पृष्ठम्:अमरकोशः (सुधाव्याख्योपेतः).djvu/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वैश्यवर्ग: ९ ] अस्य तु । कैदारकं स्यात्कैदार्य क्षेत्र केदारिकं गणे ॥ ११ ॥ अस्येति ॥ केदाराणां समूहः । 'केदारायश्च' (४२४०) ॥ (२) ॥*॥ चात् (४|२|४०) बुज् ॥ ( १ ) ॥ * ॥ क्षेत्राणां समूहः । 'भिक्षादिभ्यः - (४२३८) इयण । - तस्य समूहः’ (४।२।३७) इत्यण् - इति मुकुटः | तन्न । 'अचित्त-' (४१२९४७) इति ठकस्तदपवादत्वात् ॥ (३) ॥*॥ 'ठज् कवचिनश्च' (४॥२॥४१) चात् केदारादपि ॥ ( ४ ) ॥ * ॥ चत्वारि 'क्षेत्रगणस्य' ॥ व्याख्यासुधाख्यव्याख्या समेतः । लोष्टानि लेष्टवः पुंसि लविति ॥ लोष्ठति । ‘लोष्ट संघाते' (भ्वा० आर० से ० ) पचाद्यच् (३।१।१३४) पुंलिङ्गोऽप्ययम् | 'टुण्डे (ठे) 5. पि लोष्टः स्यात्' इति बोपालितः ॥ (१) ॥*॥ लिश्यते, लि- शति, वा । 'लिश गतौ ' ( तु०प० से ० ) । बाहुलकात्तुन् ।- 'कत्वादयश्च' - इति मुकुटस्त्वपाणिनीयः ॥ (२) ॥ ॥ द्वे 'मृत्तिकाखण्डस्य' || कोटिशो लोष्टमेदनः । कविति ॥ कोटिना अंग्रेण श्यति 'शो तनूकरणे' (दि० प० अ०)। ‘सुपि’ (३।२।४) इति कः | कोटिरस्यास्तीति वा । लोमादित्वात् (५॥२॥१००) शः ॥ (१) ॥ ॥ लोष्टानां मेदनः ॥ (२) ॥ * ॥ द्वे 'लोष्टभेदनकाष्ठस्य' 'हेगा' इति ख्यातस्य ॥ प्राजनं तोदनं तोत्रम् प्रेति ॥ प्रवीयतेऽनेन ‘अज गतिक्षेपणयोः' (भ्वा०प० से०) ल्युट् (३।३।११५)। 'वा यौ' (२१४/५७) इति वी न ॥ (१) ॥*॥ तुद्यतेऽनेन ‘तुद् व्यथने' (तु० उ० अ०) ल्युट् (३।३।११५) ॥ (२) ॥*॥ 'दानी -' (३|२|१८२) इति हुन् । 'तोत्रं तु प्राजने वेणुकेऽपि च ' इति विश्वः (मेदिनी) ॥ (४) ॥ * ॥ त्रीणि 'वृषभादिप्रेरणदण्डस्य' || खनित्रमवदारणम् ॥ १२ ॥ | खेति ॥ खन्यतेऽवदार्य तेऽनेन । 'खन खनने' (भ्वा० उ० से०) । 'अर्तिऌधू-' (३।२।१८४) इतीः ॥ (१) ॥ ॥ अवदार्यतेऽनेन । 'दृ विदारणे' (त्र्या०प० से ० ) | ण्यन्तः । ल्युट् (३।३।११५) ॥ (२) ॥ * ॥ द्वे 'कुद्दालादेः ॥ दात्रं लवित्रम् देति ॥ दात्यनेन । ‘दाप् लबने' (अ० प० अ०) । ‘दाम्नी–’ (३।२।१८२) इति हुन् ॥ (१) ॥ * ॥ लूयतेऽनेन । 'लुञ्' (क्या० उ० से ० ) । 'अर्ति' (३|२|१८४) इतीत्रः ॥ (२) ॥ * ॥ द्वे 'लवित्रस्य' ॥ आबन्धो योत्रं योक्त्रम् आबेति ॥ आबध्यतेऽनेन । 'बन्ध बन्धने' (क्या०प० अ०) । 'हलच' (३।३।१२१) इति घम् ॥ (१) ॥ * ॥ यूयते- अमर० ३९ ऽनेन । 'यु मिश्रणे' (अ० प० से ० ) । 'दानी -' (३।२।