कयवस्य' | कलायस्तु सतीनकः । हरेणुखण्डिकौ चास्मिन् केति ॥ कलमयते 'अय गतौ ' ( भ्वा० आ० से ० ) अण् (३।२।१ ) । —– कं वातं लाति । ‘आतः - ' (३|२|३) इति कः । 'आत: (७|३|३३) इति युक् इति मुकुटः | तन्न । जित णिति परे विहितस्य युकः के अप्रसङ्गात् ॥ (१) ॥*॥ सति जीवे इनः प्रभुः । 'संज्ञायाम्' (२|१|४४) इति समासः । 'हलदन्तात्' (६|३|९) इत्यलुक् | सतीनं वायुं करोति । 'अ- न्येभ्योऽपि - ' (वा० ३।२।१०१ ) इति डः । - प्रज्ञाद्यणि (५॥ ४१३८) 'सातीनकः' अपि - इति माधवी ॥ (२) ॥*॥ हरति । 'हृन् हरणे' (भ्वा० उ० अ० ) | 'कृहृभ्यामेणुः' ( उ० २११ ) । 'हरेणुः स्त्री रेणुकायां स तु पुंसि सतीनके इति रभसा पुंसि ॥ (३) ॥ * ॥ खण्डोऽस्यास्ति । 'अत इनि- ठनौ' (५/२/११५) इति ठन् ॥ ( ४ ) ॥ ॥ 'कलायस्त्रिकटः प्रोक्तः सतीनो वर्तुलो मतः । हरेणुरङ्कटो ज्ञेयः' इति व्याडि: ॥*॥ चत्वारि ‘रेणुकस्य’ ॥