१८२) इतिष्ट्रन् ॥ (२) ॥*॥ युज्यतेऽनेन । 'युजिर् योगे' (२० उ० अ०) ट्रन् (३।२।१८२) ॥ (३) ॥ * ॥ त्रीणि 'वृपादेर्गले युगवन्धनस्य' || अथो फलम् । निरीशं कुटकं फालः कृषिकः अथविति ॥ फलति । 'जिफला विशरणे' (भ्वा०प० से०) । अच् (३।१।१३४ ) । 'फलं हेतुफले जातीफले फल- कसस्ययोः | त्रिफलायां च ककोले शस्त्रामे व्युष्टिलाभयोः । फली फलिन्याम्' इति हैमः । स्वामी तु 'हलम्' इति पठिला 'हलप्रकरणमारब्धम्' इति व्याख्यत् ॥ (१) ॥॥ ईशाया निर्गतम् | 'निरादयः' (वा० २२|१८) इति समासः | स्वामी तु 'निष्कान्ता ईषास्मात्' इति विगृह्य 'निरीषम्' इति मूर्धन्यान्तं पपाठ ॥ (२) ॥ ॥ कुटति | ‘कुट कौटिल्ये' (तु॰ छिनत्ति | 'कूट छेदने' ( चु० उ० से ० ) | इगुपथत्वात् (३॥१॥ प० से ० ) । कुन् ( उ० २१३२ ) ॥ ॥ मुकुटस्तु – कूटयति १३५) कः | कूटम् | ततः स्वार्थे कनू (ज्ञापि ० ५१४/५) इति वदन् ( कूटकम् ) दीर्घादि मन्यते । अत्र पन्चाद्यच् ( (३११११३४) उचितः । न तु कः | ण्यन्तस्येगुपधत्वाभावात् ॥ (३) ॥६॥ फालयति । 'फिला विक्षरणे' (भ्वा०प० से ० ) । ०यन्तादच् (३।१।१३४) । 'फाल उत्लती। लीवं सीशेपकरणे पुंसि शंकरसीरिणो:' ( ) ॥ ( ४ ) ॥ ॥ कृपति | 'कृष विले- खने' ( तु० उ० अ०) । 'कृषिथ्योः किकन्' ( उ० २।४०) । 'कृषिकाकृषिकौ फालकृषकौ' इति रुद्रात स्त्रियामपि ॥ * ॥ हुनि ( उ० २।३२) तु कृषकः | स्वामी तु– 'शिल्पिनि धुन्' (३११११४५) इत्याह । तन्न | फेलस्य शिस्पित्वाभावात् । परि- गणनाच | 'कृषकः पुंसि फाले स्यात्कर्ष के त्यभिधेयवत्' इति विश्वः (मेदिनी) ॥ (५) ॥॥ पश्चापि 'फालस्य' – इति कलिङ्गः - द्वयं यत्र काष्ठे फालो निबध्यते तस्य । अन्त्यद्वयं तु फालस्य - इति खामी ॥ लाङ्गलं हलम् ॥ १३ ॥ गोदारणं च सीरः लेति ॥ लङ्गति । 'लगि गतौ' (भ्वा०प० से ० ) | बाहुल- कात्कलच् | दीर्घश्च | – 'कलम्बा (म्बला) दयश्व' - इति मुकुट - स्त्वपाणिनीयः । 'लाङ्गली तोयपिप्पल्यां क्लोवं तु कुसुमा- न्तरे । गोदारणे तृणराजगृहदारुविशेषयोः' (इति मेदिनी ॥ (१) ॥ ॥ हलति | 'हल विलेखने' (भ्वा० प० से ० ) | अच् (३।१।१३४) ॥॥ ‘ज्वलिति-’ (३।१।१४०) इति णे ‘हालः’ अपि । 'हालः फालवहः सीता' इति विक्रमादित्यः ॥ (२) ॥*॥ गां भूमिं दारयति । ल्युट् (३१३१११३) |-गौर्भूमिर्दा- र्यतेऽनेन । करणे ल्युट (३|३|११७) | नन्यादि (३ ॥१॥ १ - स्वामिग्रन्थे तु 'कुन् सिस्पिसंयो:'- ( उ० २१३२) इत्येव पाठो दृश्यते ॥